भार्याथ सा तं पप्रच्छ मुहुः सप्रणयाश्रुता। चिरं किमार्यपुत्रैवं चिन्तयस्युच्यतामिति ॥
प्रिये ध्यायामि सावित्रीमियुक्ते तेन साश्रुता । सावित्रीं तां मुनिसुतां मत्वात्मनि चुकोप ह ॥
दुर्भगोऽयमिति त्यक्तुं देहं गत्वा वनं च सा । शुभं भर्तुरनुध्याय कण्ठे पाशं समर्पयत् ॥
मा पुत्रि साहसं कार्षीः पत्या ध्याता न तेऽङ्गना । ध्यातवं तेन सावित्रीत्युक्त्वा पाशाद्ररक्ष ता ॥
प्रकटीभूय गायत्री साक्षसूत्रकमण्डलुः । भक्तानुकम्पिनी चैतां समाश्वास्य तिरोदधे ॥
अथैषङ्गिरसा भर्तु संप्राप्तान्विष्यता वनात् । तदेवं दुःसहं स्त्रीणामिह प्रणयखण्डनम् ॥
तत्स्वल्पेनापराधेन कुपितेह कचित्स्थिता । अन्वेष्या शंभुरट्या सा राजपुत्रवधूः पुनः ॥
एवं रुमण्वता प्रोक्ते राजा वत्सेश्वरोऽब्रवीत् । एवमेतन्न दुरितं तस्याः संभाव्यते यतः ॥
नरवाहनदत्तस्य भार्या देवविनिर्मिता । कामांशस्यावतीर्योषा रतिर्मदनमञ्चका ॥
असौ विद्याधरैश्वर्यं दिव्यं कल्पं सहानया । करिष्यतीति दिव्या वागब्रवीन्न च तन्मृषा ॥
तदेषान्विष्यतां सम्यगिति राज्ञोदिते स्वयम् । नरवाहनदत्तः स तदवस्थोऽपि निर्ययौ ॥
यथायथा हि चिन्वानो न तां प्राप तथातथा । तेषुतेषु प्रदेशेषु सोन्माद इव सोऽभ्रमत् ॥
अपेते तत्पुरात्तस्मिन्पिहितद्वारका गृहाः । तदुःखदर्शनोद्वेगादिव संमीलितेक्षणाः ॥
वनेषु तं च पृच्छन्तं चलत्पल्लवपाणयः। न सा दृष्टा तवास्माभिरित्यूचुरिव पादपाः ॥
उद्यानेषुत्पतन्तश्च खगास्तस्मै विचिन्वते । इतः सा न गतेत्येवं शशंसुरिव सारसाः ॥
मरुभूतिर्हरिशिखो गोमुखः सवसन्तकः । ते ते च सचिवा भैमुस्तामन्वेष्टुं समन्ततः ॥
अत्रान्तरे वेगवती नाम विद्याधरी किळ । कन्या दृष्टचरोदरवपुर्मदनमञ्चका ॥
तदीयं रूपमास्थाय तस्थावुपवनान्तरे । आगत्यैकाकिनी स्वैरमत्राशोकतरोरधः ॥
तां ददर्श विचिन्वानो मरुभूतिः परिभ्रमन् । सद्यो विशल्यकरणीं सशल्यस्येव चेतसः ॥
नरवाहनदत्तं तं गत्वा हृष्टो जगाद सः। समाश्वसिहि दृष्टा ते मयोद्याने स्थिता प्रिया ॥
इत्येवोक्तवता तेन साकं तत्क्षणमेव सः। नरवाहनदत्तस्तदुद्यानं मुदितो ययौ ॥
तत्रातिविरहछान्तो भार्या मनम जुकाम् । तामपश्यत्स तृषितो वारिधारामिवाध्वगः ॥
दृष्चैवालिङ्गितुं तां च भृशात यावदिच्छति । तावरसा तं जगादैवं धूर्ती परिणयैषिणी ॥
मां त्वं संप्रति मा स्प्राक्षीः श्रुणु तावद्वचो मम । मयोपयाचिता यक्षास्त्वत्प्राप्त्यै प्राग्विवाहतः ॥
विवाहे वः प्रदास्यामि स्वहस्तेन बलीनिति । विवाहकाले ते तस्मिन्मम प्राणेश विस्मृताः॥
तत्कोपातैरहमितो यमैरपहृताभवम् । गच्छ भूयो विवाहं तं कृत्वा दत्त्वा बाडिं च नः ॥
निजं पतिमुपेयास्त्वं नान्यथा ते शिवं भवेत् । इत्युक्त्वा तैरिहानीय यकैर्मुक्तास्मि सांप्रतम् ॥
तन्मां परिणयस्खाशु पुनर्यावद्ददाम्यहम् । यक्षेभ्योऽभिमतां पूजां ततः पूरय वाञ्छितम् ॥
तच्छुत्वैव समाहूय शान्तिसोमं पुरोहितम् । क्षणात्संभृत्य संभारान्मायामदनम जुकाम् ॥
विद्याधरी वेगवतीमुपयेमे स तत्क्षणम् । नरवाहनदत्तस्तां वियोगक्षणकातरः ॥
प्रहृष्टवत्सराजोऽथ देव्यानन्दी महोत्सवः । नन्दकलिङ्गसेनोऽभूत्तत्रातोद्यरवाकुलः ॥
ददौ बलिं च यक्षेभ्यो मायामनमधुका । विद्याधरी स्वहस्तेन स मद्यपिशितादिभिः ॥
नरवाहनदत्तोऽथ वासकस्थस्तया सह । पपौ स सोसवः पानं पानशौण्डोऽपि तद्विरा ॥
सिषेवे च तया साकं जीवलोकसुखं ततः । छाययेव दिनाधीशः परिवर्तितरूपया ॥
रहःस्था चात्रवीत्सा तं सुप्ता नाई प्रिय त्वया । सहसा मुखमुद्धाट्य वीक्षणीयेह संप्रति ॥
तच्छुत्वा स किमेतत्स्यादिति यावत्सकौतुकः। सुप्ताया राजपुत्रोऽस्या मुखमन्येद्युरीक्षते ॥
तावदन्यैव सा कापि न सा मनमञ्चका । स्वापवेलावशध्वस्तमयारूपविवर्तना ॥
ततः स जामदेवासीद्यावत्प्रबुबुधेऽत्र सा । का त्वं सस्यं वदेत्ये वमथ तां पृच्छति स्म सः ॥
साष्यनिद्रोपविष्टं तं दृष्ट्वा रूपे निजे स्थिता । वतुं प्रचक्रमे जातप्रतिभेदा मनस्विनी ॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४०२
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५००
[ आदितस्तरङ्ग
कथासरित्सागरः ।