सामग्री पर जाएँ

प्रकाशसंहिता/द्वितीयपरिच्छेदः/अध्यायः ४

विकिस्रोतः तः
← द्वितीयपरिच्छेदः, अध्यायः ३ प्रकाशसंहिता
अध्यायः ४
[[लेखकः :|]]
द्वितीयपरिच्छेदः, अध्यायः ५ →

श्रीहंस उवाच

साङ्गज्ञानात्मकतनुमनन्तगुणपूरितं ।
साङ्गासद्भीषयन्त्वीशं वेद्यैः शास्त्रैर्निरूपितं ।। ४.१ ।।

अनन्तनामरूपाढ्यं स्व स्व योग्यफलप्रदं ।
विचारितमुपास्यं च रमा ब्रह्मादिभिः सदा ।। ४.२ ।।

स्वभिन्नस्वावरानन्तमुक्तामुक्ताणुजीवकैः ।
सेवितं श्रीपतिं व्याप्तं चेतनाचेतनस्य तु ।। ४.३ ।।

सत्यस्य सृष्टिकर्तारं हरिं दुःखादि भोगिनं ।
जानन्ति तस्य चाज्ञानं क्वचित्क्वापि न युज्यते ।। ४.४ ।।

मिथ्याभूताज्ञानमस्तीत्यत्र मानं न विद्यते ।
अज्ञाना भवितास्तष्ठोपाधिर्निवह युज्यते ।। ४.५ ।।

सिद्धौ ज्ञाने तु तज्जोपाधिः सिद्धै तदन्वये ।
सर्वस्याज्ञानयोगस्तदभावात्तदेवन ।। ४.६ ।।

अज्ञानाभावतोज्ञासी अधिकाधि न विद्यते ।
अज्ञानाभावतस्तन्निवृत्तिरूपं न हि क्वचिथ् ।। ४.७ ।।

अज्ञानकल्पितं शास्त्रं नैवाज्ञाननिकृन्तनं ।
इति हेयं तन्मतं हि बद्धस्येशो विमुक्तिदः ।। ४.८ ।।

विश्वं सत्यं नैव मिथ्या न बाध्यं सत्यकारणं ।
प्रत्यक्षादिप्रमाण्यैस्तु सिद्धं नारोपितं जगथ् ।। ४.९ ।।

नार्थक्रियाकारि शुक्तौ प्रतीतं रजतं जगत् ।
अर्थक्रियाकारि तेन तद्दृष्टान्तो न युज्यते ।। ४.१० ।।

दृष्टान्तरहितो यत्तु जगन्मिथ्यात्वकारणं ।
न भवेत्तन्मते ब्रह्म दृश्यत्वाच्च तथा भवेथ् ।। ४.११ ।।

मिताकाशादि वेदोक्तं विष्णुनेति नतन्मृषा ।
न च न्यायोक्तमिथ्यात्वे मानं तन्मतापि न ।। ४.१२ ।।

श्रुतिर्नित्यापौरुषेया दुर्वाक्यैर्न च दूष्यते ।
इति ज्ञात्वा विधिर्विष्णोर्माहात्म्यं ज्ञानबोधयथ् ।। ४.१३ ।।

सत्याशेषजगन्नाथः सत्यसत्साधनेन च ।
सत्यैर्जीवैःसदोपास्यः सत्यसत्यविमुक्तिदः ।। ४.१४ ।।

इति मेरुस्थितो ब्रह्मा निशान्ते यज्ञमीश्वरं ।
अभिषिच्य सपत्नीकं सर्गे सम्पार्थ्य योजयथ् ।। ४.१५ ।।

अपीपलधरिः स्वर्गं सर्वदेवगणेडितः ।
ततः स्वायंभुवमनुं शतरूपा समन्वितं ।। ४.१६ ।।

अभिषिच्य विधिर्भूमौ बर्हिष्मत्यामवासयत् ।
भावीनश्च पदस्थाश्च उपदेवाः सहस्रशः ।। ४.१७ ।।

