क्रमदीपिका/द्वितीयः पटलः

विकिस्रोतः तः
← प्रथमः पटलः क्रमदीपिका
द्वितीयः पटलः
[[लेखकः :|]]
तृतीयः पटलः →

करयोर्युगलं विधायेत्यादिना सूचितं मन्त्रं उद्धर्तुं आदौ गोपालमन्त्रेष्वपि मौलीभूतौ दशाक्षराष्टादशाक्षरौ प्रथमं संस्तौतिवक्ष्ये मनुं इति ।

वक्ष्ये मनुं त्रिभुवनप्रथितात्मभावम्
अक्षीणपुण्यनिचयैर्मुनिभिर्विमृग्यं ।
पक्षीन्द्रकेतुविषयं वसुधर्मकाम
मोक्षप्रदं सकलकर्मणि कर्मदक्षं ।। क्रमदीपिका२.१ ।।

मन्त्रं वक्ष्ये उद्धरिष्यामि । कीदृशं ? त्रिभुवनेति त्रिभुवने त्रैलोक्ये प्रथितः ख्यातोऽनुभावः प्रभावो यस्य तथा तं । पुनः कीदृशं ? मुनिभिर्मुमुक्षुभिर्विमृग्यं अन्वेषणीयं । किम्भूतैर्मुनिभिः ? अक्षीणेति अक्षीणः सपूर्णः पुण्यनिचयः सुकृतसमूहो येषां तथा तैः । पुनः कीदृशं ? पक्षीति पक्षीन्द्रो गरुडः स एव केतुः चिह्नं यस्य स पक्षीन्द्रकेतुः श्रीकृष्णः तद्विषयं तत्प्रतिपादकं । पुनः कीदृशं ? वस्त्विति
वसु धनं तथा च पुरुषार्थचतुष्टयप्रदं इत्यर्थः । पुनः कीदृशं ? सकलेति अशेषवश्यकर्मकुशलं ।। टीका २.१ ।।

 ______________________________

अतिगुह्यं अबोधतूलराशि
ज्वलनं वागाधिपत्यदं नराणां ।
दुरितापहरं विषापमृत्यु
ग्रहरोगादिनिवारणैकहेतुं ।। क्रमदीपिका२.२ ।।

पुनः कीदृशं ? अतिगुह्यं । पुनः कीदृशं ? अबोधेति अबोधो मिथ्याज्ञानरूपः स एव तूलप्रचयः । तत्र ज्वलनो वह्निरिव तं समस्ताज्ञाननाशकं इत्यर्थः ? पुनः कीदृशं ? नराणां साधकानां वागधिपत्यदं वागैश्वर्यप्रदं । पुनः कीदृशं ? दुरितापहरं दुःखप्रापकानिष्टनिवारकं । पुनः कीदृशं ? विषं स्थावरं जङ्गमं च अपमृत्युरकालमरणं ग्रहो नवग्रहजनितानिष्टं रोगो वातपित्तादिजनितशरीरदौस्थ्यं एवं आदीनां अशुभादीनां निवारणे एकोऽद्वितीयो हेतुः कारणं ।। टीका २.२ ।।

 ______________________________

जयदं प्रधनेऽभयदं विपिने
सलिलप्लवने सुखतारणदं ।
नरसप्तिरथद्विपवृद्धिकरं
सुतगोधरणीधनधान्यकरं ।। क्रमदीपिका२.३ ।।

पुनः कीदृशं ? प्रधने संग्रामे जयदं । विपिनेऽभयदं भयहरं । सलिलप्लवने तोयं अन्तरणे सुखसन्तरणदातारं सप्तिर्हयः तथा च मनुष्याणाहयरथद्विपादीनां उपचयकरं तथा सुतादिप्रदं ।। टीका २.३ ।।
______________________________

बलवीर्यशौर्यनिचयप्रतिभा
स्वरवर्णकान्तिसुभगत्वकरं ।
ब्रह्माण्डकोटिमणिं आदिगुणा
ष्टकदं किं अत्र बहुनाखिलदं ।। क्रमदीपिका२.४ ।।

बलं शरीरसामर्थ्यं वीर्यं शुक्रं प्रभावो वा, शौर्यं पराभिभावकं तेजः, एतेषां निचयः समूहः । प्रतिभा बुद्धिः स्फूर्तिरूपा स्वरो ध्वनिः । वर्णो गौरत्वादिः । कान्तिर्दीप्तिः प्रतिभास्वरवर्णकान्तिरित्येकपदं तथा च प्रतिभास्वरवर्णकान्तिर्देदीप्यमानवर्णशोभेति कश्चित्सुभगत्वं समस्तलोकादरकत्वं एतेषां कर्तारं दातारं इत्यर्थः । पुनः क्षुभिता समोहिताण्डकोटिर्ब्रह्माण्डकोटिर्येन तथा तं संसारमोहकं इत्यर्थः । पुनः अणिमादिगुणाष्टकदम्
अणिमलघिमगरिममहिमेशित्ववशित्वप्राकाम्यप्राप्त्याख्यगुणाष्टकप्रदं इत्यर्थः । पुनः किं बहुना, अत्र जगति अखिलदं समस्ताभीष्टप्रदं इत्यर्थः ।। टीका २.४ ।।

______________________________

अथ दशाक्षरमन्त्रराजं उद्धरतिशार्ङ्गीत्यादिना ।

शार्ङ्गी सोऽतुरदन्तः परो रामाक्षियुक्द्वितीयार्णं ।
शूली सौरिर्बालो बलानुजद्वयं अथाक्षरचतुष्टयं ।। क्रमदीपिका२.५ ।।
शूरतुरीयः सानन आवृत्तः स्यात्सुशोभोऽष्तमोऽग्निसखः ।
तद्दयिताक्षरयुग्मं तदुपरिगस्त्वेवं उद्धरेन्मन्त्रं ।। क्रमदीपिका२.६ ।।

शार्ङ्गी गकारः कीदृशोऽयं सोत्तरदन्त उत्तरदन्तपङ्क्तौ न्यस्यमानः उत्तरदन्त ओकारस्तेन सहित एतेन प्रथमाक्षरं उद्धृतः । शूरः पकारः । कीदृशोऽयं वामाक्षियुक्वामाक्षि चतुर्थस्वरः तेन सहित एतेन द्वितीयाक्षरं उद्धृतं अक्षरचतुष्कं क्रमेण पुनः कथ्यते शूली जकारः बालो बकारः बलानुजद्वयं संयुक्तलकारद्वयं ल्ल इति स्वरूपं इत्यक्षरचतुष्कं उद्धृतं शूरतुरीयः शूरस्य पकारस्य चतुर्थः । कीदृशोऽयं साननवृत्तः आननवृत्तेनाकारेण सह वर्तते इति साननवृत्तः
अयं च सप्तमः स्याद्मन्त्रस्य सप्तमो भवतीत्यर्थः । अष्टमोऽग्निसखो वायुः यकार इति यावत् । तथा च मन्त्रस्याष्टमो वर्णो य इति बोद्धव्यः । तदुपरिगं पूर्वोक्तवर्णानन्तर्य्विशिष्टं तद्दयिताक्षरयुगलं स्वाहेति स्वरूपं इत्यक्षरद्वयं उद्धृतं ।। टीका २.५६ ।।

______________________________

प्रकाशित इति

प्रकाशितो दशाक्षरो मनुस्त्वयं मधुद्विषः ।
विशेषतः पदारविन्दयुग्मं भक्तिवर्धनः ।। क्रमदीपिका२.७ ।।

मधुद्विषः श्रीगोपालकस्यायं दशाक्षरो मन्त्र उद्धृतः । कीदृशो विशेषतो विशेषेण पदारविन्दयुग्मभक्तिवर्धनः श्रीगोपालकृष्णचरणाब्जयुगले या भक्तिराराध्यत्वेन ज्ञानं तत्समृद्धिकारक इत्यर्थः ।। टीका २.७ ।।

 ______________________________

मन्त्रस्य ऋष्यादिकं दर्शयतिनारद इति ।

नारदो मुनिरमुष्य कीर्तितश्
छन्द उक्तं ऋषिभिर्विराडिति ।
देवतासकललोकमङ्गलो
नन्दगोपतनयः समीरितह् ।। क्रमदीपिका२.८ ।।

अमुष्य पूर्वोक्तमन्त्रस्य मुनिः ऋषिर्नारदः कीर्तितः कथितः । ऋषिभिर्गौतमादिभिर्विराट्छन्द उक्तं । देवता ननगोपतनयः श्रीगोपालकृष्ण उक्तः । कीदृशः ? सकललोकमङ्गलः सर्वजनकल्याणहेतुः । एतेन ऋष्यादीनां शिरसि रसनायां हृदि क्रमेण न्यासः कार्य इति सूचितं प्रपञ्चसारे । तथा विधानात्प्रयोगश्च दशाक्षरगोपालमन्त्रस्य नारदऋसये नमः शिरसि । विराट्छन्दसे नमो मुखे । श्रीगोपालकृष्णाय देवतायै नमः हृदि इत्येवम्भूतः । अस्य मन्त्रस्य नारदऋषिः । एवं छन्दोदेवतयोरपि योज्यम्
इति केचित् ।। टीका २.८ ।।

 ______________________________

अधुनास्य मन्त्रस्य पञ्चाङ्गानि दर्शयतिअङ्गानीत्यादिना

अङ्गानि पञ्च हुतभुग्दयितासमेतैश्
चक्रैरमुष्य मुखवृत्तविषूपपन्नैः ।
त्रैलोक्यरक्षणयुजाप्यसुरान्तकाख्य
पूर्वेण चेह कथितानि विभक्तियुक्तैः ।। क्रमदीपिका२.९ ।।

हृदये नतिः शिरसि पावकप्रिया
सवषट्शिखाहुं इति वर्मणि स्थितं ।
सफडस्त्रं इत्युदितं अङ्गपञ्चकं
सचतुर्थिवौषडुदितं दृशोर्यदि ।। क्रमदीपिका२.१० ।।

अमुष्य इह शास्त्रे अङ्गानि पञ्च कथितानि । कानि तानि ? तत्राह हृदये नतिरिति । हृदये नतिर्नमःपदं शिरसि पावकप्रिया स्वाहेति सवषट्वषट्पदसहिता शिखेत्यर्थः । हुं अपि वर्मणि स्थितं वर्मणि कवचे हुं अपि पदं स्थितं इत्यर्थः । सफडस्त्रं फट्पदसहितं अस्त्रं इत्यर्थः । इत्यनेन प्रकारेण सचतुर्थि यथा स्यात्तथैवं अङ्गपञ्चकं उदितं कथितं चतुर्थ्या च हृदयादीनां योगः कार्यः । कैः सह चक्रैश्चक्रशब्दैः । कीदृशैः ? मुखवृत्तविसूपपन्नैर्मुखवृत्तं आकारः वि इति सु इति स्वरूपं एतैः प्रत्येकं उपपन्नैः सम्बद्धईह्त्रैलोक्यरक्षणयुजापि
त्रैलोक्यरक्षणं युनक्तीति तद्युगेतादृशेन चक्रेण अपिशब्दाच्चक्रैरिति विभिद्यान्वयः कार्यः । तथा च चक्रेणेति असुरान्तकाख्यपूर्वेण चक्रेणेत्यर्थः । च समुच्चये । पुनः कीदृशैः विभक्तियुक्तैः ? चतुर्थीयुक्तैस्तस्या एव प्रकृतत्वादेतस्यापि पदस्य विभिद्यान्वयः कार्यः दृशोर्यदि इति यदि क्वचिन्मन्त्रे दृशोर्न्यासोऽस्ति तदा तत्र वौषडिति उदितं कथितं ।

