प्रकाशसंहिता/द्वितीयपरिच्छेदः/अध्यायः ३

विकिस्रोतः तः
← द्वितीयपरिच्छेदः, अध्यायः २ प्रकाशसंहिता
अध्यायः ३
[[लेखकः :|]]
द्वितीयपरिच्छेदः, अध्यायः ४ →

हरिः ओं

तदा मेरौ तु सुज्येष्ठः कामधुक्कल्पवृक्षकौ ।
चिन्तामणिं रूपभेदैः स्वर्गोपस्वर्गगान्व्यधाथ् ।। ३.१ ।।

तदाविधिः सर्वजीवबिम्बरूपाण्यचिन्तयत् ।
स्वयं तथा तथाभूत्वा सृजत्ता(वछ)दृक्शरीरिणः ।। ३.२ ।।

स्वर्गस्थानां पदस्थानां सर्वमन्वन्तरेष्वपि ।
भूमौ हर्यावतारे तु तदाज्ञामकरोद्विधिः ।। ३.३ ।।

दुष्प्रारब्धस्य भोगायागामि सत्साधनाय च ।
सुराणां हरिसेवार्थं अवताराण्यनुक्रमाथ् ।। ३.४ ।।

पुनस्तत्तन्मूलरूपैरेकीभावं स सर्वदा ।
भुवं स्पृशन्त्विति तथा ते च कुर्वन्त्यजाज्ञया ।। ३.५ ।।

एधमानद्विडेषां हि सर्वदा भारतास्थितिं ।
नाज्ञापयधरिस्तेन तथा चक्रे सतां(तान्) विधिः ।। ३.६ ।।

ततो धातात्मदेहस्थतत्वान्युच्चावचानि च ।
संसृष्टानि तदीशांश्च मेरुस्थः सव्यचिन्तयथ् ।। ३.७ ।।

देहमध्येत्वधोनाभेर्मूलाधारं स पुष्करं ।
चतुर्दलं(शं) स्वर्णनिभं मायाद्यादलदेवताः ।। ३.८ ।।

अनिरुद्धमुदानं च सुषुम्ना (दि)हि त्रिकाश्रयं ।
तन्मध्यसम्भवा नाडी सुषुम्ना सूक्ष्मरूपिणी ।। ३.९ ।।

एका शाखादिरहिता स्वर्णवर्णा पराश्रया ।
भूम्या स्वायम्भवेनापि रक्षितेब्जे समुत्थिता ।। ३.१० ।।

च्छिद्रान्विता च सा सप्तप्राणादि मरुदाश्रया ।
मध्ये ज्वलन्ती तत्पार्श्वजातयोः पिङ्गलेल(ड)योः ।। ३.११ ।।

मूर्धां ता नाभिकञ्जादि षट्पद्मानां समाश्रया ।
षट्दलं नाभिकमलं नीलाद्यास्तद्दलाधिपाः ।। ३.१२ ।।

इषन्नीलोपेतभागे गोरिकारक्तिमान्विते ।
स्थितं प्रद्युम्ननामानं नागाख्यप्राणसेवितं ।। ३.र्१३ ।।

मरुतः प्रवहादींश्च सप्ततद्गान्व्यचिन्तयेत् ।
ते द्वे ऊर्ध्वमुखे हृद्गकञ्जमाहरधोमुखं ।। ३.१४ ।।

नाभे द्व्यष्टाङ्गुलोर्ध्वस्थ सुषुम्नाष्टदिगुत्थितैः ।
दलैरधोमुखैरुद्यद्भानुवर्णैस्थाष्टभिः ।। ३.१५ ।।

दशाङ्गुलिमितान्तर्(ग)द्गर्(भा)भावकोशावहैः शुभैः ।
परस्परं दृढाश्लिष्टसंयुक्ताग्राङ्गुलं भवेथ् ।। ३.१६ ।।

हृत्कजं तत्रगीर्देवी भारत्या सहमानिनी ।
प्राणाः कूर्मात्मकस्तत्र वसवो दलदेवताः ।। ३.१७ ।।

स्थानेशो हि तदन्तस्थो दशाङ्गुलमितो हरिः ।
तदीय हृदयाकाशमण्टपं श्रीस्वरूपकं ।। ३.१८ ।।

दुर्गाभूश्रीभागभेदैर्भागत्रयसमन्विता ।
दुर्गाकन्दात्मिका चैव भूर्मध्ये नालरूपिणी ।। ३.१९ ।।

तदूर्ध्वगे तु श्रीभागे रमाकञ्जस्वरूपिणी ।
वेदिका तु त्रिभागस्था सार्धाङ्गुलि दृढा मता ।। ३.२० ।।

तन्मण्टपं मणिमयं चतुर्द्वारं शुभास्पदं ।
सुगन्धैर्मणिदीपैश्च रम्भास्तम्भैर्मनोरमं ।। ३.२१ ।।