मनुं पर्यचरन्प्रीत्या ते निरंशास्ततो भवन् ।
विधिस्ततो मय(सू)सुतमन(त)वेधाद्वलाह्वयं ।। ४.१८ ।।

स तु षण्णवती (प्रा)मायाः स्वविजृम्भणतोसृजत् ।
स्वैरिण्यश्चैव कामिन्यः पुंश्चल्य इति त्रिधा ।। ४.१९ ।।

तज्जाताभिसमुद्भूताः भोगिन्यो बहुशो मताः ।
कृत्वाकाम्यं भारतेस्मिन्मर्त्याधम पुरोगमाः ।। ४.२० ।।

अधो लोकेषु विहरः एताभिः सह दुर्मदाः ।
अनेकाः दानवोपेताः बलस्तदधिनायकः ।। ४.२१ ।।

तदधस्ताच्च वितले त्रिवृद्भूतगणावृतः ।
कैश्चिद्रक्षौ (गु)गणैर्युक्ताः भ(वा)वन्त्यास्ते भवः किल ।। ४.२२ ।।

तया सदा रमति सः तद्वीर्याधाटकादिभिः ।
ः नदी तदन्तगा तत्र शुष्मत्यप्यग्निवायुभिः ।। ४.२३ ।।

यन्नदीवारिपानेन अधोलोकेषु संस्थिताः ।
मदोद्धता नरानार्यः क्रीडन्ति सुचिरं सदा ।। ४.२४ ।।

तदधस्ताच्च सुतले प्रतिमन्वन्तरेष्वपि ।
नामरूपविभेदेन प्रह्लादः सानुगोऽवसथ् ।। ४.२५ ।।

वैवस्वतान्तरे विष्णोर्वामनाय पदत्रयं ।
याचमानाय पुत्राय कश्यपस्य महात्मनः ।। ४.२६ ।।

बलिर्विरोचनसुतो ददौ लोकत्रयं विभुः ।
सोपीन्द्राय पदस्थाय तस्मादादाय दत्तवान् ।। ४.२७ ।।

लोकत्रयं हि देवानामनुजो वटुरूपदृक् ।
पयोव्रतप्रभावेन्यैवाविर्भूतः स कश्यपाथ् ।। ४.२८ ।।

इन्द्र प्रवासतः खिन्नमातृतुष्ट्यै जगत्पतिः ।
बलिं विरोचनसुतं महाभागवतोत्तमं ।। ४.२९ ।।

स्थापयामास तल्लोके स्वयं तद्वारपालकः ।
बभूव वामनः सर्वे स्वरूपामरसेवितः ।। ४.३० ।।

तस्य त्रिकोटिलोमभ्यो वायुस्तावत्स्वरूपकः ।
वाण्या तावद्रूपवत्या वामनस्यार्चको(का) भवथ् ।। ४.३१ ।।

विन्ध्यावली पतिस्तत्र बलिस्तिष्ठति सानुगः ।
तदधस्त(त्प्रि)न्मयो विष्णुः भक्तोप्यखिलदानवैः ।। ४.३२ ।।

अर्थितो दानवकुले जातस्तक्षा भवत्पुरा ।।
तल्लोकपः सदैत्यानां त्रिपुराणि व्यचीक्लपथ् ।। ४.३३ ।।

अभेदाभेद्यरूपाणि स्वर्णरौप्यायसानि च ।
स निर्ममे पुरास्तिस्रः स्वर्णरौप्यायसीमयः ।। ४.३४ ।।

कामया तेषु तेष्वेते संस्थिता त्रिपुरौकसः ।
विहारान्तरे ह्यस्मिन्सर्वान्जन्तूनपीडयन् ।। ४.३५ ।।

सुरास्तत्पीडया रुद्रशरणं ययुरूर्जिताः ।
रुद्रः पृथ्वीरथं कृत्वा रथाङ्गं शशिभस्करौ ।। ४.३६ ।।

