गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ९

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ८ गरुडपुराणम्
अध्यायः ९
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः १० →

श्रीगरुडमहापुराणम् ९
गरुड उवाच ।
उक्तमाद्यां क्रियां यावन्नृपोऽपीतित्वयानघ ।
कस्यचित्केनचिद्राज्ञा किमाद्या सा कृता पुरा ॥ २,९.१ ॥

श्रीकृष्ण उवाच ।
सुपर्ण शृणु वक्ष्यामि यथा राज्ञा क्रिया कृता ।
आसीत्कृतयुगे राजा वाङ्गो वै बभ्रुवाहनः ॥ २,९.२ ॥

पृथिव्याश्चतुरन्ताया गोप्ता पक्षीन्द्र धर्मतः ।
चतुर्भागां भुवं कृत्स्नां स भुङ्के वसुधाधिपः ॥ २,९.३ ॥

न पापकृत्कश्चिदासीत्तस्मिन्राज्यं प्रशासति ।
नासीच्चौरभयं तार्क्ष्य न क्षुद्रभयमेव हि ॥ २,९.४ ॥

नासीद्व्याधिभयञ्चापि तस्मिञ्जनपदेश्वरे ।
स्वधर्मे रेमिरे चासीत्तेजसा भास्करोपमः ॥ २,९.५ ॥

अक्षुब्धत्वेर्ऽचलसमः सहिष्णुत्वे धरासमः ।
स कदाचिन्महाबाहुः प्रभूतबलवाहनः ॥ २,९.६ ॥

वनं जगाम गहनं हयानाञ्च शतैर्वृतः ।
सिंहनादैश्च योधानां शङ्खदुन्दुभिनिः स्वनैः ॥ २,९.७ ॥

आसीत्किलकिलाशब्दस्तस्मिन् गच्छती पार्थिवे ।
तत्रतत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः ॥ २,९.८ ॥

निर्ययौ परया प्रीत्या वनं मृगजिघांसया ।
स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् ॥ २,९.९ ॥

बिल्वार्कखदिराकीर्णं कपित्थध्वजसंयुतम् ।
विषमैः पर्वतैश्चैव सर्वतश्च समन्वितम् ॥ २,९.१० ॥

निर्जलं निर्मनुष्यञ्च बहुयोजनमायतम् ।
मृगसिंहैर्महाघोरैन्यैश्चापि वनेचरैः ॥ २,९.११ ॥

तद्वनं मनुज व्याघ्रः सभृत्यबलवाहनः ।
लीलया लोडयामास सूदयन्विविधान्मृगान् ॥ २,९.१२ ॥

मृगस्य कस्यचित्कुक्षिं ततो विव्याध भूमिपः ।
राजा मृगप्रसङ्गेन तमनु प्राविशद्वनम् ॥ २,९.१३ ॥

एकाकी वै हृतबलः क्षुत्प्रिपासासमन्वितः ।
स वनस्यान्तमासाद्य महच्चारण्यमासदत् ॥ २,९.१४ ॥

तृषया परयाविष्टोऽन्विष्यज्जलमितस्ततः ।
स दूरात्पूरचक्राह्वं हंससारसनादितैः ॥ २,९.१५ ॥

सूचितं सर आगत्य साश्व एव व्यगाहत ।
पद्मानाञ्च परागेण उत्पलानां रजेन च ॥ २,९.१६ ॥

सुगन्धममलं शीतं पीत्वाम्भो निर्जगाम ह ।
मार्गश्रमपरिश्रान्तस्तडागतटमण्डपम् ॥ २,९.१७ ॥

न्यग्रोधं वीक्ष्य तस्याशु जटास्वश्वं बबन्ध ह ।
स तत्रास्तरमास्तीर्य खेटकानुपधाय च ॥ २,९.१८ ॥

सूष्वाप वायुना तत्र सेव्यामातस्तदा क्षणम् ।
क्षणं सुप्ते नृपे तत्र प्रेतो वै प्रेतवाहनः ॥ २,९.१९ ॥

