५९४ कथासरित्सागरः । [आदितस्तरः इति संकल्प्य पितरं सैवं कृतमृषाब्रवीत् । गतस्तात परित्यज्य भर्ता मां सहसैवं सः ॥ तद्वियुक्ता कथं चाहं तिष्ठामीह यथासुखम् । तद्यामि तीर्थयात्रायै छिश्नाम्येतां हतां तनुम् । इत्युक्त्वां तमनिच्छन्तमप्यनुज्ञाप्य यत्नतः । पितरं सा ततः प्रायासधना सपरिच्छदा । क्रमेण गत्वा कृत्वा सा महावं गणिकोचितम् । वेषं विवेशोज्जयिनीं पुरीं लोकैकसुन्दरी । कृत्वा च परिवारेण सह कर्तव्यसंविदम् । सुमङ्गलेति साकार्षीन्नाम विप्रसुतात्मनः॥ कामरूपान्महाव्यागभोग्या नाम्ना सुमङ्गला। आगता गणिकैषेति भृत्यैराख्याप्यतात्र सा । देवदत्ताभिधानाथ तत्रत्या गणिकोत्तमा। द्दावभ्येत्य तस्यै स्वं राजदं मन्दिरं पृथछ ॥ तत्र स्थितां भृत्यमुखेनादौ मित्रं स मे शशी। तामब्रवीत्ख्यातिकृतो भटिमें गृह्यतामिति । अस्मद्वचोऽनुतिष्ठेद्यः प्रविशेत्सोऽत्र कामुकः । न भाव्या कार्यमस्माकं नान्यैः पशुनिभैर्युभिः । इत्युक्तस्तन्मुखेनैव स सुमङ्गलया तया । तथेत्युक्त्वा शशी रात्रिमुखे तन्मन्दिरं ययौ । तत्र स प्रथमं द्वारं संप्राप्यावेदितात्मकः । द्वारपालेन जगदे कुर्वस्मत्स्वामिनीवचः । स्नातोऽपीह पुनः स्नाहि प्रवेशो नास्ति तेऽन्यथा । तच्छुत्वा स शशी स्नानं तथेत्यब्ररीचकार । ततः स यांबद्दसीभिरभ्यङ्गोद्वर्तनोत्तरम् । विस्रब्यं स्नपितस्तावत्प्रथमः प्रहरो गतः । स्नात्वा प्राप्तोऽथ स द्वारं द्वितीयं द्वाररक्षिणा । ऊंचे नातोऽसि तत्तावत्प्रसाधनविधिं कुरु । तथेत्युक्तवतस्तस्य दास्यस्तावत्प्रसाधनम्। चक्रुर्यावद्वितीयोऽपि प्रहरः पर्यहीयत ।। तृतीयसथ संप्राप्तः कक्ष्याद्वारं स रक्षिभिः। जगदं भुङ्क्ष्व तावत्त्वं प्रविशाभ्यन्तरं ततः ॥ बाढमित्युक्तवन्तं तं दास्यस्तावब्यलम्बयेन् । आहारैर्विविधैर्यावत्तृतीयः प्रहरो गतः । अथ वासगृहद्वारं चतुर्थं स कथंचन । संप्राप्तो द्वारपालेन तत्रैवं निरभत्र्यत ॥ प्रान्यकामुक निर्याहि मा खलीकारमाप्स्यसि । कलः किं पश्चिसे यामे गणिकानवसंगमें । एवं तिरस्कृतस्तेन स कालेनेव रूपिणा । शशी विगलितच्छायो यथागतमगात्ततः । इत्थं सुमङ्गलेयाख्यां दधत्या वञ्चितास्तया । गणिकारूपया विप्रमुतान्येऽपि कामुकाः । तच्छुत्वा कौतुकादेव कुरवा दूतगतागतम् । अहं नक्तं गृहं तस्या अगच्छं सुप्रसाधितः । तत्र द्वाःस्थान्प्रतिहारमनुरञ्जयार्थदानतः । तस्या वासगृहद्वारं प्राप्तोऽहमविलम्बितः । काळप्राप्तो विमुक्तश्व द्वाराहःश्यैः प्रविश्य ताम् । वेश्यावेशापरिज्ञातामपश्यं स्वप्रियमहम् । सा पुनः प्रत्यभिज्ञाय कृतप्रत्युदमाविका । वेश्येव धूर्ता पर्यङ्कनिषण्ण मामुपाचरेत् ॥ ततो लोकैकसुन्दर्या साकं नीतनिशस्तया । बद्धनुरागो निर्गन्तुं नाशके तद्रुझावहम् । सापि बद्धरतिः पार्थाज्ञापयति स्म वै तदा । यावद्दिनैः सगर्भाभून्मेचकाप्रपयोधरा । कृत्वाथ कूटलेखी सा विद्धा मखमर्पयन् । राज्ञा से प्रभुणा लेख प्रहित वाच्यतामिति । ततश्चाहं तमुन्मुच्य लेखमेवमवाचयेम् । श्रीकामरूपतः श्रीमान्मानसंह महीपतिः । सुमङ्गलासादिशतिं स्थितास्यत्र चिरं कथम् । शीघ्रमागम्यतां हित्वा देशन्तरकुतूहलम् । मयैवं वाचिते देखे सत्रवीडुःखितेव माम् । यांम्यहं मयि मा मन्यं कृथाः परवती शङ्कम् । एवं कृत्वा मिषं प्रायात्स्वं सा पाटलिपुत्रकम्। अहं तु तां परायत्तेत्यनुरक्तोऽपि नन्वगम् ॥ स च पाटलिपुत्रस्था कालेन सुषुवे सुतम् । ख वर्धमानश्च कलाः सर्वाः शिशुरशिक्षत । द्वादशाबद्ध बयसा स बालो बालचापलात्। दासेरकं सवय लत्तयों जावताडयत् । ताबितत च सोऽवादीऋदन्दासेरको रुषा । त्वं ताडयसि मां यस्य तव न ज्ञायते पिता ।। मातुर्विशसनताया जातरत्वं हि यतस्ततः । इत्युक्तस्तेन वैलक्ष्याद्रत्वाप्राीस मातरम् । अम्ब को से पिता कुत्र स चास्ते कथ्यतामिति । साथ माता द्विजसुता वीक्ष्य क्षणमुवाच तम् पिता ते मूलदेवाय सा त्यक्त्वजयिनीं गतः। इयुक्त्वा मूलतस्तस्मै स्ववृत्तान्त शशंस सा तस आलोपवासत्तासन् तानाशप । गवा तं पितरं वा प्रतिज्ञां पूरयामि ते।
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४९८
दिखावट