अत्र ज्वालाचक्रायेत्यपि योज्यं इति लघुदीपिकाकारः । प्रयोगश्चऽचक्राय स्वाहा हृदयाय नमः । विचक्राय स्वाहा शिरसे स्वाहा सुचक्राय स्वाहा शिखायै वषट् । त्रैलोक्यरक्षणचक्राय स्वाहा कवचाय हुं । ज्वालाचक्राय स्वाहा नेत्रद्वयाय वौषटसुरान्तकचक्राय स्वाहा अस्त्राय फडिति अङ्गुलीष्वङ्गमन्त्रन्यासे तु तत्तदङ्गमन्त्रान्ते अङ्गुष्ठाभ्यां नमः तर्जनीभ्यां स्वाहा इत्यादि योज्यं । आगमान्तरे ह्रीं अङ्गुष्ठाभ्यां नमः ह्रीं तर्जनीभ्यां स्वाहा । तत इत्यादिदर्शनात्तेनाङ्गुष्ठादिषु हृदयाय नमः इत्यादिप्रयोगाश्चिन्त्याः । असमवेतार्थकत्वाद्मानाभावाच्चेति केचित्
 । अन्ये तु यथाश्रुताङ्गमन्त्रस्यैव न्यासैरङ्गुलीष्वतिदेशानाहुराच्यार्याः ।। टीका २.९१० ।।

 ______________________________

दशाङ्गानि दर्शयति

मन्त्रार्णैर्दशभिरुपेतचन्द्रखण्डैर्
अङ्गानां दशकं उदीरितं नमोऽन्तं ।
हृद्छीर्षं तदनु शिखातनुत्रमन्त्रं
पार्श्वद्वन्द्वसकटिपृष्ठम्मूर्धयुक्तं ।। क्रमदीपिका२.११ ।।

मन्त्रार्णैर्मन्त्राक्षरिर्नमोऽन्तं यथा स्यादेवं अङ्गानां दशकं उदीरितं कथितं कीदृशैरुपेतचन्द्रखण्डैः सानुस्वारैः स्थानान्याहुःहृदयं शीर्षं मस्तकं तत्पश्चात्शिखा प्रसिद्धा तनुत्रं कवचं अस्त्रं दशदिक्षु पार्श्वयुगलकटिपृष्ठमूर्धसहितं पूर्वोक्तं इत्यर्थः । कटिर्नाभेरध इति त्रिपाठिनः । प्रयोगस्तु गों हृदयाय नम इति पीं शिरसे स्वाहा इत्यादि ।। टीका २.११ ।।

______________________________

अधुनास्य मन्त्रस्य बीजशक्त्यधिष्ठातृदेवताप्रकृतिविनियोगान्दर्शयति वक्ष्य इत्यादिना ।

वक्ष्ये मन्त्रस्यास्य बीजं च शक्ति
चक्री शक्री वामनेत्रप्रदीप्तः ।
सप्रद्युम्नो बीजं एतत्प्रदिष्टं
मन्त्रप्राद्युम्नो जगन्मोहनोऽयं ।। क्रमदीपिका२.१२ ।।

अस्य मन्त्रस्य पूर्वोक्तस्य सशक्तिशक्त्यादिसहितं बीजं वक्ष्ये बीजं आहचक्रीति ककारः । कीदृशोऽयं शक्री शक्रो लकारः तद्युक्तः । पुनः कीदृशः ? वामनेत्रप्रदीप्तः वामनेत्रं चतुर्थस्वरस्तत्सहितः । पुनः कीदृशः ? सप्रद्युम्नः प्रद्युम्नो बिन्दुः तत्सहितः तथा चक्रीं इति सिद्धं भवति । एतदस्य बीजं प्रदिष्टं कथितं । अयं एव प्राद्युम्नो मन्त्र इत्यर्थः । किम्भूतः ? जगन्मोहनो विश्ववश्यकरः ।। टीका २.१२ ।।

 ______________________________

शक्तिं आहहंस इति ।

हंसो मेदो वक्रवृत्ताभ्युपेतः
पोत्री नेत्राद्यन्वितोऽसौ युगार्णा ।
प्रोक्ता शक्तिः सर्वगीर्वाणवृन्दैर्
वन्दस्याग्नेर्वल्लभा कामदेयं ।। क्रमदीपिका२.१३ ।।

हंसः सकारः । किम्भूतः ? मेदो वकारः वक्त्रवृत्तं आकारः आभ्यां उपेतः सम्बद्धः तथा पौत्री हकारः । किम्भूतः ? नेत्रादिराकारस्तेनान्वितः । तथा च स्वाहेति सिद्धं असौ युगार्णो वर्णद्वयात्मिका शक्तिः प्रोक्ता तथेयं वह्नेर्वल्लभा किम्भूता कामदा आकाङ्क्षितप्रदा । कथम्भूतस्य वह्नेर्गीर्वाणवृन्दैर्वन्द्यस्य सर्वदेवसमूहैः पूज्यस्य ।। टीका २.१३ ।।

 ______________________________

विनियोगं आहविनियोग इति ।

विन्योगस्य मन्त्रस्य पुरुषार्थचतुष्टये ।
कृष्णं प्रकृतिरित्युक्तो दुर्गाधिष्ठातृदेवता ।। क्रमदीपिका२.१४ ।।

अस्य मन्त्रस्य पुरुषार्थचतुष्टयसाधनाय विनियोग इत्यर्थः । प्रकृतिर्मूलकारणं मन्त्रोत्पादकः मन्त्रस्वरूप इत्यर्थः । अधिष्ठातृदेवतां आहदुर्गाधिष्ठातृदेवतेति ।। टीका २.१४ ।।

 ______________________________

मन्त्रार्थं आहगोपायतीत्यादिना ।

गोपायेति सकलं इदं गोपायति परं पुमांसं इति गोपी ।
प्रकृतेस्तस्या जातं जन इति नदादिकं पृथिव्यन्तं ।। क्रमदीपिका२.१५ ।।

इदं सकलं नामरूपाभ्यां व्याकृतं जगद्गोपायति रक्षति तत्कारणत्वात्स्वार्थे आयः । तथा परं पुमांसं नित्यशुद्धबुद्धं उक्तानन्दाद्वयात्मकं ब्रह्मस्वरूपं गोपायति गुप्गोपनकुत्सनयोः अज्ञातत्वेन विषयीकरोतीति व्युत्पत्त्या महदादिपृथिव्यन्तं महत्तत्त्वादिपृथिवीपर्यन्तं सकलं कार्यजातं जन उच्यते ।। टीका २.१५ ।।

 ______________________________

अनयोर्गोपीजनयोः समीरणादाश्रितो व्याप्त्या ।
वल्लभ इत्युपदिष्टं सान्द्रानन्दं निरञ्जनं ज्योतिः ।। क्रमदीपिका२.१६ ।।
स्वाहेत्यात्मानं गमयामीत्यतेजसे तस्मै ।
यः कार्यकारणेशः परमात्मेत्यच्युतैकतास्य मनोः ।। क्रमदीपिका२.१७ ।।

अनयोः गोपीजनयोरविद्या तत्कार्ययोः समीरणादन्तर्यामित्वेन स्वस्य कार्ये प्रेरणाद्नियमनादि इति यावदाश्रयत्वतो अधिष्ठातृत्वेन व्याप्त्या व्यापकत्वेन वल्लभः स्वामीत्युपदिष्टं कथितं । परं ज्योतिर्ब्रह्मचैतन्यं । कीदृशं ज्योतिः ? सान्द्रानन्दनिरतिशयानन्दैकस्वरूपं । पुनः कीदृशं ? निरञ्जनं मायाकालुष्यरहितं स्वाहेति तस्मै स्वतेजसे स्वप्रकाशचिद्रूपाय परमात्मने स्वात्मानं जीवैकस्वरूपं गमयामि समर्पयामि तदात्मकतां प्रापयामीति स्वाहाशब्दार्थः । प्रथम इतिशब्दः स्वाहाशब्दोपस्थापकः । द्वितीयस्तु प्रकारप्रदर्शकः । तस्मै कस्मै तत्राहय
इति । यः कार्यकारणयोर्जनप्रकृत्योरीशः स्वामी अधिष्ठाता तथा परमात्मा निरुपाधिचैतन्यत्वाच्चेत्यनेन प्रकारेणास्योपासकस्याच्युतैकताच्युतेन सहाभिन्नता भवति ।। टीका २.१६१७ ।।

 ______________________________

प्रकारान्तरेणार्थं आहाथवेति ।

अथवा गोपीजन इति समस्तजगद्वनशक्तिसमुदायः ।
तस्य स्वानन्यस्य स्वामी वल्लभ इति ह निर्दिष्टः ।। क्रमदीपिका२.१८ ।।

अथवा गोपीजन इति शब्देन सकलविश्वरक्षणशक्तिसमुदायः कथ्यते । तत्र गोपीपदेन शक्तिरुच्यते । जनपदेन तस्याः समूहः । तस्य शक्तिसमूहस्य स्वानन्यस्य स्वाभिन्नस्य शक्तिशक्तिमतोरभेदविवक्षया स्वामी नियन्ता आश्रयो वल्लभ इति हस्य स्फुटं निर्दिष्ट उदित इत्यर्थः । स्वाहाशब्दार्थस्तु पूर्वोक्त एव बोद्धव्यः । लघुदीपिकाकारस्तुअवनशक्तिसमुदायः अवनं स्थितिः तत्र कारणभूतानां शक्तीनां समुदायः समूहः जगत्पालिन्यादिगणः । उक्तं च महद्भिः जगत्पालिनीत्याद्याः प्रोक्तास्ताः स्थितये कला इति तस्य स्वामी नायक इत्यर्थः ।। टीका २.१८ ।।

 ______________________________

प्रकारान्तरेणार्थं आहाथवेति ।

अथवा व्रजयुवतीनां दयिताय जुहोमि मां मदीयम्
अपीत्यर्पयेत्समस्तं ब्रह्मणि सुगणे समस्तसम्पत्त्यै ।। क्रमदीपिका२.१९ ।।