कश्चिदत्राजगामाथ युक्तः प्रेतशतेन च ।
अस्थिचर्मशिराशेषशरीरः परिविभ्रमन् ॥ २,९.२० ॥

भक्ष्यंपेयं मार्गमाणो न बध्नाति धृतिं क्वचित् ।
तमपूर्वं नृपो दृष्ट्वाकरोदस्त्रं शरासने ॥ २,९.२१ ॥

दृष्ट्वा सोऽपि चिरं भूपं तस्थौ स्थाणुपिवाग्रतः ।
तमवस्थितमालोक्य राजा प्राप्तकुतूहलः ॥ २,९.२२ ॥

पप्रच्छ तञ्च कोऽसीति कुतो वा विकृतिं गतः ।
प्रेत उवाच ।
प्रेतभावो मया त्यक्तो गतिं प्राप्तोऽस्म्यहं पराम् ॥ २,९.२३ ॥

त्वत्संयोगान्महाबाहो नास्ति धन्यतरो मया ।
बभ्रुवाहन उवाच ।
किमेतद्विपिने घोरे सर्वत्रातिभयानके ॥ २,९.२४ ॥

दोधूयमाने वातेन वात्यारूपेण कोणप ।
पतङ्गा मशकाः क्षुद्राः कवन्धाश्च शिरांसि च ॥ २,९.२५ ॥

मत्स्याः कूर्माः कृकलासा वृश्चिका भ्रमराहयः ।
अधोमुखोर्ध्वपादास्ते क्रन्दमानाः सुदारुणम् ॥ २,९.२६ ॥

प्रवान्ति वायवो रूक्षा ज्वलन्तो विद्युदग्नयः ।
इतस्ततो भ्रमन्तीव वायुना तृणसन्ततिः ॥ २,९.२७ ॥

दृश्यन्ते विविधा जीवा नागाश्च शलभव्रजाः ।
श्रूयन्ते बहुधा रावा न दृश्यन्ते क्वचित्क्वचित् ॥ २,९.२८ ॥

दृष्ट्वेदं विकृतं सर्वं वेपते हृदयंमम ।
प्रते उवाच ।
येषां नैवाग्निसंस्कारो न श्राद्धं नोदकक्रियाः ॥ २,९.२९ ॥

षट्पिण्डा दश गात्राणि सपिण्डीकरणं न हि ।
विश्वासघातिनो ये च सुरापाः स्वर्णहारिणः ॥ २,९.३० ॥

मृता दुर्मरणाद्ये च ये चासूयापरा जनाः ।
प्रायश्चित्तविहीना ये अगम्यागमने रताः ॥ २,९.३१ ॥

कर्मभिर्भ्राम्यमाणास्ते प्राणिनः स्वकृतैरिह ।
दुर्लभाहारपानीया दृश्यन्ते पीडिता भृशम् ॥ २,९.३२ ॥

एतेषां कृपया राजंस्त्वं कुरुष्वौर्ध्वदेहिकम् ।
येषां न माता न पिता न पुत्रो न च बान्धवाः ॥ २,९.३३ ॥

तेषा राजा स्वयं कुर्यात्कर्माणि तु यतो नृपः ।
आत्मनश्च शुभं कर्म कर्तव्यं पारलौकिकम् ॥ २,९.३४ ॥

विमुक्तः सर्वदुः खेभ्यो येनाञ्जो दुर्गातिं तरेत् ।
भ्रातरः कस्य के पुत्रास्त्रियोऽपि स्वार्थकोविदाः ॥ २,९.३५ ॥

न कार्यस्तेषु विश्रम्भ स्वकृतं भुज्यतेयतः ।
गृहेष्वर्था निवर्न्त्तन्ते श्मशाने चैव बान्धवाः ॥ २,९.३६ ॥

शरीरं काष्ठामादत्ते पापं पुण्यं सह व्रजेत् ।
तस्मादाशु त्वया सम्यगात्मनः श्रेय इच्छता ॥ २,९.३७ ॥

अस्थिरेण शरीरेण कर्तव्यञ्चौर्ध्वदोहिकम् ।
राजोवाच ।
कृशरूपः करालाक्षस्त्वं प्रेत इव लक्ष्यसे ॥ २,९.३८ ॥

