सामग्री पर जाएँ

क्रमदीपिका/तृतीयः पटलः

विकिस्रोतः तः
← द्वितीयः पटलः क्रमदीपिका
तृतीयः पटलः
[[लेखकः :|]]
चतुर्थः पटलः →

इदानीं मन्त्रद्वयसाधारणं देवताध्यानं आह

अथ प्रकटसौरभोद्गलितमाध्वीकोत्फुल्लसत्
प्रसूननवपल्लवप्रकरनम्रशाखैर्द्रुमैः ।
प्रफुल्लनवमञ्जरीललितवल्लरीवेष्टितैः
स्मरेच्छिशिरितं शिवं सितमतिस्तु वृन्दावनं ।। क्रमदीपिका३.१ ।।

अथानन्तरं सितमतिः निर्मलमतिः वृन्दावनं स्मरेच्चिन्तयेत् । किम्भूतं ? द्रुमैः वृक्षैः शिशिरितं शीतलीकृतं । द्रुमैः कीदृशैः ? प्रकटेति उद्भटसौरभं । अथ च उद्गलितो माध्वीको मधु यस्मिन्तत् । अथ च उत्फुल्लं प्रफुल्लं । अथ च सद्देदीप्यमानं एतादृशं प्रसूनं पुष्पं तथा नवपल्लवः अनयोर्यः प्रकरः समूहः । तेन नम्राः शाखा येषां ते तथा तैः । प्रकटसौरभाकुलितमत्तभृङ्गोल्लसत्प्रसूनेति पाठे प्रकटसौरभेणाकुलितं सर्वतो व्याप्तं । अथ च मत्तभृङ्गोल्लसन्मत्तभ्रमरेण शोभमानं एतादृशं
यत्प्रसूनं इत्यर्थः । पुनः कीदृशैः ? प्रफुल्ला विकसिता या नवमञ्जरी तया ललिता मनोहरा या वल्लरी लताग्रशाखा तस्याश्चेष्टितं चलनं येषु तैः । पुनः कीदृशं ? शिवं कल्याणप्रदं ।। टीका ३.१ ।।

सनातनःः इतःप्रभृति ये ३६श्लोकाः प्राप्यन्ते ते श्रीहरिभक्तिविलासे उद्दृताः श्रीसनातनगोस्वामिप्रभुपादानां व्याख्याताश्च । तेषां व्याख्यायास्तु अत्रत्याया नातिविसादृश्यत्वात्सात्र नोद्ध्रियते । तत्रैव ते द्रष्टव्याः ।

______________________________

पुनः कीदृशं ?

विकाशिसुमनोरसास्वादनमञ्जुलैः सञ्चरच्
छिलीमुखोद्गतैर्मुखरितान्तरं झङ्कृतैः ।
कपोतशुकशारिकापरभृतादिभिः पत्रिभिर्
विराणितं इतस्ततो भुजगशत्रुनृत्याकुलं ।। क्रमदीपिका३.२ ।।

वृन्दावनं झङ्कृतैः शब्दविशेषैर्मुखरितान्तरं शब्दायमानाभ्यन्तरं । कीदृशैः ? झङ्कृतैः विकाशिन्याः प्रफुल्लायाः सुमनसः पुष्पस्य यो रसः मधु तस्य यदास्वादनं अवलेहनं तेन मञ्जुलैर्मनोहरैः । पुनः कीदृशैः ? सञ्चरेति सञ्चरन्तो भ्रमन्तो ये शिलीमुखोद्गतैर्भ्रमरास्तेषां मुखेभ्य उद्गतैः समुत्थितैः । पुनः कीदृशं ? वृन्दावनं कपोतेति पारावतशुकशारिकाकोकिलप्रभृतिभिः पक्षिभिरितस्ततो विराणितं शब्दायितं । पुनः कीदृशं ? भुजगशत्रुर्मयूरस्तस्य नृत्येनाकुलं व्याप्तं ।।२ ।।

______________________________

पुनः कीदृशं ?

कलिन्ददुहितुश्चलल्लहरिविप्रुषां वाहिभिर्
विनिद्रसरसीरुहोदररजश्चयोद्धूसरैः ।
प्रदीपितमनोभवव्रजविलासिनीवाससां
विलोलनपरैर्निषेवितं अनारतं मारुतैः ।। क्रमदीपिका३.३ ।।

मारुतैर्वायुभिः अनारतं सर्वदा निषेवितं । कीदृशैर्मारुतैः ? कलिन्देति कलिन्ददुहितुर्यमुनायाश्चलन्त्यो या लहर्यः तासां या विप्रुषो जलबिन्दवः तासां वाहिभिः । एतेन वायोः शैत्यं उक्तं । पुनः कीदृशैः ? विनिद्रेति विनिद्रं प्रफुल्लं यत्सरसीरुहं पद्मं तस्य यदुदरं अभ्यन्तरं तत्र यो रजश्चयो धूलीसमूहः तेन उद्धूसरैः, एतेन सौरभ्यं उक्तं । पुनः कीदृशैः ? प्रदीपितेति प्रदीपितोऽतिशयितो मनोभवः कामो यासां व्रजविलासिनीनां गोपसुन्दरीणां तासां यानि वासांसि
वस्त्राणि तेषां विलोलनपरैः चालनाशक्तैः । एतेन मान्यं उक्तं ।। टीका ३.३ ।।

______________________________

पुनः कीदृशं ?

प्रवालनवपल्लवं मरकतच्छदं वज्रमौ
क्तिकप्रकरकोरकं कमलरागनानाफलं ।
स्थविष्ठं अखिलर्तुभिः सततसेवितं कामदं
तदन्तरं अपि कल्पकाङ्घ्रिपं उदञ्चितं चिन्तयेथ् ।। क्रमदीपिका३.४ ।।

तदन्तरपि वृन्दावनमध्ये कल्पकाङ्घ्रिपं अपि चिन्तयेत् । कीदृशं ? उदञ्चितं उच्छ्रितं । पुनः कीदृशं ? स्थविष्ठं स्थूलतरं । पुनः कीदृशं ? प्रवालो विद्रुमः स एव नवपल्लवः किसलयं यस्य तं । पुनः कीदृशं ? मरकतो यो मणिविशेषः स एव छदं पत्रं यस्य तं । पुनः कीदृशं ? वज्रं हीरकं मौक्तिकं मुक्ताः । अनयोर्यः प्रकरः समूहः स एव कोरकः पुष्पकलिका यत्र तं । पुनः कीदृशं ?
कमलरागः पद्मरागमणिः स एव नानाविधं फलं यत्र तं । पुनः कीदृशं ? अखिलैरृतुभिः षड्भिरपि ऋतुभिः सततं सेवितं सदा परिगृहीतं । एतेन सर्वपुष्पान्वितत्वं दर्शितं । पुनः कीदृशं ? कामदं आकाङ्क्षितप्रदं ।। टीका ३.४ ।।

______________________________

सुहेमशिखरावलेरुदितभानुवद्भास्वराम्
अधोऽस्य कनकस्थलीं अमृतशीकरासारिणः ।
प्रदीप्तमणिकुट्टिमां कुसुमरेणुपुञ्जोज्ज्वलां
स्मरेत्पुनरतन्द्रितो विगतषट्तनङ्गां बुधः ।। क्रमदीपिका३.५ ।।

बुधः पण्डितः अतन्द्रितः निरालस्यः आलस्यरहितः सनस्य कल्पवृक्षस्याधस्तात् । कनकस्थलीं सुवर्णमयीं भूमिं । पुनः स्मरेत्चिन्तयेत् । किम्भूतां सुहेमेति । शोभमाना सुवर्णशृङ्गपङ्क्तिर्यस्य । तथा तस्मादुदयाचलादुदितभानुवत्प्रकटितसूर्यवत्प्रकटितसूर्यवत्भास्वरां देदीप्यमानां सुहेमशिखराचलेऽप्युदितेति पाठे शोभनं हेमशृङ्गं यत्र अचले पर्वते तस्मिनपिशब्दो भिन्नक्रमः कनकस्थलीं इत्यस्यानन्तरं द्रष्टव्यं । अस्य कीदृशस्य अमृतेति ? अमृतस्य यः शीकरः कणस्तस्यासारो यः समूहः पतनं तच्छालिं यथा स्यात्तथा
तस्यामृतकणसमूहसंवर्षिणः । कीदृशीं ? प्रदीप्तैः पीप्यमानमणिभिः पद्मरागादिभिः बद्धभूमिं । पुनः कीदृशीं ? कुसुमेति कुसुमरेणुपुञ्जैरुज्ज्वलां । पुनः कीदृशीं ? विगतेति विगता दूरीभूता षट्तरङ्गाः कामक्रोधादयः अशनायापि पासाशोकमोहजरामृत्यवो वा यस्यास्तां ।। टीका ३.५ ।।

