गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः १०

विकिस्रोतः तः
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ९ गरुडपुराणम्
अध्यायः १०
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ११ →

श्रीगरुडमहापुराणम् १०

गरुड उवाच ।
सपिण्डीकरण जाते आब्दिके च स्वकर्मभिः ।
देवत्वं वा मनुष्यत्वं पक्षित्वं वाप्नुयुर्नराः ॥ २,१०.१ ॥
तेषां विभिन्नाहाराणां श्राद्धं वै तृप्तिदं कथम् ।
यदप्यन्यैर्द्विजैर्भुक्तं हूयते यदि वानले ॥ २,१०.२ ॥
शुभाशुभात्मकैः प्रेतस्तद्दत्तं भुज्यते कथम् ।
श्राद्धस्यावश्यकत्वन्तु आमावास्यादिषु श्रुतम् ॥ २,१०.३ ॥
श्रीभगवानुवाच ।
प्रेतानां शृणु पक्षीन्द्र यथा श्राद्धन्तु तृप्तिदम् ।
देवो यदपि जातोऽयं मनुष्यः कर्मयोगतः ॥ २,१०.४ ॥
तस्यान्नममृतं भूत्वा देवत्वेऽप्यनुयाति च ।
गान्धर्व्ये भोगरूपेण पशुत्वे च तृणं भवेत् ॥ २,१०.५ ॥
श्राद्धं हि वायुरूपेण नागत्वेऽप्यनुगच्छति ।
फलं भवति पक्षित्वे राक्षसेषु तथामिषम् ॥ २,१०.६ ॥
दानवत्वे तथा मांसं प्रेतत्वे रुधिरं तथा ।
मनुष्यत्वेऽन्नपानादि बाल्ये भोगरसो भवेत् ॥ २,१०.७ ॥
गरुड उवाच ।
कथं कव्यानि दत्तानि हव्यानि च जनैरिह ।
गच्छन्ति पितृलोकं वा प्रापकः कोऽत्र गद्यते ॥ २,१०.८ ॥
मृतानामपि जन्तूनां श्राद्धमाप्यायनं यदि ।
निर्वाणस्य प्रदीपस्य तैलं संवर्धयेच्छिखाम् ॥ २,१०.९ ॥
मृताश्च पुरुषाः स्वामिन् स्वकर्मजनितां गतिम् ।
गाहन्तः के कथं स्वस्य सुतस्य श्रेय आप्नुयुः ॥ २,१०.१० ॥
श्रीभगवानुवाच ।
श्रुतेः प्रत्यक्षतस्तार्क्ष्य प्रामाण्यं बलवत्तरम् ।
श्रुत्या तुः बोधितार्थस्य पीयूषत्वादिरूपता ॥ २,१०.११ ॥
नामगोत्रं पितॄणां वै प्रापकं हव्यकव्ययोः ।
श्राद्धस्य मन्त्रास्तद्वत्तु प्रापकाश्चैव भक्तितः ॥ २,१०.१२ ॥
अचेतनानि चैतानि प्रापयन्ति कथन्त्विति ।
सुपर्ण नावगन्तव्यं प्रापकं वच्मि तेऽपरम् ॥ २,१०.१३ ॥
अग्निष्वात्तादयस्तेषा माधिपत्ये व्यवस्थिताः ।
काले न्यायागतं पात्रे विधिना प्रतिपादितम् ॥ २,१०.१४ ॥
अन्नं नयन्ति तत्रैते जन्तुर्यत्रावतिष्ठते ।
नाम गोत्रञ्च मन्त्राश्च दत्तमन्नं नयन्ति ते ॥ २,१०.१५ ॥
अपि योनिशतं प्राप्तांस्तांस्तृप्तिरुपतिष्ठति ।
तेषां लोकान्तरस्थानां विविधैर्नामगोत्रकैः ॥ २,१०.१६ ॥
अपसव्यं क्षितौ दर्भे दत्ताः पिण्डास्त्रयस्तु वै ।
यान्ति तांस्तर्पयन्त्येवं प्रेतस्थानस्थितान्पितॄन् ॥ २,१०.१७ ॥