कथयस्वः मम प्रीत्या प्रेतराज यथातथम् ।
तथा पृष्टः स वै राज्ञा उवाच सकलं स्वकम् ॥ २,९.३९ ॥

प्रेत उवाच ।
कथयामि नृपश्रेष्ठ सर्वमेवादितस्तव ।
प्रेतत्वे कारणं श्रुत्वा दयां कर्तुमिहार्हसि ॥ २,९.४० ॥

वैदिशं नाम नगरं सर्वसम्पत्सुखावहम् ।
नानाजनपदाकीर्णं नानारत्नसमाकुलम् ॥ २,९.४१ ॥

नानापुष्पवनाकीर्णं नानापुण्यजनावृतम् ।
तत्राहं न्यवसं भूप देवार्चनरतः सदा ॥ २,९.४२ ॥

वैश्यजातिः सुदेवोऽहं नाम्ना विदितमस्तु ते ।
हव्येन तर्पिता देवाः कव्येन पितरो मया ॥ २,९.४३ ॥

विविधैर्दानयोगैश्च विप्राः सन्तर्पिता मया ।
आहारश्च विहारश्च मया वै सुनिवेशितः ॥ २,९.४४ ॥

दीनानाथविशिष्टेभ्यो मया दत्तमनेकधा ।
तत्सर्वं निष्फलं जातं मम दैवादुपागतम् ॥ २,९.४५ ॥

न मेऽस्ति सन्ततिस्तात न सुहृन्न च बान्धवाः ।
न च मित्रं हितस्तादृग्यः कुर्यादौर्ध्वदैहिकम् ॥ २,९.४६ ॥

प्रेतत्वं सुस्थिरं तेन मम जातं नृपोत्तम ।
एकादशं त्रिपक्षञ्च षाण्मासिकमथाब्दिकम् ॥ २,९.४७ ॥

प्रतिमास्यानि चान्या नि ह्येवं श्राद्धानि षोडश ।
यस्यैतानि न दीयन्ते प्रेतश्राद्धानि भूपते ॥ २,९.४८ ॥

प्रेतत्वं सुस्थिरं तस्यः दत्तैः श्राद्धशतैरपि ।
एवं ज्ञात्वा महाराज प्रेतत्वादुद्धरस्व माम् ॥ २,९.४९ ॥

वर्णानाञ्चैव सर्वेषां राजा बन्धुरिहोच्यते ।
तन्मां तारय राजेन्द्र मणिरत्नं ददामि ते ॥ २,९.५० ॥

यथा मम शुभावाप्तिर्भवेन्नृपवरोत्तम ।
तथा कार्यं महीपाल दयां कृत्वा मयि प्रभो ॥ २,९.५१ ॥

सपिण्डैर्वा सगोत्रैर्वा निष्टुरैर्न कृतो हिमे ।
वृषोत्सर्गस्ततो दुष्टं प्रेतत्वं प्राप्तवानहम् ॥ २,९.५२ ॥

क्षुत्तृषाविष्टदेहश्च भक्ष्यं पानं न चाप्नुयाम् ।
अतो विकृतिरेषा वै कृशात्वादिरमांसका ॥ २,९.५३ ॥

क्षुत्तृड्जन्यं महादुः खमनुभवामि पुनः पुनः ।
अकल्याणं हि प्रेतत्वं वृषोत्सर्गं विना कृतम् ॥ २,९.५४ ॥

तस्माद्राजन्दयासिन्धो प्रार्थयामि तवाग्रतः ।
राजोवाच ।
वर्तते मत्कुले प्रेत इति ज्ञेयं कथं नरैः ॥ २,९.५५ ॥

तन्ममाचक्ष्व हि प्रेत प्रेतत्वान्मुच्यते कथम् ।
प्रेत उवाच ।
लिङ्गेन पीडया प्रेतोऽनुमातव्यो नरैः सदा ॥ २,९.५६ ॥