______________________________

तद्रत्नकुट्टिमनिविष्टमहिष्ठयोग
पीठेऽष्टपत्रं अरुणं कमलं विचिन्त्य ।
उद्यद्विरोचनसरोचिरमुष्य मध्ये
सञ्चिन्तयेत्सुखनिविष्ठं अथो मुकुन्दं ।। क्रमदीपिका३.६ ।।

तस्याः कनकस्थल्याः यद्रत्नकुट्टिमं रत्नबद्धभूभागः । तत्र निविष्टं स्थितं महिष्ठं महद्योगपीठं तत्राष्टपत्रं अष्टौ पत्राणि यत्र तत्तथारुणं लोहितं । अत एवोद्यतादित्यसन्निभं । एवम्भूतं पद्मं विचिन्त्य । अथानन्तरं अमुष्यारुणवर्णाष्टदलकमलस्य मध्ये मुकुन्दमं कृष्णं चिन्तयेत् । कीदृशं ? सुखनिविष्ठं सुखासीनं आदिकुलकं अत आरभ्य ।। टीका ३.६ ।।

______________________________

पुनः कीदृशं ?

सूत्रामरत्नदलिताञ्जनमेघपुञ्ज
प्रत्यग्रनीलजलजन्मसमानभासं ।
सुस्निग्धनीलघनकुञ्चितकेशजालं
राजन्मनोज्ञशितिकण्ठशिखण्डचूडं ।। क्रमदीपिका३.७ ।।

सूत्रामरत्नं इन्द्रनीलमणिः दलिताञ्जनं भिन्नाञ्जनं घृष्टकज्जलं इति मेघपुञ्जो मेघसमूहः प्रत्यग्रनीलजलजन्म नवीननीलपद्मं एषां समाना भा दीप्तिर्यस्य तं । पुनः कीदृशं ? सुस्निग्धेति सुस्निग्धाः सुचिक्कणा नीलाः श्यामा घना निविडाः कुञ्चिताः कुटिलाः ये केशास्तेषां जालं समूहो यत्र तं । पुनः कीदृशं ? राजन्निति । राजत्शोभमानं मनोज्ञं मनोहरं यच्छितिकण्ठशिखण्डं मयूरपिच्छं तदेव चूडायां यस्य तं ।। टीका ३.७ ।।

______________________________

पुनः कीदृशं ?

रोलम्बलालितसुरद्रुमसूनुकल्पि
तोत्तंसं उत्कचनवोत्पलकर्णपूरं ।
लोलालकस्फुरितभालतलप्रदीप्त
गोरोचनातिलकं उच्चलचिल्लिमालं ।। क्रमदीपिका३.८ ।।

रोलम्बो भ्रमरस्तेन लालितं प्रीत्या सेवितं यत्सुरद्रुमप्रसूनं पारिजातपुष्पं तेन कल्पितः रचित उत्तंसः शिरोभूषणं येन स तथा तं । पुनः कीदृशं ? उत्कचं विकसितं यन्नवोत्पलकर्णपूरं । तदेव कर्णाभरणं यस्य स तथा तं । पुनः कीदृशं ? लोलाश्चञ्चला अलकाः केशविशेषास्तैः स्फुरितं शोभमानं यद्भालतलं ललाटतलं तत्र प्रदीप्तं गोरोचनातिलकं यस्य स तथा तं । पुनः कीदृशं ? उच्चल चिल्लिमालं चञ्चलभ्रूलताकं ।। टीका ३.८ ।।

______________________________

पुनः कीदृशं ?
आपूर्णशारदगताङ्कशशाङ्कबिम्ब
कान्ताननं कमलपत्रविशालनेत्रं ।
रत्नस्फुरन्मकरकुण्डलरश्मिदीप्त
गण्डस्थलीमुकुरं उन्नतचारुनासं ।। क्रमदीपिका३.९ ।।

आपूर्णः सम्पूर्णः शारदः शरत्सम्बन्धी गताङ्कः शशाङ्कबिम्बश्चन्द्रमण्डलस्तद्वत्कान्तं मनोहरं आननं मुखं यस्य तथा तं । पुनः कीदृशं ? कमलपत्रवद्विशाले विस्तीर्णे नेत्रे यस्य स तथा तं । पुनः कीदृशं ? रत्नेति रत्नैः स्फुरन्च्छोभमानं यन्मकरकुण्डलं मकराकारकुण्डलं तस्य ये रश्मयः तैः प्रदीप्ता शोभमाना गण्डस्थली स एव मुकुरो दर्पणो यस्य तथा तं । पुनः कीदृशं ? उन्नतेति उन्नता मनोहरा नासा यस्य स तथा तं ।। टीका ३.९ ।।

______________________________

पुनः कीदृशं ?

सिन्दूरसुन्दरतराधरं इन्दुकुन्द
मन्दारमन्दहसितद्युतिदीपिताङ्गं ।
वन्यप्रवालकुसुमप्रचयावक्प्त
ग्रैवेयकोज्ज्वलमनोहरकम्बुकण्ठं ।। क्रमदीपिका३.१० ।।

सिन्दूरवन्मनोहरो अधरो यस्य स तथा तं । पुनः कीदृशं ? इन्दुकुन्देति इन्दुश्च कुन्दं कुन्दपुष्पं मन्दारः शुक्लमन्दारः अर्कपुष्पं वा तद्वन्मन्दहसितं ईषद्धास्यं तस्य द्युतिर्दीप्तिः तथा दीपिता शोभिता आशा दिशो येन स तथा तं । पुनः कीदृशं ? वन्येति वन्यं वन्योद्भवं यत्प्रवालकुसुमं नवपल्लवपुष्पं तस्य यः समूहस्तेनावक्प्तं सम्पादितं यद्ग्रैवेयकं कण्ठाभरणं तेनोज्ज्वलो देदीप्यमानो मनोहरः कम्बुकण्ठः त्रिरेखाङ्कितः कण्ठो यस्य स तथा तं ।। टीका ३.१० ।।

______________________________

पुनः कीदृशं ?

मत्तभ्रमरजुष्टविलम्बमान
सन्तानकप्रसवदामपरिष्कृतांसं ।
हारावलीभगणराजितपीवरोरो
व्योमस्थलीलसितकौस्तुभभानुमन्तं ।। क्रमदीपिका३.११ ।।

मत्ताः कृतमधुपाना भ्रमन्तश्चरन्तौ ये भ्रमरास्तैर्जुष्टं सेवितं । अथ च विलम्बमानं एवम्भूतं यत्सन्तानकप्रसवदाम कल्पवृक्षपुष्पदाम तेन दाम्ना परिष्कृतः स्वलङ्कृतो अंसो यस्य स तथा तं । पुनः कीदृशं ? हारावल्येव भगणो नक्षत्रसमूहः । तेन राजितं शोभितं पीवरं मांसलं यदुरो हृदयं तदेव व्योमस्थल आकाशभूमिः तया लसितः शोभितः कौस्तुभ एव भानुः सूर्यस्तेन युक्तं । अत्र रूपकालङ्कार एव नोपमालङ्कारः नक्षत्रगणसूर्ययोरसम्बन्धत्वात् । एवं च सत्येककाले द्वयोः
शोभा लभ्यत इति भावः ।। टीका ३.११ ।।

______________________________

पुनः कीदृशं ?

श्रीवत्सलक्षणसुलक्षितं उन्नतांसम्
आजानुपीनपरिवृत्तसुजातबाहुं ।
आबन्धुरोदरं उदारगम्भीरनाभिं
भृङ्गाङ्गनानिकरमञ्जुलरोमराजिं ।। क्रमदीपिका३.१२ ।।

श्रीवत्सलक्षणसुलक्षितं उन्नतांसं आजानुपीनपरिवृत्तसुजातबाहुं आबन्धुरोदरं उदारगम्भीरनाभिं भृङ्गाङ्गनानिकरमञ्जुलरोमराजिं ।। टीका ३.१२ ।।

______________________________

पुनः कीदृशं ?