अप्राप्तयातनास्थानाः श्रेष्ठा ये भुवि पञ्चधा ।
नानारूपास्तु जाता ये तिर्यग्योन्यादिजातिषु ॥ २,१०.१८ ॥
यदाहारा भवन्त्येते पितरो यत्र योनिषु ।
तासुतासु तदाहारः श्राद्धा अवतिष्ठति ॥ २,१०.१९ ॥
यथा गोषु प्रनष्टासु वत्सो विन्दति मातरम् ।
तथान्नं नयते विप्र जन्तुर्यत्रावतिष्ठते ॥ २,१०.२० ॥
पितरः श्राद्धमोक्तारो विश्वेर्देवैः सदा सह ।
एते श्राद्धं सदा भुक्त्वा पितॄन्सन्तर्पयन्त्यतः ॥ २,१०.२१ ॥
वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ।
प्रीणयाते मनुष्याणां पितॄञ्श्राद्धेषु तर्पिताः ॥ २,१०.२२ ॥
आत्मानं गुर्विणी गर्भमपि प्रीणाति वै यथा ।
दोहदेन तथा देवाः श्राद्धैः स्वांश्च पितॄन्नृणाम् ॥ २,१०.२३ ॥
हृष्यन्ति पितरः श्रुत्वा श्राद्धकालमुपस्थितम् ।
अन्योन्यं मनसा ध्यात्वा सम्पतन्ति मनोजवम् ॥ २,१०.२४ ॥
ब्राह्मणैः सह चाश्नन्ति पितरो ह्यन्तरिक्षगाः ।
वायुभूताश्च तिष्ठन्ति भुक्त्वा यान्ति परां गतिम् ॥ २,१०.२५ ॥
निमन्त्रितास्तु ये विप्राः श्राद्धपूर्वदिनेः खग ।
प्रविश्य पितरस्तेषु भुक्त्वा यान्ति स्वमालयम् ॥ २,१०.२६ ॥
श्राद्धकर्त्रा तु यद्येकः श्राद्धे विप्रो निमन्त्रितः ।
उदरस्थः पिता तस्य वामपार्श्वे पितामहः ॥ २,१०.२७ ॥
प्रपितामहो दक्षिणतः पृष्ठतः पिण्डभक्षकः ।
श्राद्धकाले यमः प्रेतान्पितॄंश्चापि यमालयात् ॥ २,१०.२८ ॥
विसर्जयति मानुष्ये निरयस्थांश्च काश्यप ।
क्षुधार्ताः कीर्तयन्तश्च दुष्कृतञ्च स्वयङ्कृतम् ॥ २,१०.२९ ॥
काङ्क्षन्ति पुत्रपौत्रेभ्यः पायसं मधुसंयुतम् ।
तस्मात्तांस्तत्र विधिना तर्पयेत्पायसेन तु ॥ २,१०.३० ॥
गरुड उवाच ।
स्वामिन्केनापि ते दृष्टा आगताः पितरो द्विज ।
लोकादमुष्मादागत्य भुञ्जन्तो भुवि मानद ॥ २,१०.३१ ॥
श्रीभगवानुवाच ।
गरुत्मञ्छृणु वक्ष्यामि यथा दृष्टास्तु सीतया ।
पितरो विप्रदेहे वै श्वशुराद्यास्त्रयः क्वचित् ॥ २,१०.३२ ॥
गृहीत्वा पितुराज्ञां वै रामो वनमुपागमत् ।
ततः पुष्करयात्रार्थं रामोऽयात्सीतया सह ॥ २,१०.३३ ॥
तीर्थं चापि समागत्य श्राद्धं प्रारब्धवांस्तु सः ।
फलं पक्वन्तु जानक्या सिद्धं रामे निवेदितम् ॥ २,१०.३४ ॥
स्नातप्रियोक्तवाक्यात्तु सुस्नाता नमपालयत् ।
नभोमध्यगते सूर्ये काले कुतुप आगते ॥ २,१०.३५ ॥
अयाता ऋःषयः सर्वे ये रामेण निमन्त्रिताः ।
तान्मुनीनागतान्दृष्ट्वा वैदेही जनकात्मका ॥ २,१०.३६ ॥
रामाज्ञयान्नमादाय परिवेष्टुमुपागता ।
अपासर्पत्ततो दूरे विप्रमध्ये तु संस्थिता ॥ २,१०.३७ ॥