गोपीजनो गोपाङ्गनाजनस्तस्य वल्लभो निरतिशयप्रेमविषयः तस्मै व्रजयुवतीनां गोपरमणीनां दयिताय हृदयानन्ददायिने स्वाहा जुहोमि । किं मां स्वात्मानं मदीयं अपि आत्मीयसुहृदादिकं अपि इत्यनेन प्रकारेण सगुणे ब्रह्मणि संसारप्रवर्तके परमेश्वरेश्वरे सर्वं समर्पयेत् । किं अर्थं ? समस्तसम्पत्त्यै सर्वैश्वर्याय ।। टीका २.१९ ।।

 ______________________________

अष्टादशाक्षरमन्त्रोद्धाराय तदन्तर्भूतौ कृष्णगोविन्दशब्दौ प्रथमतो विविच्य दर्शयतिकृष्शब्द इति ।

कृष्शब्दः सत्तार्थो
णश्चानन्दात्मकस्ततः कृष्णः ।
भक्ताघकर्षणादपि
तद्वर्णत्वाच्च मन्त्रमयवपुषः ।। क्रमदीपिका२.२० ।।

गोशब्दवाचकत्वाज्ज्ञानं
तेनोपलभ्यते गोविन्दः ।
वेत्तीति शब्दराशिं गोविन्दो
गोविचारनादपि च ।। क्रमदीपिका२.२१ ।।

कृष्शब्दः सत्तार्थः । तत्र शक्तः । कृष्सत्तायां इत्यत्र क्विबन्तः सत्तावाचक इति काश्चित् । कृट्णश्च णकारश्च आनन्दात्मक आनन्दवाची । नन्द आनन्द इति धातोरेकदेशग्रहणादिति कश्चित् । ततो द्वन्द्वे कृतेऽत्रादर्शं आद्यचिकृते च कृष्णः सदानन्द इत्यर्थः । प्रकारान्तरेण कृष्णशब्दं व्युत्पादयति भक्तेति भक्तानां अघकर्षणात्पापपरिमार्जनात्कृष्ण इत्यर्थः । भक्तादिकर्षणादिति पाठे आदिशब्देनाभक्तग्रहणं भक्तस्य कर्षणं स्वस्थाननयनं अभक्तस्य कर्षणं नरकनयनं इत्यर्थः । प्रकारान्तरेण व्युत्पत्तिं आहतद्वर्णेति । कृष्णवर्णशरीरत्वात्
कृष्णः मन्त्रमयशरीरस्य वाच्यवाचकयोरभेदेन विवक्षया । गो इत्यादि । गौर्ज्ञानं गोशब्दस्य वाचकत्वात्ज्ञानवाचकत्वात्तेन ज्ञानेनोपलभ्यते प्राप्यते ज्ञायते इति गोविन्दः । विद्लाभे इत्यस्य धातोः प्रकारान्तरं आहवेत्तीति । गोशब्दः शब्दवाची । विद्ज्ञाने धातुः । गां शब्दराशिं शब्दसमुदायं मातृकां वेत्तीति गोविन्दः । प्रकारान्तरं आहगोविचारणाद्गोशब्दविचारणाद्गोविन्दः । अथवा गाव इन्द्रियाणि तेषां विचारणाद्विशेषेषु प्रतिनियतविषयेषु प्रवर्तनाद्गोविन्दः । अथवा गावः पशुविशेषा इति । तथा च श्रुतिःपशवो दिव्पादश्
चतुष्पादश्च इति । तेषां विशेषेषु पुण्यपापेषु चारणात्प्रवर्तनाद्गोविन्दः । अथवा, गावः पशुविशेषाः तेषां रक्षनाद्गोविन्दः । अपिशब्दश्चार्थे ।। टीका २.२०२१ ।।

 ______________________________

इदानीं मन्त्रं उद्धरति

एतेऽभिख्येऽनुक्रमतस्तूर्यविभक्त्या
मन्त्रात्पूर्वं मन्मथबीजादथ पश्चात् ।
स्यातां चेदष्टादशवर्णो मनुवर्यो
गुह्याद्गुह्यो वाञ्छितचिन्तामणिरेषः ।। क्रमदीपिका२.२२ ।।

एते अभिख्ये नामनी कृष्णगोविन्दाख्ये अनुक्रमेण तुर्यविभक्त्या प्रत्येकं चतुर्थीविभक्त्या सह मन्त्रात्पूर्वोक्तदशाक्षरगोपालमन्त्रादादौ मन्मथबीजात्पश्चात्कामबीजानन्तरं अथ चेद्यदि स्यातां भवतः तदा एषोऽष्टादशार्णो मन्त्रश्रेष्ठो भवति । एतस्य बलादेव दशाक्षरेऽपि कामबीजसाहित्यं केचिदिच्छन्ति । कीदृशः ? गुह्याद्गुह्यः । गुह्यादपि गुह्यः । पुनः कीदृशः ? वाञ्छितस्य चिन्तामात्रेणाभीष्टप्रद इत्यर्थः ।। टीका २.२२ ।।

 ______________________________

ऋष्यादिकं अप्याहपूर्वेति ।

पूर्वप्रदिष्टे मुनिदेवतेऽस्य छन्दस्तु गायत्रं उशन्ति सन्तः ।
अङ्गानि मन्त्रार्णचतुष्कैर्वर्मावसानानि युगार्णं अस्त्रं ।। क्रमदीपिका२.२३ ।।

अस्य मन्त्रस्य पूर्वप्रदिष्टे प्रथममन्त्रसम्बन्धितया कथिते मुनिदेवते बोद्धव्ये । पुनः सन्तो गायत्रछन्द उशन्ति वदन्ति । अङ्गानीति मन्त्रार्णचतुश्चतुष्कैर्मन्त्रसम्बन्धिवर्णानां चतुर्भिश्चतुर्भिरक्षरैः कृत्वा षोडशाक्षरैर्वर्मावसानानि कवचान्तानि चत्वार्यङ्गानि भवन्ति । अवशिष्टं युगार्णं वर्णद्वयं अस्त्राख्यं अङ्गं भवति । प्रयोगश्चक्लीं कृष्णाय हृदयाय नमः गोविन्दाय शिरसे स्वाहा, गोपीजनशिखायै वषट्, वल्लभाय कवचाय हुं, स्वाहा अस्त्राय फट् ।। टीका २.२३ ।।

______________________________

बीजादिकं आहबीजं इति ।

बीजं शक्तिः प्रकृतिर्विनियोगश्चापि पूर्ववदमुष्य ।
पूर्वतरस्य मनोरथं कथयामि न्यासं अखिलसिद्धिकरं ।। क्रमदीपिका२.२४ ।।

अमुष्यास्य मन्त्रस्य बीजं शक्तिः प्रकृतिर्विनियोगः पूर्वमन्त्रे यानि बीजादीनि कथितानि तान्यत्रापि ज्ञातव्यानीत्यर्थः । पूर्वतरस्येति अथानन्तरं पूर्वतरस्य मनोर्दशाक्षरगोपालमन्त्रस्याखिलसिद्धिकरं समस्तसिद्धिदायकं न्यासं कथयामीति प्रतिज्ञा ।। टीका २.२४ ।।

______________________________

अधुना न्यासक्रमं दशार्णस्य कथयतिव्यापय्येति ।

व्यापय्यार्थो हस्तयोर्मन्त्रम्
अन्तर्बाह्ये पार्श्वे ताररुद्धं बुधेन ।
न्यासो वर्णैस्तारयुग्मान्तरस्थैर्
बिन्दूत्तंसैर्हार्दहृद्यैर्विधेयः ।। क्रमदीपिका२.२५ ।।

अथोऽनन्तरं बुधेन पण्डितेन वर्णैर्मूलमन्त्राक्षरैर्न्यासो विधेयः कार्यः । किं कृत्वा ? मूलमन्त्रं हस्तयोरन्तर्मध्ये तथा हस्तयोरेव बाह्ये पृष्ठे तथा हस्तयोरेव पार्श्वे व्यापय्य व्यापकतया विन्यस्येत्यर्थः । कीदृशं मन्त्रं ? ताररुद्धं प्रणवपुटितं । कीदृशैः वर्णैः तारयुग्मान्तरस्थैः प्रणवद्वयमध्यगतैः । पुनः कीदृशैः ? बिन्दूत्तंसैर्बिन्दुः शिरोऽलङ्कारो येषां ते तथा सानुस्वारैरित्यर्थः । पुनः कीदृशैः ? हार्दहृद्यैर्हार्देन नमःपदेन हृद्यैर्मनोज्ञैः सहितैरित्यर्थः
 । प्रयोगश्चओं गों ओं नमः दक्षाङ्गुष्ठपर्वत्रये ओं पीं ओं नमः तर्जन्यां इत्यादि । ओं ल्लं ओं नमो वामकनिष्ठिकायां इत्यादि ।। टीका २.२५ ।।

______________________________

उक्तवर्णन्यासस्थानं आहशाखास्वित्यादिना ।

शाखासु त्रीणि पर्वाण्यधि दशसु पृथग्दक्षिणाङ्गुष्ठपूर्वं
वामाङ्गष्ठावसानं न्यसतु विमलधीः सृष्टिरुक्ता करस्था ।
अङ्गुष्ठद्वन्द्वपूर्वा स्थितिरुभयकरे संहृतिर्वामपूर्वा
दक्षाङ्गुष्ठान्तिकैतत्त्रयं अपि सृजति स्थित्युपेतं च कार्यं ।। क्रमदीपिका२.२६ ।।

दशसु शाखासु अङ्गुलीषु पृथक्कृत्वैकं त्रीणि पर्वाणि अधि पर्वत्रयं व्याप्य, त्रिपाठिनस्तु त्रीणि पर्वाणि इति पर्वत्रये अधीति उपरि अङ्गुल्यग्रे च पृथगेकैकशः । तथा च प्रथमपर्वणि ओं द्वितीये ओं तृतीये ओं अङ्गुल्यग्रे नमः इति एवं अन्यत्रापीत्याहुः । दक्षिणाङ्गुष्ठपूर्वं प्रथमन्यासादौ यथा स्यात्तथा वामाङ्गष्ठावसानं वामाङ्गष्ठोऽवसाने न्यासान्ते यथा स्यादेवं विशदधीर्विमलबुद्धीर्न्यसतु । एवं च करस्था सृष्टिरुक्ता करे सृष्टिन्यासप्रकार उक्त इत्यर्थः । अङ्गुष्ठद्वन्द्वपूर्वा स्थितिरुभयकरे हस्तद्वये दक्षिणकरे
ऽङ्गुष्ठादिकनिष्ठासु विन्यस्य वामकरेऽप्यङ्गुष्ठादिकनिष्ठास्वङ्गुलिषु न्यसेदयं स्थितिन्यास उक्तः । संहृतिर्वामपूर्वा दक्षेति संहृतिः संहारः वामाङ्गुष्ठपूर्वा दक्षिणाङ्गुष्ठावसाना अयं च संहारन्यास उक्तः । एतत्त्रयं अपि सृष्टिस्थितिसंहारात्मकं त्रयं अपि सृजति स्थित्युपेतं कार्यं च सृष्ट्यादिन्यासपञ्चकं कार्यं इत्यर्थः ।। टीका २.२६ ।।

