लब्धेऽन्तरे हि मिलिता यास्यामो यत्रकुत्रचित् । एवं तयोक्तस्तदहं तथेति तिपन्नवान् ॥ १८९
सुरूपाण्यर्पितात्मापि परस्त्रीयं किमेतया । इति वैर्यस्य मार्गोऽयं न तारुण्यस्य ङ्गिनः ॥ १८३
क्षणादेत्य च सा भर्ना बाला संभाविता सती। तेन साकं सभृत्येन गन्तुं वर्तत क्रमात् ॥ १८४
अहं च गुप्ततद्दत्तपाथेयः परवर्मना। पद्मदलक्षितस्तस्य दूरमध्वानमभ्यगाम् ॥१९५
सा च हस्तिभयभ्रष्टभङ्गाङ्गजनितां रुजम् । पथि मिथ्या वदन्ती तं पतिं र्शाऽप्यबर्जयत् ॥ १८६
कस्य रक्तोन्मुखी गाढरूढान्तर्विषदुःसहा । तिष्ठेदनपकृत्य स्त्री भुजगीव बिकारिता ॥ १८७
क्रमाच्च लोहनगरं प्राप्ताः स्मस्ते पुरं वयम् । वणिज्याजीविनो यत्र भर्तुस्तस्या गृहं स्त्रियाः ॥ १८८
स्थिताः स्मस्तदहश्चात्र सर्वे बाधे सुरालये । तत्र संमिलितवैष द्वितीयो ब्राह्मणः सखा ॥ १८९
नवेऽपि दर्शनेऽन्योन्यमाश्वासः समभूच नौ । चित्तं जानाति जन्तूनां प्रेम जन्मान्तराजितम् ॥ १९०
ततो रहस्यमात्मीयं सर्वमस्मै मयोदितम् । तद्भव तदा स्वर मामेवमयमब्रवीत् ॥ १९१
तूष्णीं भवास्युपायोऽत्र यत्कृते त्वमिहागतः । एतस्या भर्तृभगिनी विद्यतेऽन्न वणिक्त्रियाः ॥ १९२
गृहीतार्था मया साकभितः सा गन्तुमुद्यता । तत्करिष्ये तदीयेन साहाय्येन तवेखि तम् ॥ १९३
इत्युक्त्वा मामयं विप्रो गत्वा तस्यास्तदा रहः । वणिग्वधू ननन्दुस्तद्यथावस्तु न्यवेदयत् ॥ १९४
अन्येद्युः कृतसंविच्च सा ननन्दा समेत्य ताम्। प्रावेशयद्धातृजायां तत्र देवगृहान्तरे ॥ १९५
तत्रान्तः स्थितयोनौ च मध्यदेतं तदैव सा । मित्रं मे भ्रातृजायायास्तस्या वेषमकारयत् ॥ १९६
कृततवैषमेनं च गृहीत्वा नगरान्तरम् । भ्रात्रा सङ्कबिशद्देहं कृत्वा नः कार्यसंविदम् ॥ १९७
अहं च निर्गत्य ततस्तया पुरुषवेषया । वणिग्वध्वा समं प्राप्तः क्रमेणोज्जयिनीमिमाम् ॥ १९८
तन्ननन्द च सा रात्रौ तदहः सरसघाततः। मत्तसुप्तजनाद्देहादनेन सह निर्गता ॥ १९९
ततश्चायं गृहीत्वा तां विप्रच्छन्नैः प्रयाणकैः। आगतो नगरीमेतामथाबां मिलिताविह ॥ २००
इत्यावाभ्यामुभे भार्ये प्राप्ते प्रत्यग्नयौवने । ननान्दं भ्रातृजाये ते स्वानुरागसमर्पिते ॥ २०१
अतो निवासे सर्वत्र देव शक्कामहे वयम् । कस्याश्वसिति चेतो हि विहितस्वैरसाहसम् ॥ २०२
तदवस्थानहेतोश्च वित्तार्थं च रहश्चिरम् । आवां मत्रयमाणौ वो दृष्टौ देवेन दूरतः ॥ २०३
दृष्ट्वानाय्य च संयम्य स्थापितौ चारशङ्कया । अद्य पृष्टौ च वृत्तान्तं स चैष कथितो मया ॥ २०४
देवः प्रभवतीदानीमित्यनेनोदिते तद । राजा विक्रमसिंहस्तौ विप्रौ द्वावप्यभाषत ॥ २०५
तुष्टोऽस्मि वां भयं मा भूदिहैव पुरि तिष्ठतम् । अहमेव च दास्यामि पर्याप्त युवयोर्धनम् ॥२०६
इत्युक्त्वा स ददौ राजा यथेष्टं जीवनं तयोः । तौ च भार्यान्वितौ तस्य निकटे तस्थतुः सुखम् ॥ २०७
इर्थ क्रियासु निवसन्यपि यासु तासु पुंसां श्रियः प्रमलसत्वबहिष्कृतासु ।
एवं च साहसधनेष्वथ बुद्धिमत्सु संतुष्य दाननिरताः क्षितिपा भवन्ति ॥ २०८
इत्यैहिकेन च पुराविहितेन चापि स्वेनैव कर्मविभवेन शुभाशुभेन ।
शश्वद्भवेत्तदनुरूपविचित्रभोगः सर्वो हि नाम ससुरासुर एष सर्गः ॥ २०९
तत्स्वप्नवृत्तनिभतो नभसयुता या माळा वयान्तरुदरं विशतीह दृष्टा ।
सा कापिं देवि सुरजातिरसंशयं ते गर्भ कुतोऽपि खलु कर्मबशाप्रपन्ना ॥ २१०
इति निजभर्तुर्वदनाच्छुत्वा नृपतेः कलिङ्गदत्तस्य ।
देवी तारादत्त प्राप सगर्भा परं प्रमम् ॥ २११
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमवुकालम्बके प्रथमस्तरङ्गः।
_____
द्वितेएयस्तरङः
ततः कलिङ्गदत्तस्य राज्ञो गर्भभरालसा। राशी तक्षशिलायां सा तारादत्ता शनैरभूत् ॥ १
उद्देष्यचन्द्रलेखां च प्राचीमनुचकार सा । आसन्नप्रसवा पाण्डुमुखी तरलतारका ॥२