वक्ष्यामि पीडास्ता राजन्या वै प्रेतकृता भुवि ।
ऋतुः स्यादफलः स्त्रीणां यदा वंशो न वर्धते ॥ २,९.५७ ॥

म्रियन्ते चाल्पवयसः सा पीडा प्रेतसम्भवा ।
अकस्माद्वृत्तिहरणमप्रतिष्ठा जनेषु वै ॥ २,९.५८ ॥

अकस्माद्गृहदाहः स्यात्सा पीडा प्रेतसम्भवा ।
स्वगेहे कलहो नित्यं स्याच्च मिथ्याभिशंसनम् ॥ २,९.५९ ॥

राजयक्ष्मादिसम्भूतिः सा पीडा प्रेतसम्भवा ।
अपि स्वयं धनं मुक्तं प्रयत्नादनवे पथि ॥ २,९.६० ॥

नैव लभ्येत नश्येतः सा पीडा प्रेतसंमवा ।
सुवृष्टौ कृषिनाशः स्याद्वाणिज्याद्वृत्तिनाशनम् ॥ २,९.६१ ॥

कलत्रं प्रतिकूलं स्यात्सा पीडा प्रेतसम्भवा ।
एवन्तु पीडया राजन्प्रेतज्ञानं भवेन्नृणाम् ॥ २,९.६२ ॥

वृषोत्सर्गो यदि भवेत्प्रेतत्वान्मुच्यते तदा ।
तस्मान्नृप त्वमप्येवं वृषोत्सर्गं कुरु प्रभो ॥ २,९.६३ ॥

मामुद्दिश्य नृपेऽप्यत्राधिकारोऽत्यनुकम्पया ।
राजपुत्रो हतः कश्चिन्मयैवाप्तस्ततो मया ॥ २,९.६४ ॥

कुरुष्व त्वं गृहीत्वा मे तद्धनेन वृषोत्सवम् ।
कार्तिक्यां पौर्णमास्यां वाऽश्वयुङ्मध्येऽथवा नृप ॥ २,९.६५ ॥

रेवतीयुक्तदिवसे कृषीष्ठा मे वृषोत्सवम् ।
पुण्यान्विप्रान्समाहूय वह्निं स्थाप्य विधानतः ॥ २,९.६६ ॥

मन्त्रैर्होमस्तथा कार्यः षड्भिर्नृप विधानतः ।
बहून्विप्रान् भोजयेथास्तद्रत्नाप्तधनेन वै ।
एवं कृते महीपाल मम मुक्तिर्भविष्यति ॥ २,९.६७ ॥

श्रीकृष्ण उवाच ।
तथेति प्रतिजग्राह मणिं राजा ततः खग ॥ २,९.६८ ॥

क्रियाधिकारस्तस्यैव यो धनग्राहको भवेत् ।
कुर्वतोस्तु तयोर्वार्तामेवं प्रेतमहीक्षितोः ॥ २,९.६९ ॥

झणत्कारस्तु घण्टानां भेरीणां भाङ्कृतिस्तथा ।
जातस्तदा राजसेना चतुरङ्गा समापतत् ॥ २,९.७० ॥

तस्यामागतमात्रायां प्रेतश्चादृश्यतां गतः ।
तस्माद्वनाद्विनिःसृत्य राजापि पुरमागमत् ॥ २,९.७१ ॥

स कार्तिक्यां पूर्णिमायां प्रेतमुद्दिश्य संव्यधात् ।
वृषोत्सर्गं विधानेन तन्मण्याप्तधनेन च ॥ २,९.७२ ॥

प्रेतोऽप्ययं सपदिलब्धसुवर्णदेहः कर्मान्त आगत इति प्रणनाम भूपम् ।
देव त्वदीयमहिमायमिति स्तुवन् स यातो दिवं गरुड भूपतिना कृतज्ञः ॥ २,९.७३ ॥

एतत्ते सर्वमाख्यातं यथा भूपतिनापि सः ।
उद्धृतः प्रेतभावाद्वै किमन्यच्छ्रोतुमिच्छसि ॥ २,९.७४ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे राजकृतवृषोत्सर्गक्रियादिनिरूपणं नाम नवमोऽध्यायः