______________________________

तत इति ।

ततः स्थितिक्रमाद्बुधो दशाङ्गकानि विन्यसेत् ।
तदङ्गपञ्चकं तथा विधिः समीरितः करे ।। क्रमदीपिका२.२७ ।।

ततस्तदनन्तरं स्थितिक्रमात्स्थितिन्यासक्रमेण दशस्वङ्गुलीषु बुधः पण्डितः दशाङ्गकानि पूर्वोक्तमन्त्रदशाङ्गानि विन्यसेत् । तदङ्गपञ्चकं तथेति तथा तेन प्रकारेण स्थितिक्रमेण तदङ्गपञ्चकं पुर्वोक्तपञ्चकं पूर्वोक्ताङ्गपञ्चकं दशसु अङ्गुलीषु विन्यसेत् । करन्यासजातं उपसंहरति विधिरिति । एवं चायं विधिः प्रकारः करे हस्तद्वये समीरितः कथित इत्यर्थः ।। टीका २.२७ ।।

______________________________

मातृकान्यासविशेषं दर्शयन्तत्त्वन्यासं च क्रमेणाहपुटितैरिति ।

पुटितैर्मनुनाथ मातृआर्णैर्
अभिविन्यस्य सबिन्दुभिः पुरोवत् ।
अणुसंहृतिसृष्टिमार्गभेदाद्
दशतत्त्व्वानि च मन्त्रवर्णभाञ्जि ।। क्रमदीपिका२.२८ ।।

अथान्तरमनुना दशार्णेन पुटितैर्मातृकाक्षरैः सबिन्दुभिः सानुस्वारैः पुरोवत्पूर्ववद्यथा पूर्वं ललाटादिषु न्यास एवं अभिविन्यस्य अनु पश्चान्मातृकान्यासविशेषकरणानन्तरं वक्ष्यमाणानि दशतत्त्वानि विन्यसेत् । कीदृशानि मन्त्रवर्णभाञ्जि मन्त्राक्षरयुक्तानि । कथं दशतत्त्वानि विन्यसेत्? तत्राहसंहृतिसृष्टिमार्गभेदात्प्रथमं संहारक्रमेण तदनन्तरं सृष्टिक्रमेणेत्यर्थः ।। टीका २.२८ ।।

 ______________________________

संहारसृष्टिप्रकारं दर्शयतिसंहृताविति ।

संहृतावनगतो मनुवर्यः
सृष्टिवर्त्मनि भवेत्प्रतियातः ।
उद्धृतिः खलु पुरोक्तवदेषां
न्यासकर्म कथयाम्यधुनाहं ।। क्रमदीपिका२.२९ ।।

असौ मनुवर्यः मनुश्रेष्ठः संहृतौ संहारन्यासे अनुगतो यथैवास्ति तथैव सृष्टिमार्गे सृष्टिकरन्यासे प्रतियातो भवेत्तद्विपरीतो भवेत् । उद्धारप्रकारं आहौद्धृतिरिति । एषां तत्त्वानां खलु निश्चयेन उद्धृतिरुद्धारः पूर्वोक्तवद्यथा पूर्वं उक्ततत्त्वन्यासे । नत्युपेतं भूयः पराय च तदाह्वयं आत्मने च नत्यन्तं उद्धरतु तत्त्वमनून्क्रमेण इति प्रकारेणेत्यर्थः । अधुना न्यासं कथयामीति साम्प्रतं न्याससम्बन्धितत्त्वनामकथनं तत्स्थानकथनं च करोमीत्यर्थः ।। टीका २.२९ ।।

 ______________________________

तत्त्वनामान्याहमहीति ।

महीसलिलपावकानिलवियन्ति गर्वो महान्
पुनः प्रकृतिपुरुषौ पर इमानि तत्त्वान्यथ ।
पदान्धुहृदयास्यकान्यधि तु पञ्च मध्ये द्वयं
त्रयं सकलगं ततो न्यसतु तद्विपर्यासतः ।। क्रमदीपिका२.३० ।।

मही पृथिवी । सलिलं जलं । पावकः तेजः । अनिलो वायुः । वियदाकाशः । गर्वोऽहङ्कारः । महान्महत्तत्त्वं । प्रकृतिः पुरुषः । परश्च इमानि पृथिव्यादीनि तत्त्वानि तत्त्वपदवाच्यानि । न्यासस्थानं आहाथेति । अथानन्तरं पञ्च तत्त्वानि पृथिव्यादीनि न्यसतु । कुत्र पदान्धुहृदयास्यकान्यधि पादयोः । अन्धौ लिङ्गे । हृदये । आस्ये मुखे । के शिरसि । अधि सप्तम्यर्थे मध्ये हृदये तत्त्वद्वयं त्रयं सकलगं सकलाङ्गव्यापकं ततस्तदनन्तरं तद्विपर्यासतः उक्तसंहारविपरीतरीत्या न्यसतु । प्रयोगश्चओं गों नमः पराय पृथिव्यात्मने नमः इति
पादद्वये इत्यारभ्य ओं हां नमः पराय परमात्मने नमः इत्यन्तः संहारः ओं हां नमः पराय परमात्मने नमः इत्यारभ्य ओं गों नमः पराय पृथिव्यात्मने नमः पादद्वये इति सृष्टिन्यासः । सृष्टिन्यासे त्रयं सर्वशरीरे, महदहङ्कारौ हृदि आकाशः शिरसि । वाय्वग्निसलिलमह्यः मुखहृदयलिङ्गपादद्वयेषु, ज्ञेयाः । केचित्तु तत्त्वपदान्तर्भावेन न्यासं इच्छन्ति तच्चिन्त्यं ।। टीका २.३० ।।

______________________________

गुप्ततमोऽयं इति ।

गुप्ततमोऽयं न्यासः सम्प्रोक्तस्तत्त्वदशकपरिक्प्तः ।
कार्योऽन्य्ष्वपि सद्भिर्गोपालमनुषु झटिति फलसिद्ध्यै ।। क्रमदीपिका२.३१ ।।

अयं प्रोक्तः कथितो न्यासः सद्भिः पण्डितैः अन्येष्वपि गोपालमन्त्रेषु उद्धृतदशाक्षरव्यतिरिक्तेष्वपि कार्यः । कीदृशः ? गुह्यतमः अतिशयेन गुप्तः । पुनः कीदृशः ? तत्त्वदशकपरिक्प्तः तत्त्वानां दशकं तत्त्वदशकं तेन परिक्प्त उद्घाटित इत्यर्थः । किं अर्थं ? झटिति फलसिद्ध्यै शीघ्रफलप्राप्त्यै ।। टीका २.३१ ।।

______________________________

न्यासान्तरं आहऽकेशादिति ।

आकेशादापादं दोर्भ्यां
ध्रुवपुटितं अथ मनुवरं न्यसेद्वपुषि ।
त्रिशो मूर्धन्यक्ष्णोः श्रुत्योर्घ्राणे
मुखहृदयजठरशिवजानुपत्सु तथाक्षराणि ।। क्रमदीपिका२.३२ ।।

अथानन्तरं दोर्भ्यां हस्ताभ्यां ध्रुवपुटितं प्रणवपुटितं मनुवरं मन्त्रश्रेष्ठं दशाक्षरं गोपालमन्त्रं आकेशादापादं केशादिपादपर्यन्तं त्रिशः स्वदेहे विन्यसेदिति विद्याधराचार्यत्रिपाठिप्रभृतयः । एतेषां मत आकेशादापाददिति पाठः । अधुना सृष्टिस्थितिसंहारक्रमेण मन्त्राक्षरन्यासं आहमूर्धनीत्यादि । तथा दशाक्षराणि प्रणवपुटितानि मूर्धादिवक्ष्यमाणस्थानेषु विन्यसेत् । स्थानान्याहमूर्धनीति । मूर्ध्नि चक्षुषोरुभयनेत्रे एकं एवाक्षरं श्रुतयोः कर्णयोः
अत्राप्येकं एव घ्राणे नासायुग्मे तत्राप्येकं एव मुखं हृदयं जठरं शिवं लिङ्गं जानुद्वये एकं, पादद्वये एकं एतेषु दशसु स्थानेषु दशाक्षराणि विन्यसेदित्यर्थः ।। टीका २.३२ ।।

______________________________

उक्ता सृष्टिः शिष्टैरेषा स्थितिरपि
मुनिभिरभिहिता हृदादिमुखान्तिका ।
संहारोऽङ्घ्र्यादिमूर्धान्तस्त्रितयं इति
विरचयेच्च सृष्टिं अनु स्थितिं ।। क्रमदीपिका२.३३ ।।

शिष्टैरागमज्ञैरेषा सृष्टिरुक्तेत्यर्थः । स्थितिरपि स्थितिन्यासोऽपि मुनिभिर्नारदादिभिर्हृदयादिमुखान्तिका अभिहिता हृदयं आरभ्य मुखपर्यन्तं कथिता । तत्र क्रमः हृदयजठरलिङ्गजानुपादमूर्धाक्षिश्रवणघ्राणमुखानीति संहारोऽङ्घ्र्यादिमूर्धान्तः कार्यः । तत्र मन्त्राक्षराणि प्रतिलोमेन देयानीतीदं त्रितयं विरचयतु अनु पश्चादेतत्त्रितयकरणानन्तरं पुनः सृष्टिं स्थितिं च विरचयतु । तथा च पञ्च न्यासाः कार्या इत्यर्थः । प्रयोगस्तु गों नमः पीं नमः इत्यादि ।।३३ ।।

______________________________

येषां आश्रमिणां यदन्तो न्यासस्तद्दर्शयति न्यास इति ।

न्यासः संहारान्तो मस्करिवैखानसेषु विहितोऽयं ।
स्थित्यन्तो गृहमेधिषु सृष्ट्यन्तो वर्णिनां इति प्राहुः ।। क्रमदीपिका२.३४ ।।

अयं न्यासः मस्करिवैखानसेषु संहारान्तो विहितः मस्करी सन्न्यासी वैखानसो वानप्रस्थः, तथा ताभ्यां न्यासत्रयं कार्यं इत्यर्थः । गृहमेधिषु गृहस्थेषु अयं न्यासः स्थित्यन्तो विहितः । तथा गृहस्थैः पञ्च न्यासाः कार्या इत्यर्थः । वर्णिनां ब्रह्मचारिणां अयं न्यासः सृष्ट्यन्तो विहितः । तथा च ब्रह्मचारिभिर्न्यासचतुष्टयं कार्यं इत्यर्थः । इति पूर्वोक्तं अर्थजातं प्राहुः प्राचीना आगमज्ञा इति शेषः ।। टीका २.३४ ।।