देवान्कृत्वा हयानब्जभवं कृत्वैव सारथिं ।
शेषं मौर्व्यां विधायेशो पतत्रं(तं) च खगेश्वरं ।। ४.३७ ।।

कृत्वा विष्णुं बाणरूपं स्वयमेकक्षणे हरः ।
त्रिपुराणि ददाहेशः सर्वलोकस्य शङ्करः ।। ४.३८ ।।

त्रिपुरासुरपुत्राद्यैः सहा वसति तत्र हि ।
वैवस्वतेन्तरे दक्षपत्न्याः कश्यपभार्यकाः ।। ४.३९ ।।

त्रयोदशासं(शाः)स्तपसा तासु पुत्रानवाप सः ।
विवस्वान्शक्रवरुणमित्राः पूषार्यमाभगः ।। ४.४० ।।

सविता त्वष्ट्रृपर्जन्यो धातायां वामनो वटुः ।
अदितेस्तनयादित्यां हिरण्याक्षहिरण्यकौ ।। ४.४१ ।।

दनौ तु दानवा गावो महिष्यः सुरभीसुताः ।
तान्माया पक्षिणोरिष्टा यातुधानाश्च निरृतिः ।। ४.४२ ।।

इलायां भूसुरा आसन्श्वादयः परमासुताः ।
पोष्टाया चैव बेतालाः कार्द्रवेया महाहयः ।। ४.४३ ।।

एतन्मन्वन्तरे षष्ठिसहस्राणि भुजङ्गमाः ।
कर्द्रुजास्तेषु केचित्तु तात्विकाः शेषसेवकाः ।। ४.४४ ।।

अपरे कर्मजाजान स्तुल्यास्तत्पुत्रपौत्रकाः ।
सस्त्रीका मणिभूधन्याः महातल निवासिनः ।। ४.४५ ।।

महाविषाः महाघो(धा)राः कामरूपधराः खलाः ।
सरस्वत्यां सपत्नीकः कश्यपस्तप आचरथ् ।। ४.४६ ।।

तस्या विदूरे पत्नीनां भवनानि व्यचीक्ळ्पत् ।
उपयुक्तनतद्युक्तं तद्भृत्यास्तेषु चावसन् ।। ४.४७ ।।

कदाचिद्महिमवत्पार्श्वं वियाहि(विपाहि)पति मातरौ ।
गत्वा दृष्ट्वोच्चैश्रवसं नीलवालमहीप्रसूः ।। ४.४८ ।।

प्राहस्वच्छन्द विनताकद्रुते वचनं यदि ।
सत्यं दासी तवाहंस्यामन्यथात्वं ममेति च ।। ४.४९ ।।

अद्या सरात्रिश्च प्रातरिति ते गृहमीयतुः ।
तद्बालनैल्यवर्ण्ये तु सुतानाह च साधवः ।। ४.५० ।।

नैश्चन्तानलपद्वैह्वौ कालान्ना शोभवेत्तव ।
क्रूराहयास्तथाकृत्वा ता चक्रुर्मातृ किं करीं ।। ४.५१ ।।

शप्ताहयः शेषवाक्यात्स्वरुच्या(त्स्वस्त्र्याक्ष)क्षममात्मनः ।
ज्ञात्वा ददुर्जरत्कारोः सनाम्नीं भगिनीं मुनेः ।। ४.५२ ।।

स विरक्तोपि सन्तप्तैः निराश्यैर्नरकास्थितैः ।
पितृभिः प्रार्थितो गृह्णंस्तद्गर्भे त्वास्तिकं व्यधाथ् ।। ४.५३ ।।

तां त्यक्तुमूरौ सुष्टाप सा सन्ध्यार्थेव्यबोधयत् ।
निद्राभङ्गकरा गच्छेत्याहु तत्याज तां मुनिः ।। ४.५४ ।।