नानामणिप्रघटिताङ्गदकङ्कणोर्मि
ग्रैवेयसारसननूपुरतुन्दबन्धं ।
द्व्याङ्गरागपरिपञ्जरिताङ्गयष्टिम्
आपीतवस्त्रपरिवीतनितम्बबिम्बं ।। क्रमदीपिका३.१३ ।।

नानामणिभिरिन्द्रनीलादिभिर्घटिताः सम्बद्धाः । अङ्गदा बाहुवलयास्तथा कङ्कणा ऊर्मिर्मुद्रिका ग्रैवेयं ग्रीवालङ्कारः रसनया क्षुद्रघण्टिकया सह आसमन्तात्वर्तते यौ नूपुरौ तुन्दबन्धः उदरबन्धनार्थं सुवर्णडोरकं एते अलङ्कारा यस्य स तथा तं । पुनः कीदृशं ? दिव्यः परमोत्कृष्टो योऽनुरागः सुगन्धिचूर्णं तेन पिञ्जरिता नानावर्णा अङ्गयष्टिरङ्गलता यस्य स तथा तं । पुनः कीदृशं ? आपीतं अतिशयेन पीतं यद्वस्त्रं तेन परितो वीतो वेष्टितो नितम्बबिम्बो येन स तथा तं । यद्यपि स्त्रीकट्यां नितम्बपदप्रयोगः कोशे दृश्यते तथापि तद्वन्मनोहरतया पुंस्कट्याम्
अपि प्रयोगो न विरुद्धः ।। टीका ३.१३ ।।

______________________________

पुनः कीदृशं ?

चारूरुजानुं अनुवृत्तमनोज्ञजङ्घ
कान्तोन्नतप्रपदनिन्दितकूर्मकान्तिं ।
माणिक्यदर्पणलसन्नखराजिराजद्
रक्ताङ्गुलिच्छदन्सुन्दरपादपद्मं ।। क्रमदीपिका३.१४ ।।

कान्तौ कमनीयौ उन्नतौ उच्चौ यौ प्रपदौ पादाग्रौ ताभ्यां निन्दिता तिरस्कृता कूर्मस्य कच्छपस्य कान्तिः दीप्तिर्येन स तथा तं । पुनः कीदृशं ? माणिक्यघटितो यो दर्पणस्तद्वल्लसन्ती शोभमाना नखपङ्क्तिः तथा राजन्त्यः शोभमाना या रक्ताङ्गुलयस्ता एव च्छदनानि पत्राणि तैः सुन्दरं पादपद्मं यस्य स तथा तं ।। टीका ३.१४ ।।

______________________________

पुनः कीदृशं ?

मत्स्याङ्कुशारदरकेतुयवाब्जवज्र
संलक्षितारुणकराङ्घ्रितलाभिरामं ।
लावण्यसारसमुदायविनिर्मिताङ्ग
सौन्दर्यनिर्जितमनोभवदेहकान्तिं ।। क्रमदीपिका३.१५ ।।

मत्स्यो मीनः अङ्कुशो अस्त्रविशेषः अरिश्चक्रो दरः शङ्खः केतुर्ध्वजः यवः प्रसिद्धः अब्जं पद्मं वज्रः कुलिशाकारस्त्रिकोणः एतैः सुलक्षितं सम्यक्विहितं यदरुणतराङ्घ्रितलं लोहिततरचरणतलं तेनाभिरामः सर्वजनप्रियस्तं । पुनः कीदृशं ? लावण्यस्य सौन्दर्यस्य यः सारसमुदाय उत्कृष्टभागसमुदायः तेन विनिर्मितं घटितं यदङ्गसौन्दर्यं तेन निन्दिता तिरस्कृता मनोभवस्य कामदेवस्य कान्तिः शरीरशोभा येन स तथोक्तं ।। टीका ३.१५ ।।

______________________________
पुनः कीदृशं ?

आस्यारविन्दपरिपूरितवेणुरन्ध्र
लोलत्कराङ्गुलिसमीरितदिव्यरागैः ।
शश्वद्द्रवीकृतविकृष्टसमस्तजन्तु
सन्तानसन्ततिं अनन्तसुखाम्बुराशिं ।। क्रमदीपिका३.१६ ।।

शश्वन्नित्यं द्रवीकृतानयतीकृता विकृष्टा आकृष्टा समस्तजन्तोः प्राणिनः सन्तानसन्ततिः सन्तानपरम्परा येन स तथा तं । कैः ? आस्यं एवारविन्दं पद्मं तेन परिपूरितं यद्वेणुरन्ध्रं वंशीरन्ध्रं अत्र लोलन्ती चञ्चला या कराङ्गुलिस्तया समीरिताः समुत्पादिता ये दिव्या उत्कृष्टा रागा ध्वनयः स्वरास्तैरित्यर्थः । पुनः कीदृशं ? अनन्तेति । अपरिमितानन्दसमुद्रं ।। टीका ३.१६ ।।

______________________________

पुनः कीदृशं ?

गोभिर्मुखाम्बुजविलीनविलोचनाभि
रूधोभरस्खलितमन्थरमन्दगाभिः ।
दन्ताग्रदष्टपरिशिष्टतृणाङ्कुराभिर्
आलम्बिवालधिलताभिरथाभिवीतं ।। क्रमदीपिका३.१७ ।।

अथानन्तरं गोभिरभिवीतं सर्वतोवेष्टितं । किम्भूताभिः ? मुखाम्बुजे परमेश्वरमुखपद्मे विलीने सम्बद्दे लोचने यासां तास्तथा ताभिः । पुनः कीदृशाभिः ? ऊधोभरेति स्तनगौरवस्खलनसालसाल्पगमनशीलाभिः । पुनः कीदृशाभिः ? दन्ताग्रेण दष्टः परिशिष्टतृणाङ्कुरो भक्षणावशिष्टतृणाङ्कुरो याभिस्तास्तथा ताभिः । पुनः कीदृशाभिः ? आलम्बीति आलम्बिनी लम्बमाना वालधिलता यासां तास्तथा ताभिः ।। टीका ३.१७ ।।


______________________________

पुनः कीदृशं ?

सप्रस्रवस्तनविचूषणपूर्णनिश्च
लास्यावटक्षरितफेनिलदुग्धमुग्धैः ।
वेणुप्रवर्तितमनोहरमन्द्रगीत
दत्तोच्चकर्णयुगलैरपि तर्णकैश्च ।। क्रमदीपिका३.१८ ।।

तर्णकैश्चैकवार्षिकैश्चाभिवीतं इति पूर्वेणान्वयः । कीदृशैः ? प्रस्रवेण क्षरद्दुग्धेन सह वर्तते यत्स्तनविचूषणं दन्तोष्ठेन स्तनाकर्षणं तेन परिपूर्णो निश्चलः स्थिरश्च य आस्यावटः मुखविवरं ततः क्षरितं गलितं यत्फेनिलं सफेनं दुग्धं तेन मुग्धैर्मनोहरैः । पुनः कीदृशैः ? वेण्विति । वेणुर्वंशी तेन प्रवर्तिता चालिता मनोहरा आह्लादकारिणी मन्द्रानल्पा या गीतिर्गानं तत्र दत्तं उच्चं कर्णयुगलं यैस्तथा तैः ।। टीका ३.१८ ।।

______________________________

पुनः कीदृशं ?

प्रत्यग्रशृङ्गमृदुमस्तकसम्प्रहार
संरम्भवल्गनविलोलखुराग्रपातैः ।
आमेदुरैर्बहुलसास्नगलैरुदग्र
पुच्छैश्च वत्सतरवत्सतरीनिकायैः ।। क्रमदीपिका३.१९ ।।

वत्सतरः त्रैवार्षिको बलीवर्दः । वत्सतरी त्रैवर्षिकी गौः । एतयोर्निकायैः समूहैः प्रत्यग्रं नवीनं शृङ्गं यस्मिन्नेवम्भूतं यत्मृदु मस्तकं तत्र यः सम्प्रहारः अभिघातः अन्यवत्सतरस्य युध्यतः तेन यः संरम्भः क्रोधातिशयस्तेन यद्वल्गनं इतस्ततो विचलनं तेन विलोलः अनवस्थितः खुराग्रपातो येषां ते तथा तैः । पुनः कीदृशैः ? आमेदुरैः सुस्निग्धैः पुष्टैरिति वा । पुनः कीदृशैः ? बहुलातिशयिता सास्ना यत्र स एवम्भूतो
गलो येषां ते तथा तैः । सास्ना च गलकम्बलः । पुनः कीदृशैः ? उदग्रपुच्छैः ।। टीका ३.१९ ।।

______________________________

पुनः कीदृशं ?