______________________________

वैराग्येति ।

वैराग्ययुजि गृहस्थे संहारं केचिदाहुराचार्याः ।
सहजानौ वनवासिनि स्थितिं च विद्यार्थिनां सृष्टिं ।। क्रमदीपिका२.३५ ।।

केचिदाचार्याः वैराग्ययुक्तगृहस्थे संहारान्तं न्यासं आहुः । किं च सहजानौ वनवासिनि सपत्नीके स्थितिं स्थित्यन्तं न्यासं आहुः । तथा ब्रह्मचारिभिन्नानां विद्यार्थिनां अपि सृष्टिं सृष्ट्यन्तं न्यासं आहुरित्यर्थः ।। टीका २.३५ ।।

______________________________

उक्ताक्षरन्यासाङ्गुलिनियमं दर्शयतिशिरसीत्यादिना ।

शिरसि विहिता मध्या सैवाक्ष्णि तर्जनिकान्विता
श्रवसि रहिताङ्गुष्ठा ज्येष्ठान्वितोषकनिष्ठका ।
नसि च वदने सर्वाः सज्यायसी हृदि तर्जनी
प्रथमजयुता मध्या नाभौ श्रवोविहिता शिवे ।। क्रमदीपिका२.३६ ।।

ता एवाङ्गुलयो जान्वोः साङ्गुष्ठास्तु पदद्वये ।
स्थानार्णयोर्विनिमयो भवेन्नास्त्यङ्गुलिस्थानयोः ।। क्रमदीपिका२.३७ ।।

मध्या मध्याङ्गुलिः शिरसि मूर्ध्नि विहिता न्यासकरणत्वेन तथा मध्याङ्गुल्या न्यासः शिरसि कार्य इत्यर्थः । सैव मध्या तर्जनिकान्विताक्ष्णि नयनयुगले विहिता । तथा च मध्यमातर्जनीभ्यां अक्ष्णोर्न्यासः कार्यः । श्रवसि श्रोत्रयुगले रहिताङ्गुष्ठा अङ्गुष्ठरहिता सर्वाङ्गुलयो विहिताः । नसि नासायुगले ज्येष्ठान्विता अङ्गुष्ठयुक्ता उपकनिष्ठका अनामिका विहिता । वदने सर्वाङ्गुलयो विहिताः । हृदि सज्यायसी ज्येष्ठासहिता साङ्गुष्ठतर्जनी विहिता । नाभौ जठरे नाभिपदेन जठरं उपलक्षितं इति विद्याधरः । नाभिपदस्य मुख्य एवार्थ इति लघुदीपिकाप्रभृतयः । प्रथमजयुता अङ्गुष्ठयुक्ता
मध्यमा विहिता । शिवे लिङ्गे तथा विहिता यथा जठरे साङ्गुष्ठा मध्या तथेत्यर्थ इति केचित् । श्रवो विहिता शिव इति पाठे श्रोत्रयुगले या अङ्गुष्ठरहितास्ताः शिवे विहिता इत्यर्थः । जान्वोस्ता एवाङ्गुलयः अङ्गुष्ठेन रहिताः सर्वाङ्गुलय इत्यर्थः । पदद्वये साङ्गुष्ठाः सर्वाङ्गुलयो विहिताः । स्थानार्णयोरित्यादिना स्थानऽक्षरायोर्विनिमयो विपर्ययो भवति । यथागों सृष्टौ मूर्ध्नि । स्थितौ हृदये । संहृतौ पादयोर्न्यास इति । एवं अङ्गुलीस्थानयोर्विपर्ययो नास्ति । किन्तु सृष्टौ स्थितौ संहृतौ वा यत्र स्थाने याङ्गुलिर्विहिता तयैवाङ्गुल्या तत्र स्ताने न्यासः कार्य इत्यर्थः । ।। टीका २.३६३७ ।।

______________________________

इदानीं विभूतिपञ्जरन्यासं आहवच्मीति ।

वच्म्यपरं न्यासवरं भूत्यभिधं भूतिकरं ।
मन्त्रदशावृत्तिमयं गुप्ततमं मन्त्रिवरैः ।। क्रमदीपिका२.३८ ।।

अपरं भूत्यभिधं भूतिरिति नाम यस्य तद्भूतिनामकं वच्मि कथयामि । कीदृशं ? न्यासवरं न्यासश्रेष्ठं इत्यर्थः । पुनः भूतिकरं ऐश्वर्यकरं । पुनः मन्त्रदशावृत्तिमयं मन्त्रस्य दशावरणघटितं । पुनः साधकश्रेष्ठैर्गुप्ततमं अतिगुह्यं ।। टीका २.३८ ।।

 ______________________________

न्यासस्थानं आहऽधारेत्यादिना ।

आधारध्वजनाभिहृद्गलमुखांसोरुद्वये कन्धरा
नाभ्योः कुक्षिहृदोरुरोजयुगले पार्श्वापरश्रोणिषु ।
कास्याक्षिश्रुतिनः कपोलकरपत्सन्ध्यग्रशाखासु के
तत्प्राच्यादिदिशासु मूर्ध्नि सकले दोष्णोश्च सक्थ्नोस्तथा ।। क्रमदीपिका२.३९ ।।

शिरोऽक्ष्यास्यकण्ठाख्यहृत्तुन्दकन्दा
न्धुजानुप्रपत्स्वित्थमर्णान्मनूत्थान् ।
न्यसेच्छ्रोत्रगण्डांसवक्षोजपार्श्व
स्फिगूरुस्थलीजानुजङ्घाङ्घ्रियुक्षु ।। क्रमदीपिका२.४० ।।

आधारो वृषणस्याधस्त्रिकोणं मूलाधारस्थानं । ध्वजो लिङ्गं । नाभिः हृधयं गलः मुखं अंसोरुद्वयं । एतेष्वेकावृत्तिः । कन्धरा घाटा कन्धरा कण्ठ इति लघुदीपिकाकारः । नाभिकुक्षिहृदयं उरोजयुगलं स्तनद्वयं । पार्श्वेति पार्श्वयुगं । अपरं पृष्ठदेशः । श्रोणिर्जघनदेशः । श्रोणिः कटिः । अपरं श्रोण्याः अपरभागः इति त्रिपाठिनः । एतेषु द्वितीयावृत्तिः । कं शिरः । आस्यं मुखं । अक्षिणी नेत्रयुगलं । श्रुती श्रवणद्वयं । न इति नासिकाद्वयं कपोलद्वयम्
एतेषु तृतीया वृत्तिः । करपदेति करपदयोः प्रत्येकं सन्धिचतुष्टयं सन्धिष्वङ्गुल्यग्रेषु अङ्गुलीषु च । अत्र दक्षिणकरे चतुर्था वृत्तिः । एवं वामकरे पञ्चमा वृत्तिः । इति पक्षद्वयं च विद्याधरस्तु करयोरेका वृत्तिः, पादयोरेका वृत्तिरित्याह । तच्चिन्त्यं । मूलग्रन्थात्तथाप्रतीतेः । पादयोः सन्धिष्वङ्गुल्यग्रेष्वङ्गुलीषु च । अत्रापि दक्षिणपादे षष्ठा वृत्तिः । वामपादे सप्तमा वृत्तिः । अत एव हस्तपादयोर्न्यासचतुष्टयं इति त्रिपाठिनः । के मस्तकमध्ये तत्प्राच्यादिदिशासु
मस्तकपूर्वादिचतुर्दिक्षु सकले मूर्ध्नि सकले मस्तके प्रादक्षिण्येन व्यापकतया दोष्णोश्च बाहुयुगे तथा सक्थ्नोरूरुमूलस्याधिष्ठानयोर्मध्यप्रदेशयोरेतेष्वष्टमा वृत्तिः । मस्तकस्य पूर्वादिदिशास्वेका वृत्तिः । एका वृत्तिर्मूर्धादिष्विति विद्याधराचार्याः । तच्चिन्त्यं ।

तथा पदस्वरसात्शिरःप्रभृतिष्वेकावृत्तिप्रतीतेः । शिरो मस्तकं । अक्षीति नेत्रयुगलं । आस्यं मुखं । कण्ठं । हृदयं । तुन्दं उदरं । कन्दो मूलाधारः । स्वाधिष्ठानं इति त्रिपाठिनः । अन्धुं लिङ्गं । जानु । प्रपदिति पादयुगलं तेषु, एतेषु नवमावृत्तिः । श्रोत्रयुगले गण्डयुगले । अंसयुगले । स्तनयुगले । पार्श्वयुगले । स्फिग्युगले नितम्बयुगले । एवं उरुजानुजङ्घाङ्घ्रियुगले । एतेषु दशमावृत्तिः । इत्थं अनेन प्रकारेण मनूत्थान्मन्त्रसम्बन्धिनो वर्णान्न्यसेत् । प्रयोगश्च गों नमो मूलाधारे, पीं नमः लिङ्गे, जं नमः
नाभौ इत्यादि ।। टीका २.३९४० ।।

 ______________________________

न्यासफलं आहैतीति ।

इति कथितं विभूतिपञ्जरं
सकलसुखार्थधर्ममोक्षदं ।
नरतरुणीमनोऽनुरञ्जनं
हरिचरणाब्जभक्तिवर्धनं ।। क्रमदीपिका२.४१ ।।

अनेन प्रकारेण विभूतिपञ्जरं कथितं । कीदृशं ? सकलसुखार्थधर्ममोक्षदं पुरुषार्थचतुष्टयप्रदं । पुनर्नरतरुणीमनोरञ्जनं पुरुषनारीचित्ताह्लादकं न केवलं सर्वानुरञ्जनं । अपि तु हरिचरणाब्जे भक्तिवर्धनं ।। टीका २.४१ ।।

______________________________

मूर्तिपञ्जरन्यासं आहस्फूर्तय इति ।

स्फूर्तयेऽथास्य मन्त्रस्य कीर्त्यते मूर्तिपञ्जरं ।
आर्तिग्रहविषारिघ्नं कीर्तिश्रीकान्तिपुष्टिदं ।। क्रमदीपिका२.४२ ।।

अथानन्तरं अस्य दशाक्षरमन्त्रस्य स्फूर्तये उद्दीपनाय मूर्तिपञ्जरं कीर्त्यते । किम्भूतं ? आर्तिः पीडा । ग्रहो ग्रहजनितं अशुभं विषं स्थावरं जङ्गमं च । अरिः शत्रुः । तान्हन्तीत्यर्थः । पुनः कीदृशं ? कीर्त्यादिदं । कीर्तिः प्रख्यातिः । श्रीसम्पत्तिः सौन्दर्यं पुष्टिर्बलं प्रददातीति तथा ।। टीका २.४२ ।।