साग्रजं प्राप्य सुषुवे शिखायज्ञोपवीतिनं ।
स आपदि स्मृतो यामीत्युक्तोगान्मातुलं प्रति ।। ४.५५ ।।

नैमिशं वासुकिः प्राप्य सुधाममृतमन्थने(ते) ।
शप्ता हीना तात्विकानो तेनात्यन्विप संमताः ।। ४.५६ ।।

तक्षकः शृङ्गिशापेन व्यदशच्च परीक्षितं ।
शशास पृथिवीं तस्य सुतः स जनमेजयः ।। ४.५७ ।।

तदोदङ्को गालवस्य शिष्यः सेवा सुखात्मनः ।
दक्षिणामपि दास्यामीत्युक्तः स कुपितोऽदिशथ् ।। ४.५८ ।।

असाध्य पौष्यभार्यायाः राज्ञा देहि सुकुण्डले ।
इत्युक्तोगात्पुरं तस्य मार्गे गोमयभक्षणं ।। ४.५९ ।।

कृत्वानाचाम्य राजानं दृष्ट्वा याचत्स्व भामिनीं ।
याचयेत्याह तां गेहे हेनायस्य शप्तुमारभथ् ।। ४.६० ।।

नृपं न शप मां ब्रह्मन्शुद्धः पश्यसि भामिनीं ।
तत आचम्य गत्वा तां दृष्ट्वा तां प्राप सङ्कुण्डले ।। ४.६१ ।।

साह पूर्वे तक्षकायेमादामाया च तेपि च ।
पतिव्रतानसंदृश्या(धृष्या)हन्तु(न्तुं)शक्रोहमादृ(गमद्रृ)तं ।। ४.६२ ।।

यतो भवेति तं प्राहगुरुभक्तं न मा स्पृशेत् ।
इत्युक्तौ याचितः पौष्याद्भुञ्जन्श्राद्धान्नगं कचं ।। ४.६३ ।।

दृष्ट्वा शत्भवान्ध(शपद्भान्ध)वस्त्वं इति सोप्यशपन्मुनिं ।
अपत्नी कोसीति राज्ये लोकस्यान्धोपि पश्यसि ।। ४.६४ ।।

इति दत्वा वरं विप्रो ययौ मार्गेथ तक्षकः ।
शिष्यो भूत्वा ग्रन्थिवाहः सोविशच्च रसातलं ।। ४.६५ ।।

मुनिश्च योगसामर्थ्यात्तत्रागान्नागमायया ।
अधोस्तुवधि(वेश्चि)वन्तस्य गोमूत्रं नेत्रयोर्व्यधाथ् ।। ४.६६ ।।

ततो पश्यन्नागराजो भियादात्कुण्डलद्वयं ।
तदादाय गुरोर्दत्वा क्रुद्धोगाज्जनमेजयं ।। ४.६७ ।।

तं प्राहत्वं वृथाजातो पितृमृत्युं न चावधीः ।
अहं मन्त्रप्रवक्तास्मि सम्भारान्छटयाश्चलं ।। ४.६८ ।।

विना शेषं सर्वलोकान्निर्भुजङ्गान्करोम्यहं ।
इत्युक्त्वा सर्पयागेन भुजङ्गान्शतकोटिशः ।। ४.६९ ।।

व्यहनच्छक्रमगमंस्तक्षकाद्या नचापतन् ।
ततो ऋषिः सहेन्द्रोत्र तक्षकः पततामिति ।। ४.७० ।।

तक्षकायसहेन्द्राय स्वाहेत्यजुहदाहुतिं ।
तदाकम्पत्स्वराण्णागाः अस्मरन्नास्तिकं मुनिं ।। ४.७१ ।।

सोभीत्या पूजितो राज्ञा ह्युदकेनापि चास्तिकः ।
स्वाभिप्रेतं तदोदकमाया च जनमेजयं ।। ४.७२ ।।

