वत्सेश्वरः कनिष्ठं तं श्वशुर्यं पालकाभिधम् । दत्ताभ्यनुज्ञ ज्येष्ठेन तस्यां राज्येऽभ्यषेचयत् ॥
आलोक्य चास्थिरं सर्वं विरक्तो विषयेषु सः। यौगन्धरायणादिभ्यः सचिवेभ्योऽब्रवीदिदम् ॥
असारेऽस्मिन्भवे तावद्भवाः पर्यन्तनीरसः । कृतं च राज्यमस्माभिर्युक्ता भोगा जिता द्विषः ॥
विद्याधराधिराजत्वं प्राप्तो दृष्टः सुतस्तथा । इदानीं च वयोऽतीतमस्माकं बान्धवैः सह ॥
मृत्यवे दातुमत्ताश्च केशेषु जरसा वयम् । क्लीबराज्यमिवाक्रान्तं शरीरं बलिभिश्व नः ॥
तस्मात्कालंजरगिरौ गत्वा देहमशाश्वतम् । त्यक्त्वेमं साधयाम्यत्र यथोक्तं शाश्वतं पदम् ॥
इत्युक्तास्तेन खचिवा राज्ञा सर्वं विचार्य तत् । देवी वासवदत्ता च समचित्तास्तमब्रुवन् ॥
यथाभिरुचितं देव भवतस्त्वत्प्रसादतः। वयमप्युपयास्यामः परत्राप्युत्तमां गतिम् ॥
इत्यात्मतुल्यैरुक्तस्तैः स राजा धृतनिश्चयः। गोपाळकं तं तत्रस्थं श्वशुर्यं धुर्यमभ्यधात् ॥
नरवाहनदत्तश्च त्वं च तुल्यौ सुतौ मम । तदेतां रक्ष कौशाम्बीं राज्यं तुभ्यं मयार्पितम् ॥
एवं वदसेश्वरेणोक्तस्तं स गोपालकोऽब्रवीत् । युष्माकं या गतिः खा से नाहं वस्त्यक्तुमुत्सहे ॥
एतदेवानुबन्धेन स जल्पन्स्वसृवत्सलः । वत्सराजेन जगदे कोपं कृत्वैव कृत्रिमम् ॥
अत्रैव त्वमनायतो जातो मिथ्यानुवृत्त मे । स्वपदच्यवमानस्य कस्याज्ञां को हि मन्यते ॥
इन्युक्तोऽवाङ्मुखो राज्ञा रूसँ गोपाळको रुदन् । वनाय कृतबुद्धिः सन्संप्रत्यत्र न्यवर्तत ॥
ततो राजा गजारूढो देव्या वासवदत्तया । पद्मावत्या च सहितः स प्रतस्थे समङ्गिकः ॥
कौशाम्ब्या निर्गतं तस्याः सक्रन्दाः साधुदुर्दिनाः। सयोषिद्वलवृद्धाश्च पौरास्तमनु निर्ययुः ॥
गोपालको बः पातेति तानाश्वास्य कथंचन । निव च स वत्सेशः प्रायात्कालंजरं गिरिम् ॥
प्राप्य तं च समारुह्य प्रणम्य च वृषध्वजम् । सर्वकालप्रियां वीणां कृत्वा घोषवतीं करे ॥
पार्श्वगाभ्यां स देवीभ्यामन्वितो मन्त्रिभिः सह । यौगन्धरायणायैस्तैः पतितोऽभूत्प्रपाततः ॥
पतन्नेव विमानेन भास्वरेण स भूपतिः । आगतेनानुगैः सार्ध द्योतमानो दिवं गतः ॥
एतद्विद्या मुखाच्छुत्वा हा तातेत्यभिधाय सः । नरवाहनदत्तोऽत्र पपात भुवि मूर्छितः ॥
लब्धसंज्ञश्च पितरं मातरं पितृमन्त्रिणः । अन्वशोचन्निजामापैः प्रमीतपितृकैः सह ॥
स्वरूपज्ञोऽपि संसारस्यैतस्य क्षणभङ्गिनः । इन्द्रजालोपमानस्य कथं देव विमुञ्चसि ॥
अनुशोचसि चाशोच्यान्कृतकृत्यान्पितृन्कथम् । येषां विद्याधरेन्ड्रेकचक्रवर्ती भवान्सुतः ॥
इति विद्याधराधीशैर्धनवत्या च बोधितः। स पितृभ्यो जलं दत्त्वा विद्यां पप्रच्छ तां पुनः ॥
मातुलो से स गोपालः कास्ते किमकरोदिति । ततो विद्यापि सा भूयः सम्राजं तमभाषत ॥
गते महापथगिरिं वत्सराजेऽनुशोच्य तम् । भगिनीं चध्रुवं मत्वा सर्वे स्थित्वा बहिः पुरः ॥
उज्जयिन्यास्तमानाय्य भ्रातरं पालकं च सः । प्रादाद्रोपालकस्तस्मै कौशाम्बीराज्यमष्यदः ॥
राज्यद्वयस्थे तस्मिंश्च सोऽनुजेऽथ तपोबनम् । वैराग्येणासितगिरिं प्रयातः कश्यपाश्रमम् ॥
तत्र वरकलमादाय तपस्यन्मुनिमध्यगः । मातुलस्तिष्ठति स ते देव गोपालकोऽधुना ॥
श्रुत्वैतद्रष्टुमुत्कस्तं मातुलं सपरिच्छदः । नरवाहनदत्तोऽगाद्विमानेनासिताचलम् ॥
गगनावृतो विद्याधरेश्वरैः । अपश्यदाश्रमपदं स मुनेः कश्यपस्य तत् ॥
सम्प्रेक्षितमिवानेककृष्णसारमृगभ्रमैः। सस्वागताचारमिव कणितेन पतत्रिणाम् ॥
जुहुतामग्निहोत्राणि धूमराजिसमुद्रमैः। प्रदर्शयदिवारोहमार्गे दिवि तपस्विनाम् ॥
बहुभूधरनागेन्द्रमाश्रितं कपिलोत्करैः । अपूर्वमिव पातालमूर्ववर्ति वितामसम् ॥
तत्र मध्ये जटालं तं तरुवल्कलवाससम् । मूर्त शममिवाद्राक्षीन्मातुठं मुनिभिर्युतम् ॥
सोऽपि गोपाळको दृष्ट्वा भागिनेयमुपागतम् । उस्थायाश्लिष्य चक्रे तं चकारोदश्रुलोचनः ॥ १
अथोभौ तौ नवीभूतशोकौ बन्धूनशोचताम् । स्वजनालोकबतेद्धो दुःखाग्निः कं न तापयेत् ॥ १
तदुःखदर्शनार्तेषु तिर्यक्ष्वप्यत्र तौ ततः। उपेत्याश्वासयामासुर्मुनयः कश्यपाद्यः ॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४३०
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२८
[ आदितस्तरङ्गः ?
कथासरित्सागरः ।