हम्बारवक्षुभितदिग्वलयैर्महद्भि
रप्युक्षभिः पृथुककुद्भरभारखिन्नैः ।
उत्तम्भितश्रुतिपुटीपरिपीतवंश
ध्वानामृतोद्धृतविकाशिविशालघोणैः ।। क्रमदीपिका३.२० ।।

महद्भिरुक्षभिर्बलीवर्दैरप्यभिवीतं । कीदृशैः ? हम्बारवेण स्वरविशेषेण क्षुभितः क्षोभं प्रापितो दिग्वलयो दिक्समूहो यैस्ते तथा तैः । पुनः कीदृशैः ? पृथुरतिशयितो यः ककुद्भरः अपरगलभरः स एव भारस्तेन खिन्नैः अलसैः । पुनः कीदृशैः ? उत्तम्भितेति ऊर्ध्वं स्तम्भिता उत्थापिता या श्रुतिपुटी तया परिपीतं अतिशयेन श्रुतं यद्वंशस्य ध्वानामृतं शब्दरूपामृतं तेनोद्वृत्ता ऊर्ध्वं प्रापिता विकाशिनी प्रस्फुटा विशाला दीर्घा घोणा नासा येषां ते तथा तैः ।। टीका ३.२० ।।

______________________________

पुनः कीदृशं ?

गोपैः समानगुणशीलवयोविलास
वेशैश्च मूर्च्छितकलस्वनवेणुवीणैः ।
मन्द्रोच्चतारपटगानपरैर्विलोल
दोर्वल्लरीललितलास्यविधानदक्षैः ।। क्रमदीपिका३.२१ ।।

गोपैश्चाभिवीतं । कीदृशैः ? समानेति गुण उदयादिः शीलं धैर्यादि वयो बाल्यादि विलासः क्रीडनं वेशः संस्थानविशेषः समानाः तुल्याः गुणशीलादयो येषां ते तथा तैः । पुनः कीदृशैः ? मूर्च्छां प्रापितः कलोऽव्यक्तमधुरः स्वरो रागो यत्र वेणुश्च वीना च । वेणुवीणैर्मूर्च्छितकलस्वरे वेणुवीणे येषां तैः तथा । तदुक्तम्

स्वरः सम्मूर्छितो यत्र रागतां प्रतिपद्यते ।
मूर्छनां इति तां प्राहुः कवयो ग्रामसम्भवां ।
सप्तस्वरास्त्रयो ग्रामा मूर्छनास्त्वेकविंशतिः ।।

पुनः कीदृशैः ? मन्द्रोच्चेति मन्द्रं नीचैः उच्चं अतिशायितं तारो यतिविशेषस्तेन पटु स्पष्टं यद्गानं तत्परैस्तदासक्तैः । पुनः कीदृशैः ? विलोलेति विलोला या दोर्वल्लरी बाहुलता तया यल्ललितं मनोहरं लास्यं नृत्यं तस्य विधानं करणं तत्र दक्षैः कुशलैः ।। टीका ३.२१ ।।


______________________________

पुनः कीदृशं ?

जङ्घान्तपीवरकटीरतटीनिबद्ध
व्यालोलकिङ्किणिघटारटितैरटद्भिः ।
मुग्धैस्तरक्षुनखकल्पितकण्ठभूषैर्
अव्यक्तमञ्जुवचनैः पृथुकैः परीतं ।। क्रमदीपिका३.२२ ।।

पृथुकैर्बालकैः परीतं वेष्टितं । कीदृशैः ? जङ्घासमीपे पीवरा मांसला या कटीरतटी कटीस्थली तस्यां निबद्धा व्यालोला चञ्चला या किङ्किणिघटा काञ्चीसमूहः, तस्य रटितैः शब्दैरटद्भिः । पुनः कीदृशैः ? मुग्धैर्मनोहरैः । पुनः किम्भूतैः ? तरक्षुनखेन व्याघ्रनखेन कल्पिता सम्पादिता कण्ठभूषा कण्ठालङ्कारो यैस्ते तथा तैः । बालकानां रक्षार्थं कण्ठे व्याघ्रनखबन्धनं क्रियते यतः । पुनः कीदृशैः ?
अव्यक्तं अस्पष्टं अथ च मञ्जुलं मनोहरं एवम्भूतं वचनं येषां ते तथा तैः ।। टीका ३.२२ ।।

 
______________________________

पुनः कीदृशं ?

अथ सुललितगोपसुन्दरीणां
पृथुनिविरीषनितम्बमन्थराणां ।
गुरुकुचभरभङ्गुरावलग्न
त्रिवलिविजृम्भितरोमराजिभाजां ।। क्रमदीपिका३.२३ ।।

अथानन्तरं मनोहरगोपस्त्रीणां आलीभिः पङ्क्तिभिः समन्तात्सर्वतः सततं नित्यसेवितं इत्यष्टमश्लोकेनान्वयः । किम्भूतानां ? पृथु बृहन्निविरीषो निविडो यो नितम्बः कटिपश्चाद्भागः, तेन मन्थराणां गमनाशक्तानां । पुनः किम्भूतानां ? गुरुरतिशयितो यः कुचभरः स्तनगौरवं तेन भङ्गुरं ईषन्नां यदवलग्नं मध्यप्रदेशः तत्र यद्बलित्रयं तत्र विजृम्भिता वितता रोमपङ्क्तिर्यासां तासां ।। टीका ३.२३ ।।

______________________________

पुनः कीदृशीनां ?

तदतिमधुरचारुवेणुवाद्या
मृतरसपल्लविताङ्गजाङ्घ्रिपानां ।
मुकुलविसररम्यरूढरोमोद्
गमसमलङ्कृतगात्रवल्लरीणां ।। क्रमदीपिका३.२४ ।।
तस्य श्रीकस्यातिमधुरं अतिप्रीतिदायकं चारु मनोहरं यद्वेणुवाद्यां वंशीरवः स एवामृतरसः अमृतरूपजलं तेन पल्लवितो वृद्ध्युन्मुखः अङ्गजाङ्घ्रिपः कामवृक्षो यासां तास्तथा तासां । अङ्गजाङ्घ्रिपस्येति पाठः । पुनः किम्भूतानां ? मुकुलविसरः कलिकासमूहः तद्वद्रम्यो मनोहरो यो रूढ उपचितो रोमोद्गमो रोमोत्थानं तेन समलङ्कृता गात्रवल्लरी देहलता यासां तास्तथा तासां ।। टीका ३.२४ ।।

______________________________

पुनः किम्भूतानां ?

तदतिरुचिरमन्दहासचन्द्रा
तपपरिजृम्भितरागवारिणाशेः ।
तरलतरतरङ्गभङ्गविप्रुट्
प्रकरसमश्रमबिन्दुसन्ततानां ।। क्रमदीपिका३.२५ ।।

तस्य कृष्णस्यातिमनोहरो य ईषद्धासः स एव चन्द्ररश्मिस्तेन परिजृम्भित उच्छलितो यो रागसमुद्रस्तस्यातिचञ्चलो यस्तरङ्गः कल्लोलः तदीया ये जलकणाः तेषां यः समूहस्तेन समस्तुल्यो यः श्रमबिन्दुर्घर्मजलबिन्दुः तेन सन्ततानां व्याप्तानां ।। टीका ३.२५ ।।

______________________________

पुनः किम्भूतानां ?

तदतिललितमन्दचिल्लिचाप
च्युतनिशितेक्षणमारवाणवृष्ट्या ।
दलितसकलमर्मविह्वलाङ्ग
प्रविसृतदुःसहवेपथुव्यथानां ।। क्रमदीपिका३.२६ ।।

तस्य श्रीकृष्णस्यातिमनोहरो मन्दः अनतिदीर्घो यश्चिल्लिचापो भ्रूलता सैव धनुस्तस्मादुद्गतं तीक्ष्णं कटाक्षः स एव कामबाणस्तस्य वृष्ट्यात्यन्तपातेन दलितं चूर्णितं यत्सकलं मर्म तेनानायत्तं यदङ्गं तत्र प्रसृता व्याप्ता दुःसहा कम्पवेदना यासां तास्तथा तासां ।। टीका ३.२६ ।।

______________________________

पुनः किम्भूतानां ?