______________________________

अधुना न्यासं उद्धरतिकेशवादीति ।

केशवादियुगषट्कमूर्तिभिर्
धातृपूर्वमिहिरान्नमोऽन्तकान् ।
द्वादशाक्षरभवाक्षरैः स्वरैः
क्लीबवर्णरहितैः क्रमान्न्यसेथ् ।। क्रमदीपिका२.४३ ।।

केशवादिभिः पूर्वोक्तयुगषट्कमूर्तिभिः सह धातृपूर्वमिहिरास्तान्क्रमेण न्यसतु । कीदृशान्? नमोऽन्तकान्नमःपदान्तान् । पुनः कैः सह ? द्वादशाक्षरभवाक्षरैर्वक्ष्यमाणद्वादशाक्षरमन्त्रसम्बन्धिभिर्द्वादशाक्षरैः सह । एतदुक्तं भवतिआदौ स्वराः । ततो नमःपदं इति । प्रयोगस्तु ओं अं ओं केशवधातृभ्यां नमः । ओं अं ओं केशवधात्रे नम इति त्रिपाठिनः ।। टीका २.४३ ।।

______________________________

अथ मूर्तिपञ्जरन्यासे न्यासस्थानं आहभालोदरेति ।

भालोदरहृद्गलकूपतले
वामेतरपार्श्वभुजान्तगले ।
वामत्रयपृष्ठककुत्सु तथा
मूर्धन्यनु षड्युगवर्णमनुं ।। क्रमदीपिका२.४४ ।।

भाले ललाटे । उदरे । हृदये । गलकूपतले कण्ठे । वामेतरे वामादितरद्दक्षिणं दक्षिणपार्श्वे भुजान्ते गले चेति । वामत्रये वामपार्श्वे वामभुजान्ते गले च । पृष्ठे ककुदि । अथानन्तरं अन्विति पाठेऽप्ययं एव बोद्धव्यः । तथा तेन प्रकारेण मूर्ध्न्य्षड्युगवर्णमनुं द्वादशाक्षरमन्त्रं न्यसेदित्यर्थः ।। टीका २.४४ ।।

______________________________

मस्तके सम्पूर्णमन्त्रन्यासस्य प्रयोजनं आहचैतन्येति ।

चैतन्यामृतवपुरर्ककोटितेजा
मूर्धस्थो वपुरखिलं स वासुदेवः ।
औधस्यं सुविमलपायसीव सिक्तं
व्याप्नोति प्रकटितमन्त्रवर्णकीर्णं ।। क्रमदीपिका२.४५ ।।

स प्रसिद्धो वासुदेवो मूर्धस्थो मस्तकस्थः सन्वपुरखिलं समस्तं वपुः शरीरं व्याप्नोति स्वतेजसेत्यर्थः । किम्भूतो वासुदेवः ? चैतन्यामृतं तदेव वपुर्यस्य स तथा । यद्वा चैतन्यं स्वप्रकाशं अमृतं मोक्षस्तदेव वपुर्यस्य स तथा । पुनः कीदृशः ? अर्ककोटिरिव तेजो यस्य स तथा । वपुर्कीदृशं ? प्रकटितमन्त्रवर्णकीर्णं प्रकटिता ये मन्त्रवर्णा द्वादशाक्षरोद्गतास्तैराकीर्णं व्याप्तं । किं इव ? सुविमलपायसि सुनिर्मले जले सिक्तं निक्षिप्तं औधस्यं दुग्धं इव ।। टीका २.४५ ।।

______________________________

शरीरन्यासजातं उपसंहरतिसृष्टिस्थितीति ।

सृष्टिस्थिती दशपञ्चाङ्गयुग्मं
मुन्यादिकत्रितयं कास्यहृत्सु ।
विन्यस्यतु ग्रथयित्वा च मुद्रा
भूयो दिशां दशकं बन्धनीयं ।। क्रमदीपिका२.४६ ।।

मूर्तिपञ्जरस्य पूर्वकृत्यं दर्शयति सृष्टिस्थितीत्यादि इति रुद्रधरः । तच्चिन्त्यं । तत्र प्रमाणाभावात् । मूर्धन्यक्ष्णोरित्यादिना पूर्वं उक्ते सृष्टिस्थिती पुनः स्वदेहे विन्यस्य तथा दशपञ्चाङ्गयुग्मं दशाङ्गं पञ्चाङ्गं च विन्यस्य । ऋष्यादित्रितयं कास्यहृत्स्य विन्यसेदित्यर्थः । वक्ष्यमाणमुद्रां ग्रथयित्वा बद्ध्वा भूयः पुनरपि दिशां दशकं बन्धनीयं । ओं सुदर्शनायास्त्राय फटित्यनेन वक्ष्यमाणेन मन्त्रेणेत्यर्थः ।। टीका २.४६ ।।

______________________________

द्वादशाक्षरमन्त्रोद्धारं आहतारं इत्यादिना ।

तारं हार्दं विश्वमूर्तिश्च शार्ङ्गी
मांसान्तस्ते वायमध्ये सुदेवाः ।
षड्द्वन्द्वार्णो मन्त्रवर्यः स उक्तः
साक्षाद्द्वारं मोक्षपुर्याः सुगम्यं ।। क्रमदीपिका२.४७ ।।

तारं प्रणवं । हार्दं हृदयं नमः इति यावत् । विश्वमूर्तिर्भकारः । शार्ङ्गी गकारः । मांसान्ते मांसो लकारः । तस्यान्तो वकार इति । ते इति स्वरूपं । वा इति स्वरूपं । य इति स्वरूपं । तयोर्वाययोर्मध्ये सुदेवाः सुदेवेत्यक्षरत्रयं । तथा च ओं नमो भगवते वासुदेवायेति प्रसिद्धः षड्द्वन्द्वार्णो मन्त्रवर्यो द्वादशाक्षरो मन्त्रश्रेष्ठ उक्तः कथितः । कीदृशः ? मोक्षपुर्याः साक्षादव्यवधानेन सुगम्यं द्वारं सुगम उपाय इत्यर्थः ।। टीका २.४७ ।।

______________________________

द्वादशाक्षरादित्यान्दर्शयतिधात्रर्यमेत्यादिना ।

धात्रर्यममित्राख्या वरुणांशुभगा विवस्वदिन्द्रयुताः ।
पूषाह्वयपर्जन्यौ त्वष्टा विष्णुश्च भानवः प्रोक्ताः ।। क्रमदीपिका२.४८ ।।

धाता अर्यमा मित्रः वरुणः अंशुः भगः विवस्वानिन्द्रः पूषाः पर्जन्यः त्वष्टा विष्णुरेते द्वादश भानवः कथिताः ।। टीका २.४८ ।।

______________________________

अधुनाष्टादशाक्षरमन्त्रन्यासं आहाथ तु युगेत्यादि ।

अथ तु युगरन्ध्रार्णस्याहं मनोर्न्यसनं ब्रुवे
रचयतु करद्वन्द्वे पञ्चाङ्गं अङ्गुलिपञ्चके ।
तनुं अनु मनुं व्यापय्याथ त्रिशः प्रणवं सकृन्
मनुजलिपयो न्यास्या भूयः पदानि च सादरं ।। क्रमदीपिका२.४९ ।।

अनन्तरं पुनर्युगरन्ध्रार्णस्य युगरन्ध्रे राजदन्तत्वाद्रन्ध्रशब्दस्य परनिपातः । युगरन्ध्रं अक्षराणां यत्र स युगरन्ध्रार्णः तस्य । रन्ध्रं नव । तथा चाष्टादशाक्षरस्य मनोर्मन्त्रस्याहं न्यसनं न्यासं ब्रुवे कथयामीति प्रतिज्ञा । करद्वये अङ्गुलिपञ्चके पञ्चाङ्गं पूर्वोक्तं मन्त्राक्षरैः परिक्प्तं करन्यासं कुर्यात् । कनिष्ठायां अस्त्रन्यासो द्रष्टव्यः । अथानन्तरं तनुं अनु लक्ष्यीकृत्य त्रिशः त्रिवारं मन्त्रं व्यापय्य व्यापकतया विन्यस्य पुनः प्रणवं सकृदेकवारं
विन्यस्य अनन्तरं मनुजलिपयो न्यास्या मन्त्राक्षराणि न्यसतु । भूयोऽनन्तरं सादरं यथा स्यादेवं पदानि पञ्च पदानि न्यास्यानि ।। टीका २.४९ ।।

______________________________

मन्त्राक्षरन्यासस्थानं आहकचभुवीति ।

कचभुवि ललाटे भ्रूयुग्मान्तरे श्रवणाक्षिणोर्
युगलवदनग्रीवाहृन्नाभिकट्युभयान्धुषु ।
न्यसतु शितधीर्जान्वङ्घ्र्योरक्षरान्शिरसि ध्रुवं
नयनमुखहृद्गुह्याङ्घ्रिष्वर्पयेत्पदपञ्चकं ।। क्रमदीपिका२.५० ।।

कचस्य केशस्य भूरुत्पत्तिस्थानं शिरः तत्र । ललाटे भ्रूयुग्मान्तरे भ्रूमध्ये श्रवणाक्ष्णोर्युगले नो नासिकायुगले च । वदने ग्रीवायां हृदि नाभौ कट्युभये वामकटिर्दक्षिणकटिश्च । अन्धौ लिङ्गे । एतेषु तथा जाव्यङ्घ्र्योश्च शितधिर्निर्मलमतिः
अक्षराणि मन्त्रसम्बन्धीनि न्यसतु । अत्र जान्वोरेकं अक्षरं न्यसेत् । अङ्घ्र्योरेकं अक्षरं न्यसेत् । तथा शिरसि मस्तके ध्रुवं न्यसेत् । पदपञ्चकन्यासस्थानान्याहनयनेति । नयनयुगलं मुखं हृदयं गुह्यं अङ्घ्रिश्च एतेषु मन्त्रसम्बन्धि पदपञ्चकं क्लीं इत्येकम्, अन्यानि स्पष्टानि अर्पयेन्न्यसेत् ।। टीका २.५० ।।

______________________________

पञ्चाङ्गानीति ।

पञ्चाङ्गानि न्यसेद्भूयो मुन्यादीनप्यन्यत्सर्वं ।
तुल्यं पूर्वेणाथो वक्ष्ये मुद्रा बन्ध्या मन्वोर्याः स्युः ।। क्रमदीपिका२.५१ ।।

पञ्चाङ्गानि भूयः पुनरपि शरीरे न्यसेत् । तथा मुन्यादीनृष्यादीन् । अन्यत्सर्वं केशवादिजातं पूर्वेण तुल्यं समानं एव । अत्र दशतत्त्वादिन्यासेषु मन्त्रस्य द्विरावृत्तिविशेष इति लघुदीपिकाकारः । अथोऽनन्तरं मन्वोर्दशाक्षराष्टादशाक्षरयोर्या मुद्रा बन्ध्या बन्धनीयाः स्युर्भवेयुस्ता मुद्रा वक्ष्ये कथयामि ।। टीका २.५१ ।।