गुल्मैराच्छाद्य चात्मानं निगूढं सा स्थिता तदा ।
एकान्ते तु तदा सीतां ज्ञात्वा राघवनन्दनः ॥ २,१०.३८ ॥
विमृश्य सुचिरं कालमिदं किमिति सत्वरम् ।
किञ्चित्क्वचिद्गता साध्वी त्रपायाः कारणेन हि ॥ २,१०.३९ ॥
किं वा न भोजयन्विप्रान्सी तामन्वेषयाम्यहम् ।
विमृशन्नेवमेवं स स्वयं विप्रानभोजयत् ॥ २,१०.४० ॥
गतेषु द्विजमुख्येषु प्रियां रामोऽब्रवीदिदम् ।
कथं तलासु लीना त्वं मुनीन्दृष्ट्वा समागतान् ॥ २,१०.४१ ॥
तत्सर्वं मम तन्वङ्गि कारणं वद मा चिरम् ।
एवमुक्ता तदा भर्त्रा सीता साधोमुखी स्थिता ।
मुञ्चन्ती चाश्रुसंघातं राघवं वाक्यमब्रवीत् ॥ २,१०.४२ ॥
सीतोवाच ।
शृणु त्वं नाथ यद्दृष्टमाश्चर्यमिह यादृशम् ॥ २,१०.४३ ॥
पिता तव मया दृष्टो ब्राह्मणाग्रे तु राघवः ।
सर्वाभरणसंयुक्तोद्वौ चान्यौ च तथाविधौ ॥ २,१०.४४ ॥
दृष्ट्वा त्वत्पितरञ्चाहमपक्रान्ता तवान्तिकात् ।
वल्कलाजिनसंवीता कथं राज्ञः पुरः प्रभो ॥ २,१०.४५ ॥
भवामि रिपुवीरघ्न सत्यमेतदुहाहृतम् ।
स्वहस्तेन कथं देयं राज्ञे वा भोजनं मया ॥ २,१०.४६ ॥
दासानामपि ये दासा नोपभुञ्जन्ति कर्हिचित् ।
तृणपात्रे कथं तस्मै अन्नं दातुं हि शक्रुयाम् ॥ २,१०.४७ ॥
याहं राज्ञा पुरा दृष्टा सर्वाभरणभूषिता ।
सा स्वेदमलदिग्धाङ्गी कथं यास्यामि भूपतिम् ।
अपकृष्टास्मि तेनाहं त्रपया रघुनन्दन ।
श्रीभागवानुवाच ॥ २,१०.४८ ॥
इति श्रुत्वा प्रियावाक्यं रामो विस्मितमानसः ॥ २,१०.४९ ॥
आश्चर्यमिति तज्ज्ञात्वा तदा स्वस्थानमागमत् ।
सीतया पितरो दृष्टा यथा तत्ते निवेदितम् ॥ २,१०.५० ॥
अपरं श्राद्धमाहात्म्यं किञ्चिच्छृणु समासतः ।
अमावस्यादिने प्राप्ते गृहद्वारे समास्थिताः ॥ २,१०.५१ ॥
वायुभूताः प्रवाञ्छन्ति श्राद्धं पितृगणा नृणाम् ।
यावदस्तमयं भानोः क्षुत्पिपासासमाकुलाः ॥ २,१०.५२ ॥
ततश्चास्तं गते सूर्ये निराशा दुःखसंयुताः ।
निःश्वसन्तश्चिरं यान्ति गर्हयन्तस्तु वंशजम् ॥ २,१०.५३ ॥
तस्माच्छ्राद्धं प्रयत्नेन अमायां कर्तुमर्हति ।
यदि श्राद्धं प्रकुर्वन्ति पुत्राद्यास्तस्य बान्धवाः ॥ २,१०.५४ ॥
उद्धृता ये गयाश्राद्धे ब्रह्मलोकञ्च तैः सह ।
भजन्ते क्षुत्पिपासा वा न तेषां जायते क्वचित् ॥ २,१०.५५ ॥
तस्माच्छ्राद्धं प्रयत्नेन सम्यक्कुर्याद्विचक्षणः ।
तस्माच्छ्राद्धं चरेद्भक्त्या शाकैरपि यथाविधि ॥ २,१०.५६ ॥
कुर्वीत समये श्राद्धं कुले कश्चिन्न सीदति ।
आयुः पुत्रान्यशः स्वर्गं कीर्तिं पुष्टिं बलं श्रियम् ॥ २,१०.५७ ॥