तदतिरुचिरकर्मरूपशोभा
मृतरसपानविधानलालसाभ्यां ।
प्रणयसलिलपूरवाहिनीनाम्
अलसविलोलविलोचनाम्बुजाभ्यां ।। क्रमदीपिका३.२७ ।।

प्रणयेनैव प्रेम्णैव यो जलप्रवाहस्तं वहन्ति यास्तथा तासां । काभ्यां ? लज्जादिनार्धनिमीलितपद्मलोचनाभ्यां सविलासचञ्चलितनेत्रपद्माभ्यां इत्यपि पाठः । किम्भूतानां ? तस्य परमेश्वरस्यातिरुचिरं यत्कर्म शृङ्गारचेष्टाविशेषः रूपशोभा कामिनीमनोरञ्जिका कान्तिः ते एवामृतरसौ तयोर्यत्पानं अत्यन्तचक्षुर्व्यापारस्तत्करणे साकाङ्क्षाभ्यां । सुभगकम्रेति पाठान्तरं । सुभगः सुन्दरः कम्रः कमनीयः सुभगकमनीययोरेकपर्याययोर्ग्रहणं अद्भुतत्वाद्रूपस्येति त्रिपाठिनः ।। टीका ३.२७ ।।

______________________________

पुनः किम्भूतानां ?

विश्रंसत्कवरीकलापविगलत्फुल्लप्रसूनश्रवन्
माध्वीलम्पटचञ्चरीकघटया संसेवितानां मुहुः ।
मारोन्मादमदस्खलन्मृदुगिरां आलोलकाञ्च्युछ्वसन्
नीवीविश्लथमानचीनसिचयान्ताविर्नितम्बत्विषां ।। क्रमदीपिका३.२८ ।।

विश्रंसन्स्खलन्यः केशपाशस्तस्मात्प्रभ्रंश्यद्यद्विकसितं पुष्पं तस्माद्गलन्ती या माध्वी पुष्परसः तत्रात्यन्तासक्तो यश्चञ्चरीको भ्रमरस्तस्य समूहेन मुहुर्वारं वारं संसेवितानां । पुनः किम्भूतानां मारेति ।

कामकृतोन्मादेन या मत्तता तया स्खलन्ती अस्पष्टा मृद्वी कोमला मनोहरा गीर्वाणी यासां तास्तथा तासां उन्मादमदौ शृङ्गारविशेषौ । तदुक्तं शृङ्गारतिलके

श्वासप्ररोदनोत्कम्पैर्बहुधालोकनैरपि ।
व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ।।

एवं मदस्यापि लक्षणं बोद्धव्यं इति केचित् । पुनः कीदृशीनां ? आलोला चञ्चला या काञ्चीरसना तथा उच्छ्वसन्ती दृढा भवन्ती या नीवी वस्त्रग्रन्थिः । नीवी स्त्रीवसनग्रन्थाविति कोषात् । तया विश्लथमानं चीनसिचयं चीनदेशोत्पन्नं सूक्ष्मवस्त्रं तस्यान्ते मध्ये आविः प्रकटा नितम्बत्विट्नितम्बकान्तिर्यासां तास्तथा तासां ।। टीका ३.२८ ।।

______________________________

पुनः किम्भूतानां ?

स्खलितललितपादाम्भोजमन्दाभिघात
क्वणितमणितुलाकोट्याकुलाशामुखानां ।
चलदधरदलानां कुड्मलत्पक्ष्मलाक्षि
द्वयसरसिरुहणां उल्लसत्कुण्डलानां ।। क्रमदीपिका३.२९ ।।

स्खलितं अनायत्तं ललितं मनोहरं यत्पादपद्मं तस्य यो मन्द ईषदभिघातः आभिघातक्वणितमणितुलाकोट्याकुलाशामुखानां चलदधरदलानां कुड्मलत्पक्ष्मलाक्षिद्वयसरसिरुहणां उल्लसत्कुण्डलानां ।। टीका ३.२९ ।।

______________________________

पुनः किम्भूतानां ?

द्राघिष्ठश्वसनसमीरणाभिताप
प्रम्लानीभवदरुणोष्ठपल्लवानां ।
नानोपायनविलसत्कराम्बुजानाम्
आलीभिः सततनिषेवितं समन्ताथ् ।। क्रमदीपिका३.३० ।।

दीर्घो यः श्वासवायुस्तेन योऽभितापः तेन प्रम्लानीभवन्रक्तौष्ठपल्लवो यासां तास्तथा तासां । पुनः किम्भूतानां ? विविधोपायनेन शोभमानानि हस्तकमलानि यासां तास्तथा तासां ।। टीका ३.३० ।।

______________________________

पुनः कीदृशं ?

तासां आयतलोलनीलनयनव्याकोशनीलाम्बुज
स्रग्भिः सम्परिपूजिताखिलतनुं नानाविलासास्पदं ।
तन्मुग्धाननपङ्कजप्रविगलन्माध्वीरसास्वादनीं
बिभ्राणं प्रणयोन्मदाक्षिमधुकृन्मालां मनोहारिणीं ।। क्रमदीपिका३.३१ ।।

मुकुन्दं तासां गोपसुन्दरीणां आयतं दीर्घं लोलं चञ्चलं नीलं श्यामं यन्नयनं तदेव व्याकोशं नीलोत्पलं प्रफुल्लं नीलाम्बुजं तेषां स्रग्भिर्मालाभिः सम्परिपूजिता अधिकतरं अर्चिता सकला तनुर्यस्य स तथा तं । पुनः कीदृशं ? विविधविलासस्थानं । पुनः कीदृशं ? तन्मुग्धाननेति तासां यन्मनोहरं मुखं तदेव पद्मसमूहस्तस्मात्विगलन्स्रवन्यो माध्वीरसो मकरन्दः तं आस्वादयितुं शीलं यस्याः तां प्रणयेन प्रीत्या उद्गतमदं यदक्षियुगलं सैव भ्रमरमाला
पङ्क्तिस्तां मनोहारिणीं बिभ्राणं ।। टीका ३.३१ ।।

______________________________

अधुना परमेश्वरध्यानानन्तरं उपासकामरप्रभृतीनां ध्यानं आह

गोपीगोपपशूनां बहिः
स्मरेदग्रतोऽस्य गीर्वाणघटां ।
वित्तार्थिनीं विरिञ्चित्रिनयन
शतमन्युपूर्विकां स्तोत्रपरां ।। क्रमदीपिका३.३२ ।।

अस्य परमेश्वरस्याग्रतो गोपीगोपशूनां बहिर्गीर्वाणघटदेवसमूहं स्मरेत्यद्यपि बहिःशब्दयोगे पञ्चमी ज्ञापिता तथापि ज्ञापकसिद्धं न सर्वत्रेति षष्ठीप्रयोगेऽपि न दोषः । किम्भूतां ? वित्तार्थिनीं ज्ञानार्थिनीं वा धनार्थिनीं यद्वा परमेश्वरचित्तापहरणपरां यद्वा धर्मकाममोक्षार्थिनीं । पुनः किम्भूतां ? विरञ्चिर्ब्रह्मा ईशः शक्रः तत्प्रमुखां । पुनः किम्भूतां ? स्तवनपरां ।। टीका ३.३२ ।।

______________________________

तद्दक्षिणतो मुनिनिकरं
दृढधर्मवाञ्छं आम्नायपरं ।
योगीन्द्रानथ पृष्ठे मुमुक्ष
माणान्समाधिना सनकाद्यान् ।। क्रमदीपिका३.३३ ।।

तस्य परमेश्वरतो दक्षिणतो दक्षिणविभागे तद्वदिति पाठे तेनैव प्रकारेण मुनिनिकरं मुनिसमूहं स्मरेत् । कीदृशं ? आम्नायपरं वेदाध्ययनपरं । पुनः कीदृशं ? निश्चला धर्मवाञ्छा यस्य तं यत्तु मननात्मुनिरित्यभिधानातेषां धर्मवाञ्छा न युक्ता तेन मुनिशब्दोऽत्र ऋष्युपलक्षक इति तन्न, धर्मशब्देनात्रात्मज्ञानाभिधानात् । तदुक्तं याज्ञवल्क्येनायं तु परमो धर्मओ यद्योगेनात्मदर्शनं इति ।

अथानन्तरं परमेश्वरस्य पश्चाद्भागे सनकाद्यान्योगेश्वरान्स्मरेत् । किम्भूतान्? मोक्षैकपरान् । पुनः किम्भूतान्? समाधिनोपविष्टान् ।। टीका ३.३३ ।।