दास्येर्थितमिति प्रोक्ते देहि मातुलजीवनं ।
इति तक्षकपूर्वान्सः कालमृत्योर्व्यमूमुचथ् ।। ४.७३ ।।

साचोदकं समाधा(ध्या)य तक्षकादीन्वधोर्व्यधात् ।
यज्ञप्राप्य फलं राज्ञे दत्वा सर्पानथाशपथ् ।। ४.७४ ।।

अनागसं मादशध्वं नागसंस्मरणान्मम ।
अन्यथा वः शिरः शीर्णं भवेदिति ययौ मुनिः ।। ४.७५ ।।

विनता सेवयाखिन्ना गर्भं गर्भिण्यताडयत् ।
उरुपृष्ठेपुराजातानूरुपादविवर्जितान् ।। ४.७६ ।।

स्वाशक्तिं कालतो दास्य प्राज्ञांरभगर्भविपं ।
प्रोक्त्वा मातुर्ययौ यान्ता सूर्यस्यासरथस्थितः ।। ४.७७ ।।

सौदामिन्यां सुतौ तस्य द्वौ सम्पातिजटायुषौ ।
कालेन गरुडो जातो विष्णोर्वाहो बभूव ह ।। ४.७८ ।।

पितुर्वाक्याद्बलप्राप्त्यै बभक्ष गजकच्छपौ ।
गन्धमादनगो पूर्वं गन्धर्वौ शापसम्भवौ ।। ४.७९ ।।

कद्रूतमाहात्मसुतान्प्रति पीयूषदोसिचेत् ।
दास्यान्मोक्षे मातरं च इत्येपास्तु न चाधिकं ।। ४.८० ।।

इत्युक्तोऽमृतमादाय प्रादात्तर्गाद्व्यमोचयत् ।
दास्यात्स्वमातरं स्वर्गगतवच्चं सुरेश्वराः ।। ४.८१ ।।

प्राक्षिपतृणवतं च विधूय च सुधां पुनः ।
शक्रोयदाप च स्वर्गं(शक्रायदादापसख्य) तस्य कर्द्रुमथावदथ् ।। ४.८२ ।।

कुतोमृतं हृतमिति पृष्टे हि विनतासुतः ।
माता त्वया वञ्चिता मे मया त्वं तेन वञ्चितः ।। ४.८३ ।।

देहीत्युक्ता सुधां पाययेति नोक्तमतो(हृ)धृतं ।
तदादि गरुडः सर्पान्वञ्चकान्हन्तुमारभथ् ।। ४.८४ ।।

कर्दुर्हिस्वोत्तमाद्रोहात्पुत्रशोकातुराभवत् ।
वञ्चकास्ते पतन्यज्ञे तदन्ये गरुडाशिनः ।। ४.८५ ।।

तदुत्थितास्तस्य करं दत्वा जीवन्ति कृत्स्नशः ।
कोवा निरागसानुसर्धूगृध्यजीवितुमुत्सहे ।। ४.८६ ।।

इहामुत्रापि दुःखं ते योग्या अपि भवन्ति हि ।
किमयोग्या राक्षसास्तु विशन्ति तम ऊर्जितं ।। ४.८७ ।।

एवं शेषस्य सामीप्यसेवायामृतपानतः ।
सख्यात्गरुत्मतः श्रीशभक्तितो गुरुभक्तितः ।। ४.८८ ।।

निष्कापट्यादास्तिकस्य वरतः शक्रदासतः ।
मातुः शापं तृणीकृत्य सुखमापुः स पन्नगाः ।। ४.८९ ।।

किमलभ्यं जगत्यस्ति विष्णुवैष्णवसेवया ।
महातले तु(कु) सर्पाणां स्थानं विपति बिभ्रतं ।। ४.९० ।।

शिवस्य वरतोन्येषु चरन्तो यान्ति दुर्(गर्)मतिः ।। ४.९१ ।।

इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे चतुर्थोऽध्यायः