पशून्सौख्यं धनं धान्यं प्राप्नुयात्पितृपूजनात् ।
देवकार्यादपि सदा पितृकार्यं विशिष्यते ॥ २,१०.५८ ॥
देवताभ्यः पितॄणां हि पूर्वमाप्यायनं शुभम् ।
ये यजन्ति पितॄन्देवान्ब्राह्मणांश्च हुताशनम् ॥ २,१०.५९ ॥
सर्वभूतान्तरात्मानं मामेव हि यजन्ति ते ।
स्मार्तेन विधिना श्राद्धं कृत्वा स्वविभवोचितम् ॥ २,१०.६० ॥
आब्राह्मस्तम्बपर्यन्तं जगत्प्रीणाति मानवः ।
अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि ॥ २,१०.६१ ॥
तेन तृप्तिमुपायान्ति ये पिशाचत्वमागताः ।
यच्चाम्बुः स्नानवस्त्रेभ्यो भूमौ पतति खेचर ॥ २,१०.६२ ॥
तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते ।
यानि गन्धाम्बूनि चैव पतन्ति धरणीतले ॥ २,१०.६३ ॥
तेन चाप्यायनं तेषां ये देवत्वमुपागताः ।
ये चापि स्वकुलाद्बाह्याः क्रियायोग्या ह्यसंस्कृताः ॥ २,१०.६४ ॥
विपन्नास्ते तु विकिरसंमार्जनजलाशिनः ।
भुक्त्वा चाचमनं यच्च जलं यच्चाह्नि सेवितम् ॥ २,१०.६५ ॥
ब्राह्मणानां तथैवान्यत्तेन तृप्तिं प्रयान्ति वै ।
पिशाचत्वमनुप्राप्ताः कृमिकीटत्वमेव ये ॥ २,१०.६६ ॥
उद्धृतेष्वन्नपिण्डेषु भुवि ये चान्नकाङ्क्षिणः ।
तैरेवाप्यायनं तेषां ये मनुष्यत्वमागताः ॥ २,१०.६७ ॥
एवं वै क्रियमाणानां तेषां चैव द्विजन्मनाम् ।
कश्चिज्जलान्नविक्षेपः शुचिरुच्छिष्ट एव वा ॥ २,१०.६८ ॥
तेनान्नेन कुले तेषां ये वै जात्यन्तरं गताः ।
भवत्याप्यायनं तेषां सम्यक्श्राद्धे कृते सति ॥ २,१०.६९ ॥
अन्यायोपार्जितैर्द्रव्यैर्यच्छ्राद्धं क्रियते नरैः ।
तकृप्यन्ति तेन चण्डालाः पुक्कसाद्युपयोनिषु ॥ २,१०.७० ॥
एवं संप्राप्यते पक्षिन् यद्दत्तमिह बान्धवैः ।
श्राद्धं कुर्वद्भिरन्नाम्वुशाकैस्तृप्तिर्हि जायते ॥ २,१०.७१ ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
सद्यो देहान्तरप्राप्तिर्विलंबेनावनीतले ॥ २,१०.७२ ॥
पृष्टवानसि तत्तेऽहं प्रवक्ष्यामि समासतः ।
सद्यो विलम्बतञ्चैवोभयथापि कलेवरम् ॥ २,१०.७३ ॥
यतो हि मर्त्यः प्राप्नोति तद्विशेषञ्च मे शृणु ।
अधूमकज्योतिरिवाङ्गुष्ठमात्रः पुमांस्ततः ॥ २,१०.७४ ॥
देहमेकं सद्य एव वायवीयं प्रपद्यते ।
यथा नृणजलौका हि पश्चत्पादं तदोद्धरेत् ॥ २,१०.७५ ॥
स्थितिरग्र्यस्य पादस्य यदा जाता दृढा भवेत् ।
एवं देही पूर्वदेहं समुत्सृजति तं यदा ॥ २,१०.७६ ॥
भोगार्थमग्रे स्याद्देहो वायवीय उपस्थितः ।
विषयग्राहकं यद्वन्म्रियमाणस्य चेन्द्रियम् ॥ २,१०.७७ ॥