______________________________

सव्ये सकान्तानथ यक्षसिद्ध
गन्धर्वविद्याधरचारणांश्च ।
सकिन्नरानप्सरसश्च मुख्याः
कामार्थिनो नर्तनगीतवाद्यैः ।। क्रमदीपिका३.३४ ।।

अथानन्तरं देववामभागे सस्त्रीकान्यक्षादीन्स्मरेत् । किम्भूतान्? किन्नरसहितान् । पुनः किम्भूतान्? सर्वनर्तनगीतवाद्यैः करणभूतैर्वाञ्छितार्थिनः । तथा प्रधानभूता अप्सरसः उर्वशीमुख्याः स्मरेत् ।। टीका ३.३४ ।।

______________________________

शङ्खेन्दुकुन्दधवलं सकलागमज्ञं
सौदामनीततिपिशङ्गजटाकलापं ।
तत्पादपङ्कजगतां अचलाञ्च भक्तिं
वाञ्छन्तं उज्झिततरान्यसमस्तसङ्गं ।। क्रमदीपिका३.३५ ।।

नभसि आकाशे धातृसुतं ब्रह्मपुत्रं स्मरेत् । कथम्भूतं ? शङ्खादिवत्श्वेतं निर्मलं । पुनः कीदृशं ? सम्पूर्णागमवेत्तारं । पुनः कीदृशं ? सौदामनी विद्युत्तस्यास्ततिः दीप्तिस्तद्वत्पिशङ्गा कपिला या जटा तस्याः कलापः समुदायो यत्र तं । पुनः कीदृशं ? भक्तिं इच्छन्तं । किम्भूतां ? स्थिरां । पुनः कीदृशं ? अत्यन्तपरित्यक्तपरमेश्वरभिन्नसकलसम्बन्धं ।। टीका ३.३५ ।।

______________________________

पुनः कीदृशं ?

नानाविधश्रुतिगणान्वितसप्तराग
ग्रामत्रयीगतमनोहरमूर्छनाभिः ।
संप्रीणयन्तं उदिताभिरमुं महत्या
सञ्चिन्तयेन्नभसि धातृसुतं मुनीन्द्रं ।। क्रमदीपिका३.३६ ।।

अमुं नानाप्रकारः षट्त्रिंशद्भेदात्मको यः श्रुतिगणः नादसमूहस्तेनान्विता ये सप्त रागाः निषादर्षभगान्धारषड्जमध्यमधैवतपञ्चमाख्याः स्वराः तत्र त्रयाणां ग्रामाणां समाहारो ग्रामत्रयी तत्र ग्रामत्रय्यां गताः प्राप्ताः या मूर्छना मनोहरा एकत्रिंशतिप्रकारास्ताभिः संप्रीणयन्तं ।

सप्तस्वरास्त्रयो ग्रामा मूर्छनास्त्वेकविंशतिः ।
संमूर्छितः स्वरो यत्र रागतां प्रतिपद्यते ।
मूर्छनां इति तां प्राहुः कवयो ग्रामसम्भवां ।।

किम्भूताभिः ? महत्या सप्ततन्त्रीयुक्तया नारदवीणया उदिताभिरुद्गताभिः ।। टीका ३.३६ ।।

______________________________

अधुना प्रकृतं उपसंहरनात्मपूजाक्रमं आह

इति ध्यात्वात्मानं पटुविशदधीर्नन्दतनयं
पुरो बुद्ध्यैवार्घ्यप्रभृतिभिरनिन्द्योपहृतिभिः ।
यजेद्भूयो भक्त्या स्ववपुषि बहिष्ठैश्च विभवैर्
विधानं तद्ब्रूमो वयं अतुलसान्निध्यकृदथ ।। क्रमदीपिका३.३७ ।।

इति पूर्वोक्तध्यानप्रकारेण पटुविशदधीः समर्था विचारक्षमा अथ च निर्मला एवम्भूता बुद्धिर्यस्य स तथा आत्मानं नन्दतनयं गोपालकृष्णरूपं ध्यात्वा आत्मनन्दतनययोरभेदं चिन्तयित्वा पुरः प्रथमतो बुद्ध्यैव मनसैवार्घ्यप्रभृतिभिरनिन्द्योपहृतिभिः अर्घ्यपाद्यादिभिरुपहृतिभिरनिन्दितोपचारैः यथोपदेशं पूजयेत् । त्रिपाठिनस्तु अभिनन्द्येति पाठे धृत्वा पूजयेदित्यर्थं आहुः । भूयः पुनरपि स्वशरीरे साक्षाद्बाह्योपचारैरर्घ्यादिभिः पूजयेत् । अथानन्तरं तद्विधानं बहिष्ठविभवार्चनप्रकारं वयं ब्रुमः । कीदृशं ? परमेश्वरात्यन्तसान्निध्यदातारम्
 ।। टीका ३.३७ ।।

______________________________

शङ्खपूरणविधिं दर्शयति

आरचय्य भुवि गोमयाम्भसा
स्थण्डिलं निजं अमुत्र विष्टरं ।
न्यस्य तत्र विहितास्पदोऽम्भसा
शङ्खं अस्त्रमनुना विशोधयेथ् ।। क्रमदीपिका३.३८ ।।

भुवि पृथिव्यां स्थण्डिलं पूजास्थलं गोमयसहितेन जलेनारचय्य उपलिप्य अमुत्र स्थण्डिले निजं स्वीयं विष्टरं आसनं वस्त्रकम्बलादिकं न्यस्य संस्थाप्य तत्र विष्टरे विहितास्पदः कृतासनो जलेन शङ्खं अस्त्रमनुना मूलमन्त्रास्त्रमन्त्रेण अस्त्राय फडिति मन्त्रेण वा प्रलेपयेत् ।। टीका ३.३८ ।।

______________________________

तत्र गन्धसुमनोक्षतानथो
निक्षिपेद्धृदयमन्त्रं उच्चरन् ।
पूरयेद्विमलपाथसा सुधीर्
अक्षरैः प्रतिगतैः शिरोऽन्तकैः ।। क्रमदीपिका३.३९ ।।

वामभागकृतवह्निमण्डलाधारके शङ्खे सुधीः सुबुद्धिसाधकः हृदयमन्त्रं मूलमन्त्रं एव हृदयमन्त्रं केवलं हृदयाय नम इति वा उच्चार्य गन्धपुष्पयवतण्डुलान्निक्षिपेत् । तथा विमलपाथसा निर्मलजलेन पूरयेत् । मन्त्रं आहप्रतिगतैरिति । प्रतिलोमगतैः प्रतिलोमपठितैर्मातृकाक्षरैः क्षकाराद्यैरकारान्तैः शिरोऽन्तकैः सबिन्दुकैः । बिन्द्वन्तकैरिति लघुदीपिकाकारः । स्वाहान्तैरिति विद्याधराचार्यः विक्राय स्वाहेय्तन्तैरिति त्रिपाठिनः ।। टीका ३.३९ ।।

______________________________

पीठेति

पीठशङ्खसलिलेषु मन्त्रविद्
वह्निवासरनिशाकृतां क्रमात् ।
मण्डलानि विषकश्रवोक्षरैर्
अर्चयेद्वदनपूर्वदीपितैः ।। क्रमदीपिका३.४० ।।

पीठे शङ्खे सलिले च यथाक्रमं वह्निसूर्यचन्द्राणां मण्डलानि विषं मकारः कं शिरस्तत्र न्यस्यमानोऽकारः श्रवः श्रोत्रं तत्र न्यस्यमानोकार एभिरक्षरैर्मन्त्रविदुपासकः क्रमेण पूजयेत् । कीदृशैः ? वदनपूर्वदीपितैः वदनपूर्वे शिरसि न्यस्यमानं अं बिन्दुरिति यावत्तेन दीपितैः सानुस्वारैरित्यर्थः । प्रयोगस्तुमं वह्निमण्डलाय दशकलात्मने नमः । अं अर्कमण्डलाय द्वादशकलात्मने नमः । उं सोममण्डलाय षोडशकलात्मने नमः ।। टीका ३.४० ।।

______________________________

तत्र तीर्थमनुनभिवाहयेत्
तीर्थं उष्णरुचिमण्डलात्ततः ।
स्वीयहृत्कमलतो हरिं तथा
गालिनीं च शिखया प्रदर्शयेथ् ।। क्रमदीपिका३.४१ ।।