______________________________

हृदयाद्यङ्गन्यासमुद्राः प्रदर्शयतिअनङ्गुष्ठा इत्यादि ।

अनङ्गुष्ठा ऋजवो हस्तशाखा
भवेन्मुद्रा हृदये शीर्षके च ।
अधोऽङ्गुष्ठा खलु मुष्टिः शिखायां
करद्वन्द्वाङ्गुलयो वर्मणि स्युः ।। क्रमदीपिका२.५२ ।।

नाराचमुष्ट्युद्धतबाहुयुग्म
काङ्गुष्ठतर्जन्युदितो ध्वनिस्तु ।
विष्वग्विषक्तः कथितास्त्रमुद्रा
यत्राक्षिणी तर्जनीमध्यमे तु ।। क्रमदीपिका२.५३ ।।

अनङ्गुष्ठा अङ्गुष्ठरहिता ऋजवोऽवक्रा हस्तशाखा हस्ताङ्गुलयो हृदये मुद्रा भवेत् । शीर्षके च शिरसि ता एव मुद्रा ज्ञेयाः । खलु निश्चये । अधोऽङ्गुष्ठा मुष्टिः अधोऽङ्गुष्ठो यस्यां मुष्टौ एवं कृता मुष्टिः शिखायां मुद्रा भवेत् । वर्मणि कवचे करद्वन्द्वाङ्गुलयः स्युः मुद्रापदवाच्या भवन्ति । ध्वनिः शब्दोऽस्त्रमुद्रा कथिता । किम्भूतो ध्वनिः ? नाराचवद्बाणवद्मुष्ट्योद्धतो यो बाहुस्तस्य युग्मकं द्वयं तस्याङ्गुष्ठतर्जनीभ्यां करणाभ्यां उदितः । पुनः कीदृशः ? विष्वग्
दशदिक्षु विषक्तः विस्तीर्णः यत्र मन्त्रेऽक्षिणी भवतः नेत्राङ्गं अस्ति तत्र तर्जनीमध्यमे मिलिते मुद्रा ।। टीका २.५३ ।।

______________________________

वेणुमुद्रां आहओष्ठ इति ।

ओष्ठे वामकराङ्गुष्ठो लग्नस्तस्य कनिष्ठिका ।
दक्षिणाङ्गुष्ठसंयुक्ता तत्कनिष्ठा प्रसारिता ।। क्रमदीपिका२.५४ ।।
तर्जनीमध्यमानामाः किञ्चित्संकुच्य चालिताः ।
वेणुमुद्रेह कथिता सुगुप्ता प्रेयसी हरेः ।। क्रमदीपिका२.५५ ।।
वामहस्ताङ्गुष्ठोऽधरे लग्न इति सम्बन्धः कार्यः । तस्य वामहस्तस्य या कनिष्ठिका पञ्चमी अङ्गुली सा दक्षिणाङ्गुष्ठसंयुक्ता दक्षिणहस्ताङ्गुष्ठे सम्बद्धा कार्या । तत्कनिष्ठिका दक्षिणहस्त कनिष्ठिका प्रसारिता अकुटिला कार्या । उभयहस्ततर्जनीमध्यमानामिकाः किञ्चित्संकुच्य चालिताश्चालनीया । इत्थं इह शास्त्रे वेणुमुद्रा कथिता सुगुप्ता ग्रन्थान्तरेऽत्यन्तगुप्ता । यतो हरेः परमेश्वरस्य श्रीकृष्णस्य प्रेयसी वल्लभा ।। टीका २.५४५५ ।।
______________________________

नोच्यन्त इति ।

नोच्यन्तेऽत्र प्रसिद्धत्वान्मालाश्रीवत्सकौस्तुभाः ।
उच्यतेऽच्युतमुद्राणां मुद्रा बिल्वफलाकृतिः ।। क्रमदीपिका२.५६ ।।

मालाश्रीवत्सकौस्तुभमुद्राः प्रसिद्धत्वान्नोच्यन्ते मया ग्रन्थकर्त्राप्रसिद्धं इह प्रकाश्यत इति शेषः । अत एव गले वनमालाभिनयनं वनमालामुद्रा । उत्तानितवामतर्जनीकनिष्ठोपरि अधोमुखदक्षिणकरकनिष्ठिकातर्जनीके संयोज्य दक्षिणकराणामिकामध्यमाङ्गुलीद्वयं वामकराङ्गुष्ठोपरि कृत्वा वामकरमध्यमोपकनिष्ठिके दक्षिणहस्ताङ्गुष्ठस्याधः कुर्यादेषा श्रीवत्समुद्रा । वामकनिष्ठिकया दक्षिणकनिष्ठिकां निष्पीड्य वामानामिकया दक्षिणतर्जनीं निष्पीड्य शिष्टवामाङ्गुलीत्रयम्
उपरि कृत्वा वामतर्जनीसहितदक्षिणहस्ताङ्गुलित्रयमुखं एकत्र योजयेदेषा कौस्तुभमुद्रा ।। टीका २.५६ ।।

______________________________

बिल्वमुद्रां आहाङ्गुष्ठं इति ।

अङ्गुष्ठं वामं उद्दण्डितं इतरकराङ्गुष्टकेनाथ बद्ध्वा
तस्याग्रं पीडयित्वाङ्गुलिभिरपि तथा वामहस्ताङ्गुलिभिः ।
बद्ध्वा गाढं हृदि स्थापयतु विमलधीर्व्याहरन्मारबीजं
बिल्वाख्या मुद्रिकैषा स्फुटं इह कथिता गोपनीया विधिज्ञैः ।। क्रमदीपिका२.५७ ।।

वामाङ्गुष्ठं उद्दण्डितं दण्डाकारं ऊर्ध्वं कृत्वाधः कर्तव्यं तथानन्तरं इतरकराङ्गुष्टेन बद्ध्वा तस्य च पीठे दक्षिणकराङ्गुष्ठस्तिरङ्कार्य इत्यर्थः । तस्याग्रं दक्षिणकराङ्गुष्ठाग्रं अङ्गुलिभिः पीडयित्वा धृत्वा ता अपि दक्षिणकराङ्गुलयोऽपि वामहस्ताङ्गुलीभिर्गाढं यथा स्यादेवं बद्ध्वा विमलधीः शुद्धबुद्धिः हृदि हृदये स्थापयेत् । मारबीजं कामबीजं व्याहरनुच्चारयन् । इत्थं बिल्वाख्या एषा स्फुटं व्यक्तं यथा स्यादेवं इहशास्त्रे कथिता विधिज्ञैः प्रकारज्ञैर्गोपनीया ।। टीका २.५७ ।।

______________________________

एतस्याः फलं आहमन इति ।

मनोवाणीदेहैर्यदिह च पुरा वापि विहितं
त्वमत्या मत्या वा तदखिलं असौ दुष्कृतिचयं ।
इमां मुद्रां जानन्क्षपयति नरस्तं सुरगणा
नमन्त्यस्याधीना भवति सततं सर्वजनता ।। क्रमदीपिका२.५८ ।।

असौ नरो मनुष्यः इमां मुद्रां जानन्तदखिलं सम्पूर्णं दुष्कृतिचयं पापराशिं क्षपयति दूरीकरोति यन्मनसा वाचा देहेनामत्याज्ञानेन मत्या ज्ञानेन वा दिवारात्रिविहितं दिवसे रात्रौ वा कृतं । यदिह च पुरा वापि विहितं इति पाठे इह जन्मनि जन्मान्तरे वा विहितं इत्यर्थः । न केवलं पापं दूरीकरोति अपि तु सुरगणा देवा नमन्ति । तथास्य मुद्राकर्तुः सततं सर्वदा सर्वजनसमूहो वश्यो भवतीत्यर्थः ।। टीका २. ५८ ।।

सनातनः (हरिभक्तिविलासे ६.४२) ः असौ नर इमां बिल्वाख्यां मुद्रां जानन्तत्तद्दुष्कृतनिचयं पापसमूहं अखिलं निःशेषं क्षपयति विनाशयति । कं ? यं मनोवाक्कायैः इह अस्मिन्पुरा पूर्वजन्मनि च अमत्या अज्ञानेन मत्या वा ज्ञानेन विहितं । दिवारात्रिविहितं इति पाठे दिने रात्रौ च कृतं । यत्तदो नपुंसकत्वं महाकविस्वातन्त्र्यादव्ययत्वाद्वा । यद्वा, यत्यस्मात्क्षपयति तत्तस्मान्नमन्तीत्यन्वयः । मुद्रालक्षणानि च गुह्यत्वान्न लिखितानि । तथा चोक्तम्

गुरुं प्रकाशयेद्विद्वान्मन्त्रं नैव प्रकाशयेत् ।
अक्षमालां च मुद्रां च गुरोरपि न दर्शयेत् ।। इति ।