तोरणैः पूर्णकुम्भैश्च पताकछत्रमण्डितं ।
मणिस्तम्भैमौक्तहारैः नाना श्वेताङ्कुरैरपि ।। ३.२२ ।।

श्रीभागं कञ्जसंमानः मूलेशाख्यो हरिस्वयं ।
कञ्जोपरीन्दुसूर्याग्निमण्डलान्युपरिस्फुटं ।। ३.२३ ।।

रम्यैव दिव्यशय्याभूत्कमनीयोपबर्हणा ।
तस्मिन्स्वरूपशेषाभ हरिरूर्ध्वफणोन्नतः ।। ३.२४ ।।

तस्योपरि रमाचित्रासनरूपा तदूर्ध्वगा ।
प्राज्ञात्मा स तु जीवेशो जीवोयद्वशगः सदा ।। ३.२५ ।।

चक्रशङ्खगदापद्महस्तः स तु चतुर्भुजः ।
किरीटकुण्डललसन्नूपुराङ्गदभूषणः ।। ३.२६ ।।

हारश्रीवत्सकण्ठस्थ कौस्तुभादैरलङ्कृतः ।
रत्नाङ्गुलीयकटककटिसूत्रादि सत्कृतः ।। ३.२७ ।।

पिताम्बरोति सर्वाङ्गसौन्दर्यसुभगोचितः ।
स विश्वतोमुखोप्येकमुखवद्भाति नीलदृक् ।। ३.२८ ।।

स्थानेश मूलेशयुक्तः समुपास्यो निरंशकैः ।
मण्टपाधः प्रदेशस्थशक्तिराधाररूपिणी ।। ३.२९ ।।

कूर्मशेषश्च भूः क्षौरवार्धिपाद्वीपरूपिणी ।
श्वेतां रमां संविचिन्त्य निरंशैरित्यचिन्तयथ् ।। ३.३० ।।

उरुस्ताल्वोर्भ्रुवोर्मध्ये शिरस्यूर्ध्वमुखानि च ।
कञ्जानि श्वेतवर्णानि द्विषड्व्यष्टदलैस्तथा ।। ३.३१ ।।

द्वाभ्यां सहस्रदलकैर्युक्तानि दलदेवताः ।
आदित्याः प्रथमे पद्मे इन्द्राद्यास्तत्रदेवताः ।। ३.३२ ।।

देवतास्तु त्रृतीयेब्जे भारती च सरस्वती ।
मूर्ध्नैको बहुरूपेण वायुः सर्वदलाधिपः ।। ३.३३ ।।

नारायणो हरिः कृष्णो वासुदेवस्तदीश्वरः ।
कृकलो देवदत्ताख्यः सूत्रनामा मरुत्पतिः ।। ३.३४ ।।

मरुतः सप्तसप्तापि पञ्चस्वपि हदारिषु ।
सुषुम्ना नालजातानि पद्मान्येतानि सप्त च ।। ३.३५ ।।

गुणत्रयात्मिकानाडी सुषुम्ना वेदपारगैः ।
स्यैका शाखादि रहिता गर्भेछिद्रान्वतापि च ।। ३.३६ ।।

सरस्वती तदन्तर्गा नदी वारिस्वरूपिणी ।
हैरण्मयी वैध्युतीति वज्रिका भास्वतीति सा ।। ३.३७ ।।

नामभिः संयुतालोकाः भूराद्याः तत्रसंस्थिताः ।
भूर्भुवस्वर्गलोकेशा महरादीश्वरः(श्चराः) क्रमाथ् ।। ३.३८ ।।

भूविघ्नेशेन्द्रानिरुद्धकामशेषाब्जजा मताः ।
कट्यूरुद्वितये जानुजङ्घगुल्पो भयाङ्घ्रिषु ।। ३.३९ ।।

अतलाद्याश्रितादेवा देहे देवेश सेवकाः ।
मित्राग्न्यस्त्रपवारीशमयमन्दयमाः क्रमाथ् ।। ३.४० ।।

देहेप्येवं विराड्देहधारिणं तन्मितोवति ।
सुषुम्ना मूलदेशोत्थे गङ्गायामुनवार्धरे ।। ३.४१ ।।

पिङ्गलेले रक्तनीलवर्णे सव्यापसव्यगे ।
गर्भछिद्रान्विते षट्त्रिंशत्सहस्रप्रभेदिनी ।। ३.४२ ।।

पृथक्पृथक्सव्यनाड्यो महत्तत्वात्मिका मताः ।
त्रिधा विभक्ताः पादान्तं द्विषट्साहस्रसंमिताः ।। ३.४३ ।।

दक्षिणे दक्षपादान्तं नाड्यस्तावन्मिताः क्रमात् ।
पिङ्गला ऊर्ध्वदेहेषु व्याप्तास्तावन्मिताः शुभाः ।। ३.४४ ।।

