गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ११ गरुडपुराणम्
अध्यायः १२
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः १३ →

श्रीगरुडमहापुराणम् १२
श्रीकृष्ण उवाच ।
एवं ते कथितस्तार्क्ष्य जीवितस्य विनर्णयः ।
मानुषाणां हितार्थाय प्रेतत्वविनिवृत्तये ॥ २,१२.१ ॥

चतुरशीतिलक्षाणि चतुर्भेदाश्च जन्तवः ।
अण्डजाः स्वेदजाश्चैव उद्भिज्जाश्च जारायुजाः ॥ २,१२.२ ॥

एकविंशतिलक्षाणि अण्डजाः परिकीर्तिताः ।
स्वेदजाश्च तथा प्रोक्ता उद्भिज्जाश्च क्रमेण तु ॥ २,१२.३ ॥

जरायुजास्तथा प्रोक्ता मनुष्याद्यास्तथा परे ।
सर्वेषामेव जन्तूनां मानुषत्वं हि दुर्लभम् ॥ २,१२.४ ॥

पञ्चेन्द्रियनिधानत्वं महापुण्यैरवाप्यते ।
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्रास्तत्परजातयः ॥ २,१२.५ ॥

रजकश्चर्मकारश्च नटो बुरुड एव च ।
कैवर्तमेदभिल्लाश्च सप्तैते ह्यन्त्यजाः स्मृताः ॥ २,१२.६ ॥

म्लेच्छतुम्बविभेदेन जातिभेदास्त्वनेकशः ।
जन्तूनामेव सर्वेषां जातिभेदाः सहस्रशः ॥ २,१२.७ ॥

जन्तूनामेव सर्वेषां भेदाश्चैव सहस्रशः ।
आहारो मैथुनं निद्रा भयं क्रोधस्तथैव च ॥ २,१२.८ ॥

सर्वेषा मेव जन्तूनां विवेको दुर्लभः परः ।
एकपादादिरूपेण देहभेदास्त्वनेकशः ॥ २,१२.९ ॥

कृष्णसारो मृगो यत्र धर्मदशः स उच्यते ।
ब्रह्माद्या देवताः सर्वास्तत्र तिष्ठन्ति सर्वशः ॥ २,१२.१० ॥

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां मतिजीविनः ।
मतिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥ २,१२.११ ॥

मानुष्यं यः समासाद्य स्वर्गमेक्षैकसाधकम् ।
तयोर्न साधयेदेकं तेनात्मा वञ्चितो ध्रुवम् ॥ २,१२.१२ ॥

इच्छति शती सहस्रं सहस्री लक्षमीहते कर्तुम् ।
लक्षाधिपती राज्यं राजापि सकलां धरां लब्धुम् ॥ २,१२.१३ ॥

चक्रधरोऽपि सुरत्वं सुरभावे सकलसुरपतिर्भवितुम् ।
सुरपतिरूर्ध्वगतित्वं तथापि ननिवर्तते तृष्णा ॥ २,१२.१४ ॥

तृष्णया चाभिभूतस्तु नरकं प्रतिपद्यते ।
तृष्णामुक्तास्तु ये केचित्स्वर्गवासं लभन्ति ते ॥ २,१२.१५ ॥

आत्माधीनः पुमांल्लोके सुखी भवति निश्चितम् ।
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ॥ २,१२.१६ ॥

तथा च विषयाधीनो दुः खी भवति निश्चितम् ॥ २,१२.१७ ॥

कुरङ्गमताङ्गपतङ्गभृङ्गमीना हताः पञ्चभिरेव पञ्च ।
एकः प्रमादी स कथं न हन्यते यः सेवते पञ्चभिरेव पञ्च ॥ २,१२.१८ ॥

पितृमातृमयो बाल्ये यौवने दयितामयः ।
पुत्रपौत्रमयश्चान्ते मूढो नात्ममयः क्वचित् ॥ २,१२.१९ ॥

लोहदारुमयैः पाशैः पुमान्बद्धो विमुच्यते ।
पुत्रदारमयैः पाशैर्नैव बद्धो विमुच्यते ॥ २,१२.२० ॥

एकः करोति पापानि फलं भुङ्क्ते महाजनः ।
भोक्तारो विप्रयुज्यन्ते कर्ता दोषेण लिप्यते ॥ २,१२.२१ ॥

कोऽपि मृत्युं न जयति बालो वृद्धो युवापि वा ।
सुखदुः खादिको वापि पुनरायाति याति च ॥ २,१२.२२ ॥

सर्वेषां पश्यतामेव मृतः सर्वं परित्यजेत् ।
एकः प्रजायते जन्तुरेक एव प्रलीयते ॥ २,१२.२३ ॥

एकोऽपि भुङ्क्ते सुकृतमेक एव च दुष्कृतम् ।
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमङ्क्षितौ ॥ २,१२.२४ ॥

बान्धवा विमुखा यान्ति धर्मस्तमनुगच्छति ।
गृहेष्वर्था निवर्तन्ते श्मशानान्मित्रबान्धवाः ॥ २,१२.२५ ॥

शरीरं वह्निरादत्ते सुकृतं दुष्कृतं व्रजेत् ।
शरीरं वह्निना दग्धं पुण्यं पापं सह स्थितम् ॥ २,१२.२६ ॥

शुभं वा यदि वा पापं भुङ्क्ते सर्वत्र मानवः ।
यदनस्तमिते सूर्ये न दत्तं धनमर्थिनाम् ॥ २,१२.२७ ॥

न जाने तस्य तद्वित्तं प्रातः कस्य भविष्यति ।
रारटीति धनं तस्य को मे भर्ता भविष्यति ॥ २,१२.२८ ॥

न दत्तं द्विजमुख्येभ्यः परोपकृतये तथा ।
पूर्वजन्मकृतात्पुण्याद्यल्लब्धं बहु चाल्पकम् ॥ २,१२.२९ ॥

तदीदृशं परिज्ञाय धर्मार्थे दीयते धनम् ।
धनेन धार्यते धर्मः श्रद्धापूतेन चेतसा ॥ २,१२.३० ॥

श्रद्धाविरहितो धर्मो नेहामुत्र च तत्फलम् ।
धर्माच्च जायते ह्यर्थो धर्मात्कामोऽपि जायते ॥ २,१२.३१ ॥

धर्म एवापवर्गाय तस्माद्धर्मं समाचरेत् ।
श्रद्धया साध्यते धर्मो बहुभिर्नार्थराशिभिः ॥ २,१२.३२ ॥

अकिञ्चना हि मुनयः श्रद्धावन्तो दिवं गताः ।
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पक्षिन्प्रेत्य चेह न तत्फलम् ॥ २,१२.३३ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकादृप्रेतकल्पे श्रीकृष्णगरुडसंवादे मृतस्य धर्ममात्रानुयायित्वनिरूपणं नाम द्वादशोऽध्यायः