तत्र शङ्खजले वक्ष्यमाणतीर्थमन्त्रेण सूर्यमण्डलतीर्थं आवाहयेत्तथा ततः स्वीयहृत्पद्मात्कृष्णं आवाहयेत् । अनन्तरं शिखामन्त्रेण वक्ष्यमाणां गालिनीं मुद्रां प्रदर्शयेत्चकारात्धेनुमुद्रां च । वामहस्ततले दक्षिणतर्जन्या ताडनं प्रबोधनं ।। टीका ३.४१ ।।

______________________________

तज्जलं नयनमन्त्रवीक्षितं
वर्मणा समवगुण्ठ्य दोर्युजा ।
मूलमन्त्रसकलीकृतं न्यसेद्
अङ्गकैश्च कलयोद्दिशोऽस्त्रतः ।। क्रमदीपिका३.४२ ।।

तज्जलं शङ्खजलं वौषडिति नयनमन्त्रेण वीक्षितं यत्र नयनमन्त्रः सम्भवति तत्रैव नयनमन्त्रेण वीक्षणं इति त्रिपाठिनः । वर्मणा हुं इति कवचमन्त्रेणागुण्ठ्य मूलमन्त्रसकलीकृतं मूलमन्त्राङ्गसम्बन्धं । एतस्यैव विवरणं न्यसेदिति । देवताङ्गे षडङ्गानां न्यासः स्यात्सकलीकृतिरिति रुद्रधरः । यद्वा, मूलमन्त्रध्यानेन सदैवतं इति त्रिपाठिनः । अङ्गकैश्च न्यसेदिति मूलमन्त्रस्य षडङ्गन्यासं कुर्यादित्यर्थः । अनन्तरं शङ्खस्य दश दिशः अस्त्रमन्त्रेण छोटिकया बध्नीयात् ।। टीका ३.४२ ।।

______________________________

अक्षतादियुतं अच्युतीकृतं
संस्पृशन्जपतु मन्त्रं अष्टशः ।
किं च निक्षिपतु वर्धनीजले
प्रोक्षयेन्निजतनुं ततोऽम्बुना ।। क्रमदीपिका३.४३ ।।

तज्जलं अभग्नतण्डुलचन्दन्पुष्पसहितं विष्णुस्वरूपतां नीतं स्पृशन्मूलमन्त्रं अष्टकृत्वो जपेत् । अनन्तरं अर्धजलस्य किञ्चित्स्वदक्षिणभागस्थापितवर्धनीजले प्रोक्षणीयपात्रजले निक्षिपेत् । तदुक्तम्

दक्षिणे प्रोक्षणीपात्रं आदायाद्भिः प्रपूजयेत् ।
किञ्चिदर्घ्याम्बु सङ्गृह्य प्रोक्षण्यम्भसि योजयेथ् ।। इति ।

तदनन्तरं अर्ग्धपात्रजलेन वारत्रयं निजशरीरं प्रोक्षयेत् । वर्धनीघटजलेनेति विद्याधराचार्याः ।। टीका ३.४३ ।।

______________________________

त्रिः करेण मनुनाखिलं तथा
साधनं कुसुमचन्दनादिकं ।
शङ्खपूरणविधिः समीरितो
गुप्त एष यजनाग्रणीरिह ।। क्रमदीपिका३.४४ ।।

तथा मूलमन्त्रेण दक्षहस्तेन पुष्पचन्दनादिकं पूजोपकरणद्रव्यं वारत्रयं प्रोक्षयेत् । उपसंहरति शङ्खेति । एष शङ्खपूरणप्रकारः समीरितः उक्तः । कीदृशः ? इह आगमशास्त्रे यजनाग्रणीः प्रथमविधाने यः श्रेष्ठतरः ।। टीका ३.४४ ।।

______________________________

अधुना तीर्थमन्त्रं दर्शयति

गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धुकावेरि जलेऽस्मिन्सन्निधिं कुरु ।। क्रमदीपिका३.४५ ।।
एष तीर्थं अनुप्रोक्तो दुरितौघनिवारणः ।
कनिष्ठाङ्गुष्ठकौ सक्तौ करयोरितरेतरं ।। क्रमदीपिका३.४६ ।।
तर्जनीमध्यमानामाः संहता भुग्नसंजिताः ।
मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता ।। क्रमदीपिका३.४७ ।।

एष तीर्थावाहनमन्त्रः कथितः दुरितेति पापसमूहविनाशकः । अधुना गालिनी मुद्राया लक्षणं आहकनिष्ठेत्यादिना । हस्तयोरन्योन्यकनिष्ठाङ्गुष्ठकौ सम्बन्धौ तथा तर्जनीमध्यमानामिकाः संहताः कृत्वा भुग्नाः किञ्चिदाकुञ्चिताः परस्परसंसक्ताः कार्या इत्यर्थः । एवं च सति एषा गालिनी मुद्रा प्रोक्ता । शङ्खस्योपरि चालिता सती देवताप्रीतिं सम्पादयतीत्यर्थः ।। टीका ३.४५४७ ।।

______________________________

अधुना स्वदेहे पीठपूजाक्रमं आह
अथ मूर्धनि मूलचक्रमध्ये
निजनाथान्गणनायकं समर्च्य ।
न्यसनक्रमतश्च पीठमन्त्रैर्
जलगन्धाक्षतपुष्पधूपदीपैः ।। क्रमदीपिका३.४८ ।।

अथानन्तरं मूर्धनि स्वकीयशिरसि मूलचक्रमध्ये मूलाधारचक्रे यथाक्रमं स्वनाथान्स्वगुरून्गणपतिं च पूजयित्वा पूर्वोक्तन्यासक्रमेण पीठमन्त्रैराधारशक्तिं आरभ्य पीठमन्त्रान्तं तत्तन्मन्त्रैर्जलगन्धाक्षतपुष्पधूपदीपैः स्वशरीरे पीठपूजनं कुर्यात् ।। टीका ३.४८ ।।

______________________________

प्रयजेदथ मूलमन्त्रतेजो
निजमूले हृदये भ्रुवोश्च मध्ये ।
त्रितयं स्मरतः स्मरेत्तदेकी
कृतं आनन्दघनं तडिल्लताभं ।। क्रमदीपिका३.४९ ।।

अथानन्तरं तन्मूलाधारहृदयभ्रूमध्यगततेजस्त्रितयं मूलमन्त्रात्मकं परं ज्योतिः स्मरतः कामबीजेन क्लीं इत्यनेनैकीभूतं चिन्तयेत् । कीदृशं ? आनन्दघनं चिदानन्दं । पुनः कीदृशं ? विद्युत्प्रभं ।। टीका ३.४९ ।।

______________________________

तत्तेजोऽङ्गैः सावयवीकृत्य विभूत्याद्य्
अङ्गान्तं विन्यस्य यजेदासनपूर्वैः ।
भूषान्तैर्भूयो जलगन्धादिभिरर्चां
कुर्याद्भूत्याद्यङ्गविधानावधि मन्त्री ।। क्रमदीपिका३.५० ।।

तदेकीकृतं तेजः पञ्चाङ्गैः सावयवीकृत्य शरीरयुक्तं सम्पाद्य तत्र विभूत्याद्यङ्गान्तं विभूतिपञ्जरं आरभ्याङ्गन्यासपर्यन्तं स्वशरीरे विन्यस्य आसनादिभूषान्तैरुपचारैर्देवं पूजयेत् । भूयः पुनरपि जलगन्धादिभिर्विभूतिपञ्जरमूर्तिपञ्जरकरस्थसृष्टिस्थितिदशपञ्चाङ्गन्यासस्थानेषु न्यासक्रमेणैव तन्मन्त्रैरेव पूजयेत् ।। टीका ३.५० ।।

______________________________

भूयो वेणुं वदनस्थं वक्षोदेशे वनमालां ।
वक्षोजोऽर्धं प्रयजेच्च श्रीवत्सं कौस्तुभरत्नं ।। क्रमदीपिका३.५१ ।।

भूयः पुनरपि मुखस्थं वेणुं पूजयेत्हृदये च वनमालां कण्ठं आरभ्य पादद्वयं अवलम्बिनीं पत्रपुष्पमयीं मालां । तदुक्तम्

कण्ठं आरभ्य या तिष्ठेत्पादद्वयविलम्बिनी ।
पत्रपुष्पमयी माला वनमाला प्रकीर्तितेति ।
स्तनस्योपरि श्रीवत्सं कौस्तुभं च प्रपूजयेत् ।। टीका ३.५१ ।।