अत्र च तद्विज्ञानार्थं उद्दिश्यन्ते । तथा चागमे

सम्यक्सम्पुटितैः पुष्पैः कराभ्यां कल्पितोऽञ्जलिः ।
आवाहनी समाख्याता मुद्रा देशिकसत्तमैः ।।
अधोमुखीकृतैः सर्वैः स्थापनीति निगद्यते ।
आश्लिष्टमुष्टियुगला प्रोन्नताङ्गुष्ठयुग्मका ।
सन्निधाने समुद्दिष्टा मुद्रेयं तन्त्रवेदिभिः ।
अङ्गुष्ठगर्भिणी सैव संनिरोधे समीरिता ।।
अङ्गैरेवाङ्गविन्यासः सकलीकरणी मता ।
सव्यहस्तकृता मुष्टिर्दीर्घाधोमुखतर्जनी ।।
अवगुण्ठनमुद्रेयं अभितोभ्रामिता यदि ।
अन्योन्याभिमुखाः सर्वाः कनिष्ठानामिकाः पुनः ।।
तथा तर्जनीमध्याश्च धेनुमुद्रा प्रकीर्तिता ।
अन्योन्यग्रथिताङ्गुष्ठा प्रसारितकराङ्गुलिः ।
महामुद्रेयं उदिता परमीकरणे बुधैः ।।
वामाङ्गुष्ठं विधृत्यैवं मुष्टिना दक्षिणेन तु ।
तन्मुष्टैः पृष्ठतो देशे योजयेच्चतुरङ्गुलीः ।।
कथिता शङ्खमुद्रेयं वैष्णवार्चनकर्मणि ।
अन्योन्याभिमुखाङ्गुष्ठकनिष्ठयुगले यदि ।।
विस्तृताश्चेतराङ्गुल्यस्तदासौ दर्शिनी मता ।
अन्योन्यग्रथिताङ्गुल्य उन्नतौ मध्यमौ यदि ।
संलग्नौ च तदा मुद्रा गदेयं परिकीर्तिता ।।
पद्माकारावाभिमुख्येन पाणी
मध्य्ऽङ्गुष्ठौ शायितौ कर्णिकावत् ।
पद्माख्येयं सौव संलग्नमध्या
स्पृष्टाङ्गुष्ठा बिल्वसंज्ञैव मुद्रा ।।
अग्रे तु वाममुष्टेश्च इतरा तु यदा मता ।
तदेयं कृतिभिर्मुद्रा ज्ञेया मुषलसंज्ञिता ।।
वामस्थतर्जनीप्रान्तं मध्यमान्ते नियोजयेत् ।
प्रसार्य तु करं वामं दक्षिणं करं एव च ।।
नियोज्य दक्षिणस्कन्धे बाणप्रेरणवत्ततः ।
तर्जन्यङ्गुष्ठकाभ्यां च कुर्यादेषा प्रकीर्तिता ।।
शार्ङ्गमुद्रेति मुनिभिर्दर्शयेत्कृष्णपूजने ।
कनिष्ठानामिके द्वे तु दक्षाङ्गुष्ठनिपीडिते ।
शेषे प्रसारिते कृत्वा खड्गमुद्रा प्रकीर्तिता ।।
पाशाकारां नियोज्यैव वामाङ्गुष्ठाङ्गतर्जनीं ।
दक्षिणे मुष्टिं आदाय तर्जनीं च प्रसारयेत् ।।
तेनैव संस्पृशेन्मन्त्री वामाङ्गुष्ठस्य मूलकं ।
पाशमुद्रेयं उद्दिष्टा केशवार्चनकर्मणि ।।
तर्जनीं ईषदाकुञ्च्य शेषेणापि निपीडयेत् ।
अङ्कुशं दर्शयेत्तद्वद्गृहीत्वा दक्षमुष्टिना ।।
अन्योन्यपृष्ठे संयोज्य कनिष्ठे च परम्परं ।
तर्जन्यग्रं समं कृत्वा कनिष्ठाग्रं तथैव च ।।
ईषदालम्बितं कृत्वा इतरौ पक्षवत्ततः ।
प्रसार्य गारुडी मुद्रा कृष्णपूजाविधौ स्मृता ।।
अन्योन्यसम्मुखे तत्र कनिष्ठातर्जनीयुगे ।
मध्यमानामिके तद्वदङ्गुष्ठेन निपीडयेत् ।।
दर्शयेद्धृदये मुद्रां यत्नाच्छ्रीवत्ससंज्ञितां ।
अन्योन्याभिमुखे तद्वत्कनिष्ठे संनियोजयेत् ।
तर्जन्यनामिके तद्वत्करौ त्वन्योन्यपृष्ठगौ ।।
उत्सिक्तान्योन्यसंलग्नौ वक्षःस्थितकराङ्गुलीः ।
विधाय मध्यदेशे तु वाममध्यमतर्जनी ।
संयोज्य मणिबन्धे तु दक्षिणे योजयेत्ततः ।।
वामाङ्गुष्ठे तु मुद्रेयं प्रसिद्धा कौस्तुभाह्वया ।
क्वचिच्च
अनामा पृष्ठसंलग्ना दक्षिणस्य कनिष्ठिका ।
कनिष्ठ्यान्यया बद्धा तर्जन्या दक्षया तथा ।।
वामानां च बध्नीयाद्दक्षाङ्गुष्ठस्य मूलके ।
अङ्गुष्ठमध्यमे वामे संयोज्य सरलाः पराः ।।
चतस्रोऽन्योन्यसंलग्ना मुद्रा कौस्तुभसंज्ञिता ।।
ओष्ठे वामकराङ्गुष्ठो लग्नस्तस्य कनिष्ठका ।
दक्षिणाङ्गुष्ठसंयुक्ता तत्कनिष्ठा प्रसारिता ।
तर्जनीमध्यमानामाः किंचित्सङ्कुच्य चालिताः ।।
वेणुमुद्रेयं उद्दिष्टा सुगुप्ता प्रेयसी हरेः ।
अङ्गं प्रसारितं कृत्वा स्पृष्टशाखं वरानने ।
प्राङ्मुखं तु ततः कृत्वा अभयं परिकीर्तितं ।।
दक्षं भुजं प्रसारित्वा जानूपरि निवेशयेत् ।
प्रसृतं दर्शयेद्देवि वरः सर्वार्थसाधकः ।।
उत्तानतर्जनीभ्यां तु ऊर्ध्वाधः प्रक्रमेण तु ।
मालावत्क्रमविस्तारा वनमाला प्रकीर्तिता ।।

क्रमदीपिकायां (२.५७)
अङ्गुष्ठं वामं उद्दण्डितं इतरकराङ्गुष्टकेनाथ वध्वा
तसाग्रं पीडयित्वाङ्गुलिभिरपि तथा वामहस्ताङ्गुलिभिः ।
बद्ध्वा गाढं हृदि स्थापयतु विमलधीर्व्याहरन्मारबीजं
बिल्वाख्या मुद्रिकैषा स्फुटं इह कथिता गोपनीया विधिज्ञैः ।।

अगस्त्यसंहितायां च
आवाहिनीं स्थापनीं सन्निधीकरणीं तथा ।
सुसंनिरोधिनीं मुद्रां सम्मुखीकरणीं तथा ।।
सकलीकरणीं चैव महामुद्रान्तथैव च ।
शङ्खचक्रगदापद्मधेनुकोस्तु भगारुडाः ।।
श्रीवत्सं वनमालां च योनिमुद्रां च दर्शयेत् ।।
मूलाधाराद्द्वादशान्तं आनीतः कुसुमाञ्जलिः ।
त्रिस्थानगततेजोभिर्विनीतः प्रतिमादिषु ।।
आवाहनीया मुद्रा स्यादेषार्चनविधौ मुने ।
एषैवाधोमुखी मुद्रा स्थापने शय्यते पुनः ।।
उन्नताङ्गुष्ठयोगेन मुष्टीकृतकरद्वयं ।
सन्निधीकरणं नाम मुद्रा देवार्चने विधौ ।।
अङ्गुष्ठगर्भिणी सैव मुद्रा स्यात्संनिरोधिनी ।
उत्तानमुष्टियुगला सम्मुखीकरणी मता ।।
अङ्गैरेवाङ्गविन्यासः सकलीकरणी तथा ।
अन्योन्याङ्गुष्टसंलग्ना विस्तारितकरद्वयी ।।
महामुद्रेयं आख्याता न्यूनाधिकसमापनी ।
कनिष्ठानामिकामध्यान्तःस्थाङ्गुष्ठान्तरेऽग्रतः ।।
गोपिताङ्गुलिमध्ये समन्तान्मुकुलीकृता ।
करद्वयेन मुद्रा स्याच्छङ्काख्येयं सुरार्चने ।।
अन्योन्याभिमुखस्पर्शव्यत्ययेन तु वेष्टयेत् ।
अङ्गुलीभिः प्रयत्नेन मण्डलीकरणं मुने ।।
चक्रमुद्रेयं आख्याता गदामुद्रा ततः परं ।
अन्योन्याभिमुखाश्लिष्टाङ्गुलिः प्रोन्नतमध्यमा ।।
अथाङ्गुष्ठद्वयं मध्ये दत्त्वापि परितः करौ ।
मण्डलीकरणं सम्यगङ्गुलीनां तपोधन ।।
पद्ममुद्रा भवेदेषा धेनुमुद्रा ततः परं ।
अनामिकाकनिष्ठाभ्यां तर्जनीभ्यां च मध्यमे ।
अन्योन्याभिमुखाश्लिष्टे ततः कौस्तुभसंज्ञितः ।।
कनिष्ठान्योन्यसंलग्नेऽभिमुखेऽपि परस्परं ।
वामस्य तर्जनीमध्ये मध्यानामिकयोरपि ।।
वामानामिकसंस्पृष्टा तर्जनीमध्यशोभिता ।
पर्यायेण नताङ्गुष्ठद्वयी कौस्तुभलक्षणा ।।
कनिष्ठान्योन्यसंलग्ना विपरीतं वियोजिता ।
अधस्तात्स्थापिताङ्गुष्ठा मुद्रा गरुडसंज्ञिता ।।
तर्जन्यङ्गुष्ठमध्यस्था मध्य्मानामिकाद्वयी ।
कनिष्ठानामिकामध्या तर्जन्यग्रे करद्वयी ।।
मुने श्रीवत्समुद्रेयं वनमाला भवेत्ततः ।
कनिष्ठानामिकामध्या मुष्टिरुन्नीततर्जनी ।।
परिभ्रान्ता शिरस्युच्चैस्तर्जनीभ्यां दिवौकसः ।
मुद्रा योनिः समाख्याता सङ्कोचितकरद्वयी ।।
तर्जन्यङ्गुष्ठमध्यान्तःस्थितानामिकयुग्मका ।
मध्यमूलस्थिताङ्गुष्ठा ज्ञेया शस्तार्चने मुने ।। इति ।


______________________________

अस्त्रमन्त्रं आहप्रणवेति ।

प्रणवहृदोरवसाने सचतुर्थि
सुदर्शनं तथास्त्रपदं च ।
उक्त्वा फडन्तं अमुना कलयेन्
मनुनास्त्रमुद्रया दशहरितः ।। क्रमदीपिका२.५९ ।।

प्रणव ओंकारः । हृत्नमः । एतयोरवसानेऽन्ते सचतुर्थिसुदर्शनं चतुर्थीविभक्तिसहितं सुदर्शनं इति पदं एतस्यान्ते तथास्त्रपदं चतुर्थ्यन्तं अस्त्रपदं । पुनः कीदृक्? फडन्तं फट्शब्दान्तं उक्त्वा अमुना मनुना अनेन मन्त्रेण अस्त्रमुद्रया दशहरितः कल्पयेत्दशदिग्बन्धनं कुर्यादित्यर्थः ।। टीका २.५९ ।।

______________________________

प्राक्कृतं न्यासजातं उपसंहरनग्निं अपटले वक्ष्यमाणं ध्यानं सूचयतिइतीति ।

इति विधाय समस्तविधिं जगज्
जनिविनाशविधानविशारदं ।
श्रुतिविमृग्यं अजं मनुविग्रहं
स्मरतु गोपवधूजनवल्लभं ।। क्रमदीपिका२.६० ।।

इत्यनेन प्रकारेण समस्तविधिं पूर्वोक्तं अखिलन्यासादिकं विधाय निर्वर्त्य गोपवधूजनवल्लभं कृष्णं स्मरतु चिन्तयतु । कीदृशं कृष्णं ? जगदुत्पत्तिस्थिति विनाशकरणदक्षं । पुनः कीदृशं ? श्रुतिविमृग्यं उपनिषद्गम्यं । पुनः कीदृशं ? अजं उत्पत्तिरहितं । पुनः कीदृशं ? मनुविग्रहं मनुशरीरं इत्यर्थः ।। टीका २.६० ।।

इति श्रीकेशवाचार्यविरचितायां क्रमदीपिकायां द्वितीयः पटलः ।