गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः १३

विकिस्रोतः तः
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः १२ गरुडपुराणम्
अध्यायः १३
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः १४ →
ओंकारेश्वर क्षेत्रे नन्दिनः प्रतिमानि। प्रतिमा बाह्यमुखी अथवा अन्तर्मुखी अस्ति।


श्रीगरुडमहापुराणम् १३
गरुड उवाच ।
कर्मणा केन देवेश प्रेतत्वं नैव जायते ।
पृथिव्यां सर्वजन्तूनां तद्ब्रूहि परमेश्वर ॥ २,१३.१ ॥
श्रीकृष्ण उवाच ।
अथ वक्ष्यामि संक्षेपात्क्षयाहादौर्ध्वदैहिकम् ।
स्वहस्तेनैव कर्तव्यं मोक्षकामैस्तु मानवैः ॥ २,१३.२ ॥
स्त्रीणामपि विशेषेण पञ्चवर्षाधिके शिशौ ।
वृषोत्सर्गादिकं कर्म प्रेतत्वविनिवृत्तये ।
वृषोत्सर्गादृते नान्यत्किञ्चिदस्ति महीतले ॥ २,१३.३ ॥
जीवन्वापि मृतो वापि वृषोत्सर्गं करोति यः ।
प्रेतत्वं न भवेत्तस्य विना दानमखव्रतैः ॥ २,१३.४ ॥
गरुड उवाच ।
कस्मिन्काले वृषोत्सर्गं जीवन्वापि मृतोऽपि वा ।
कुर्यात्सुरवरश्रेष्ठ ब्रूहि मे मधुसूदन ॥ २,१३.५ ॥
किं फलं तु भवेदन्ते कृतैः श्राद्धैस्तु षोडशैः ॥ २,१३.६ ॥
श्रीकृष्ण उवाच ।
अकृत्वा तु वृषोत्सर्गं कुरुते पिण्डपातनम् ।
नोपतिष्ठति तच्छ्रेयो दातुः प्रेतस्य निष्फलम् ॥ २,१३.७ ॥
एकादशाहे प्रेतस्य यस्य नोत्सृज्यते वृषः ।
प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥ २,१३.८ ॥
गरुड उवाच ।
सर्पाद्धि प्राप्तमृत्यूनामग्निदाहादि न क्रिया ।
जलेन शृङ्गिणा वापि शस्त्राद्यैर्म्रियते यदि ॥ २,१३.९ ॥
असन्मृत्युमृतानां च कथं शुद्धिर्भवत्प्रभो ।
एतन्मे संशयं देव च्छेत्तुमर्हस्यशेषतः ॥ २,१३.१० ॥
श्रीकृष्ण उवाच ।
षण्मासैर्ब्राह्मणः शुध्येद्युग्मे सार्धे तु बाहुजः ।
सार्धमासेन वैश्यस्तु शूद्रो मासेन शुध्यति ॥ २,१३.११ ॥
दत्त्वा दानान्यशेषाणि सुतीर्थे म्रियते यदि ।
ब्रह्मचारी शुचिर्भूत्वा न स यातीह दुर्गतिम् ॥ २,१३.१२ ॥
वृषोत्सर्गादिकं कृत्वा यतिधर्मं समाचरेत् ।
यतित्वे मृत्युमाप्नोति स गच्छेद्ब्रह्मशाख्वतम् ॥ २,१३.१३ ॥
विकर्म कुरुते यस्तु शिष्टाचारविवर्जितः ।
वृषोत्सर्गादिकं कृत्वा न गच्छेद्यमशासनम् ॥ २,१३.१४ ॥
पुत्त्रो वा सोदरो वापि पौत्रो बन्धुजनस्तथा ।
गोत्रिणश्चार्थभागी च मृते कुर्याद्वृषोत्सवम् ॥ २,१३.१५ ॥
पुत्राभावे तु पत्नी स्याद्दौहित्त्रो दुहीतापि वा ।
पुत्त्रेषु विद्यमानेषु वृषं नान्येन कारयेत् ॥ २,१३.१६ ॥
गरुड उवाच ।
पुत्त्रा यस्य न विद्यन्ते नरा नार्यः सुरेश्वर ।
एतन्मे संशयं देव च्छेतुमर्हस्यशेषतः ॥ २,१३.१७ ॥
श्रीकृष्ण उवाच ।
अपुत्त्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
तस्मात्केनाप्युपायेन पुत्त्रस्य जननं चरेत् ॥ २,१३.१८ ॥
यानि कानि च दानानि स्वयं दत्तानि मानवैः ।
तानितानि च सर्वाणि तूपतिष्ठन्ति चाग्रतः ॥ २,१३.१९ ॥
व्यञ्जनानि विचित्राणि भक्ष्यभोज्यानि यानि च ।
स्वहस्तेन प्रदत्तानि देहान्ते चाक्षयं फलम् ॥ २,१३.२० ॥
गोभूहिरण्यवासांसि भोजनानि पादनि च ।
यत्रयत्र वसेज्जन्तुस्तत्रतत्रोपतिष्ठति ॥ २,१३.२१ ॥
यावत्स्वस्थं शरीरं हि तावद्धर्मं समाचरेत् ।
अस्वस्थः प्रेरितश्चान्यैर्नाकिञ्चित्कर्तुमर्हति ॥ २,१३.२२ ॥
जीवतोऽपि मृतस्येह न भूतं चौर्ध्वदैहिकम् ।
वायुभूतः क्षुधाविष्टो भ्रमते च दिवानिशम् ॥ २,१३.२३ ॥
कृमिः कीटः पतङ्गो वा जायते म्रियते पुनः ।
असद्गर्भे भवेत्सोऽपि जातः सद्यो विनश्यति ॥ २,१३.२४ ॥
यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ २,१३.२५ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे वृषोत्सर्गदानधर्मपुत्रादिप्रशंसनं नाम त्रयोदशोऽध्यायः/font>

सामवेदीया वृषोत्सर्गविधिः