______________________________

श्रीखण्डनिःस्यन्दविचर्चिताङ्गो
मूलेन भालादिषु चित्रकाणि ।
लिख्यादथो पञ्जरमूर्तिमन्त्र
रनामया दीपशिखाकृतीनि ।। क्रमदीपिका३.५२ ।।

अथानन्तरं मूलमन्त्रेण चन्दनपङ्कलिप्ताङ्गः पूजक एव ललाटादिषु मूर्तिपञ्जरन्यासस्थानेषु चित्रकाणि तिलकानि दीपशिखाकाराणि अनामिकया मूर्तिपञ्जरमन्त्रैः अं ओं केशवधातृभ्यां नम इत्यादिना द्वादशमूर्तिभिर्लिख्यात्कुर्यादित्यर्थः ।। टीका ३.५२ ।।

______________________________

अधुना पुष्पाञ्जलिविधिं दर्शयति

पुष्पाञ्जलिं वितनुयादथ पञ्चकृत्वो
मूलेन पादयुगले तुलसीद्वयेन ।
मध्ये हयारियुगलेन च मूर्ध्नि पद्म
द्वन्द्वेन षड्भिरपि सर्वतनौ च सर्वैः ।। क्रमदीपिका३.५३ ।।

अथानन्तरं पञ्चकृत्वः पञ्चवारान्मूलमन्त्रेण पुष्पाञ्जलिं वितनुयात् । तुलसीद्वयेन श्वेतकृष्णतुलसीद्वयेन पादयुगले क्रमेण दक्षिणवामपादयोरित्यञ्जलिद्वयं मध्ये हृदि हयारियुगलेन श्वेतरक्तकरवीराभ्यां इत्येकोऽञ्जलिः मूर्ध्नि पद्मद्वयेन श्वेतरक्तपद्माभ्यां इत्यपरोऽञ्जलिः सर्वतनौ सर्वैश्च षड्भिरपि तुलसीद्वयकरवीरद्वयपद्मद्वयैश्चाञ्जलिं तनुयादिति पञ्चमोऽञ्जलिः ।। टीका ३.५३ ।।

______________________________

अधुना श्वेतकृष्णतुलस्यादीनां प्रदानविभागं दर्शयति

श्वेतानि दक्षभागे सितचन्दनपङ्किलानि कुसुमानि ।
रक्तानि वामभागेऽरुणचन्दनपङ्कसिक्तानि ।। क्रमदीपिका३.५४ ।।

श्वेतानि तुलस्यादीनि पुष्पाणि श्वेतचन्दनपङ्कयुक्तानि दक्षिणविभागे देयानि रक्तानि तुलस्यादीनि रक्तचन्दनपङ्कयुक्तानि वामविभागे देयानि ।। टीका ३.५४ ।।


______________________________
उपचारं दर्शयति

तद्वच्च धूपदीपौ समर्प्य धिनुयात्सुधारसैः कृष्णं ।
मुखवासाद्यं दत्त्वा समर्चयेत्साधुगन्धाद्यैः ।। क्रमदीपिका३.५५ ।।

धूपदीपौ समर्प्य सुधारसैर्ब्रह्मरन्ध्रस्थितशशाङ्कबिम्बगलितामृतद्रवैर्धिनुयात्प्रीणयेत् । सुधारसैर्मन्त्रकृतजलैरिति रुद्रधरः । श्रीकृष्णं प्रीणयेत् । अनन्तरं मुखवासाद्यं गन्धवटिकां दत्त्वा गन्धपुष्पैः पूजयेत् ।। टीका ३.५५ ।।

______________________________

ताम्बूलगीतनर्तनवाद्यैः
सन्तोष्य चुलुकसलिलेन ।
ब्रह्मार्पणाख्यमनुना
कुर्यात्स्वात्मार्पणं मन्त्री ।। क्रमदीपिका३.५६ ।।

ततस्तदनन्तरं मन्त्री साधकः उपासकः ताम्बूलगीतादिभिः श्रीकृष्णं परितोष्य चुलुकोदकेन ब्रह्मार्पणमन्त्रेण वक्ष्यमाणस्वात्मसमर्पणं कुर्यादित्यर्थः ।। टीका ३.५६ ।।

विमर्शः ः ब्रह्मार्पणमन्त्रो, यथा
ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतं ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना ।। इति ।।

______________________________

अथाशक्तं प्रत्याह

अथवा सङ्कुचितधियां अयं विधिर्मूर्तिपञ्जरारब्धः ।
यद्यष्टादशलिपिना सार्णपदाङ्गैश्च वेणुपूर्वैः प्रोक्तः ।। क्रमदीपिका३.५७ ।।

अथवा मन्दमतीनां पूजकानां पूजाप्रकारो मूर्तिपञ्जरादिभिरुक्त इयं दशाक्षरेण पूजा अष्टादशाक्षरपूजां आह । यद्यष्टादशाक्षरमन्त्रेण पूजा तदा कचभुवि ललाटादिस्थानेषु मन्त्राक्षरन्यासपदपञ्चाङ्गन्यासैर्वेण्वादिभिश्च प्रोक्तः ।। टीका ३.५७ ।।

______________________________

जपविधिं दर्शयति

सुप्रसन्नं अथ नन्दतनूजं
भावयन्जपतु मन्त्रं अनन्यः ।
सार्थसंस्मृतियथाविधिसङ्ख्या
पूरणेऽसुयमनं विधधीत ।। क्रमदीपिका३.५८ ।।

अथानन्तरं मन्त्रार्थस्मरणपूर्वकं मूलमन्त्रं जपतु । किं कुर्वन्? सुप्रसन्नं पूर्वोक्तरूपं आत्मभिन्नं कृष्णं हृदि भावयन् । पुनः किम्भूतः ? अनन्यस्तत्परः यथोक्तजपसङ्ख्यापूरणे सति असुयमनं प्राणायामं कुर्यात्जपारम्भे चात्र विद्याधराचार्यः बाह्यपूजाशक्तौ आत्मपूजानन्तरं जपं कुर्यात्शक्तौ तु पूजानन्तरं इत्याह ।। टीका ३.५८ ।।

______________________________
प्रयोगपूर्वकृत्यं आह

प्रणवपुटितं बीजं जप्त्वा शतं सहिताष्टकं
निजगुरुमुखादात्तान्योगान्युनक्तु महामतिः ।
सदमृतचिदानन्दात्माथो जपं च समापयेद्
इति जपविधिः सम्यक्प्रोक्तो मनुद्वितयाश्रितः ।। क्रमदीपिका३.५९ ।।

कामबीजं प्रणवपुटितं सहिताष्टकं शतं अष्टोत्तरशतं जप्त्वा निजगुरुमुखात्प्राप्तान्योगानात्मपरदेवतासमावेशलक्षणानष्टमपटले वक्ष्यमाणान्महामतिर्युनक्तु करोतु । प्रकृतं उपसंहरतिअनन्तरं सदमृतचिदानन्दात्मामुं जपं समापयेतित्यनेन प्रकारेण मनुद्वितीयाश्रितः दशाक्षराष्टादशाक्षराश्रितः पूजाप्रकारः सम्यक्प्रकारेणोक्तः ।। टीका ३.५९ ।।

______________________________

य इमं भजते विधिं नरो
भवितासौ दयितः शरीरिणां ।
अपि वाक्कमलैकमन्दिरं
परमं ते समुपैति तन्महः ।। क्रमदीपिका३.६० ।।

यो नरो मनुष्य इमं पूजाप्रकारं सेवतेऽसौ शरीरिणां वल्लभो भविष्यति । तदा सरस्वतीलक्ष्म्योरावासो भविता अन्ते देहपातानन्तरं तेजः समुपैति तद्रूपो भवतीत्यर्थः ।। टीका ३.६० ।।

सनातनः ः विधिं विधानं पुरश्चरणलक्षणं । अचिरात्शीघ्रं कमलायाः सर्वसम्पत्तेरेकं मुख्यं मन्दिरं च भाजनं भवति । अपि वाक्कमलैकमन्दिरं इति पाठान्तरे वाचः सरस्वत्याः कमलायाश्चैकमन्दिरं अपि भवति ।। टीका ३.६० ।। (ह्ब्व्१७.१५)

इति श्रीकेशवाचार्यविरचितायां क्रमदीपिकायां
चतुर्थपटलः