निर्व्यापारं तच्च देहे वायुनैव स गच्छति ।
शरीरं यदवाप्नोति तच्चाप्युत्क्वम्यति स्वयम् ॥ २,१०.७८ ॥
गृहीत्वा स्वं विनिर्याति जीवो गर्भ ईवाशयात् ।
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ॥ २,१०.७९ ॥
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ।
आतिवाहिकमित्येवं वायवीयं वदन्ति हि ॥ २,१०.८० ॥
एवं तु यातुधानानां तमेव च वदन्ति हि ।
सुपर्ण ईदृशो देहो नृणां भवति पिण्डजः ॥ २,१०.८१ ॥
पुत्रादिभिः कृताश्चेत्स्युः पिण्डा दश दशाहिकाः ।
पिण्डजेन तु देहेन वायुजश्चैकतां व्रजेत् ॥ २,१०.८२ ॥
पिण्डजो यदि नैव स्याद्वायुजोऽर्हति यातनाम् ।
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिः पक्षीन्द्रेत्यवधारय ॥ २,१०.८३ ॥
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २,१०.८४ ॥
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २,१०.८५ ॥
वायवीयां तनुं याति सद्य इत्युक्तमेव ते ।
प्राप्तिर्विलंबतो यस्य तं देहं खलु मे शृणु ॥ २,१०.८६ ॥
क्वचिद्विलंबतो देहं पिण्डजं स समाप्नुयात् ।
अथो गतो याम्यलोकं स्वीयकर्मानुसारतः ॥ २,१०.८७ ॥
चित्रगुप्तस्यवाक्येन निरयाणि भुनक्ति सः ।
यातनाःसमवाप्याथ पशुपक्ष्यादिकीं तनुम् ॥ २,१०.८८ ॥
या गृह्णाति नरः सा स्यान्मोहेन ममतास्पदम् ।
शुभाशुभं कर्मफलं भुक्त्वा मुच्यते मानवः ॥ २,१०.८९ ॥
गरुड उवाच ।
तीर्त्वा दुः खभवाम्भोधिं भवन्तं कथमाप्नुयात् ।
बहुपातकयुक्तोऽपि तद्वदस्व दयानिधे ॥ २,१०.९० ॥
भूयो दुः खस्य संसर्गो नरस्य न भवेद्यथा ।
ब्रूहि शुश्रूषमाणस्य पृच्छतो मे रमापते ॥ २,१०.९१ ॥
श्रीकृष्ण उवाच ।
स्वेस्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ २,१०.९२ ॥
कर्मविभ्रष्टकालुष्यो वासुदेवानुचिन्तया ।
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ॥ २,१०.९३ ॥
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ।
विरक्तसेवी लब्ध्वाशी यतवाक्कायमानसः ॥ २,१०.९४ ॥
ध्यानयोगपरो नित्यं वैरग्यं समुपाश्रितः ।
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ॥ २,१०.९५ ॥
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ।
अतः परं नृणां कृत्यं नास्ति कश्यपनन्दन ॥ २,१०.९६ ॥
इति श्रीगारुडे महापु उत्तरखण्डे द्वितीदृधर्मदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे श्राद्धस्य तृप्तिदत्वादिनिरूपणं नाम दशमोऽध्यायः