अधोमध्योर्ध्वगास्तास्तु सप्तास्य पथमाश्रिताः ।
सप्तसन्त्येव विवराः घ्राणास्य श्रुति नेत्रगाः ।। ३.४५ ।।

सप्तास्यपथनामानो गोलकाः सप्तकीर्तिताः ।
सप्तोर्ध्वनाड्यो हृत्कञ्जाधस्थलाद्वामपार्श्वगाः ।। ३.४६ ।।

पुनर्हृत्कं चोर्ध्वदेशात्सव्यमावृत्य पिङ्गलाः ।
सप्तास्य पथगाः तत्र(सूर्यो) वह्न्याद्या वत्सरेश्वराः ।। ३.४७ ।।

उत्तरायणमासेशाः दिनेशाः शुक्लपक्षपाः ।
परशुक्लत्रयं ह्यस्मिन्ह्येत एवाभिमानिनः ।। ३.४८ ।।

सूर्यादि सर्वदेवानां नामवाच्यास्तु पिङ्गलाः ।
तस्यां ब्रह्माभिमानी गी ऋजवस्त्वपरोक्षिणः ।। ३.४९ ।।

प्राणापाना विलायां च पिङ्गलायां च वर्ततः ।
रूपैः षड्विंशत्सहस्रैस्तासु तौ भारतीयुतौ ।। ३.५० ।।

तथानिरुद्धप्रद्युम्नौ दक्षिणे पुं स्वरूपतः ।
स्त्रीस्वरूपेण वामे तु तावद्रूपैश्च तास्वलं ।। ३.५१ ।।

तादृक्पाणस्वरूपस्थौ ब्रह्मरुद्राद्युपासितौ ।
दक्षिणायनमासेशाः रात्रीशाश्चैव देवताः ।। ३.५२ ।।

कृष्णपक्षेश्वरारुद्रविपशेषाः सभार्यकाः ।
अहङ्कारात्मकेलायां देवाः सर्वेभिमानिनः ।। ३.५३ ।।

आनन्दविज्ञानमयौ पिङ्गलेलाधिपौ क्रमात् ।
व्यानात्मा सर्वसन्धिस्थः उदानोब्रह्मनाडिगः ।। ३.५४ ।।

सुषुम्ना ब्रह्मनाडीति समानःसर्वदेहगः ।
अधो मध्योर्ध्वगाः सप्तसप्तेलानाडिका क्रमाथ् ।। ३.५५ ।।

सप्ताश्वमार्गपथगाः ऊर्ध्वेलाः पिङ्गला यथा ।
हृत्कञ्जाधोभागतस्ताः सव्यं प्राप्य तदूर्ध्वतः ।। ३.५६ ।।

अपसव्यं पुनः प्राप्यसप्ताश्वपथगाः क्रमात् ।
भूम्या(धूमा)दि देवताशब्दैरिलावाच्यासमस्तशः ।। ३.५७ ।।

ऋग्वेदसूक्तभागेषु बृहतीःऋक्सहस्रयुक् ।
सूत्रद्व्यष्टादशैकोनैः पूर्णरुक्प्रभविष्यति ।। ३.५८ ।।

पादस्तु नववर्णात्मा तादृक्पादचतुष्टयैः ।
रुक्तत्संयुक्ताक्षरेतावर्णाद्वासप्ततीरिताः ।। ३.५९ ।।

द्वासप्ततिसहस्राणि वर्णाः सर्वरुगाश्रिताः ।
द्वासप्ततिसहस्रेषु पिङ्गलेलाह्वयासु च ।। ३.६० ।।

नाडीषु तत्तद्वर्गेषु वाच्यरूपाण्यचिन्तयेत् ।
सुषुम्नायाश्चतुर्दिक्षु हृत्कञ्जाधः समाश्रितं ।। ३.६१ ।।

मनोबुद्धिरहङ्कारश्चित्तञ्चेति चतुर्विधं ।
तत्रेन्द्रकामौ भार्यौ तौ तद्विशेषाभिमानिनौ ।। ३.६२ ।।

श्रोत्रे दिग्देवताश्चन्द्रस्त्वक्चाहं प्राणनामकः ।
नेत्रयोर्भास्करो जिह्वामानी वरुणरिरितः ।। ३.६३ ।।

दश्रौ घ्राणाश्रितावेते तद्विशेषाभिमानिनः ।
वक्त्रे(वाचि) वह्निः करेदक्षो जयन्तः पादयोर्ध्वयोः ।। ३.६४ ।।

मित्रः स्वायंभुवौ पायूपस्थयोरभिमानिनौ ।
घ्रा(प्रा)णो मरुच्छब्दमानीत्वपानः स्पर्शगस्ततः ।। ३.६५ ।।

व्यानोरूपः रसमानी ह्युदानो गन्धसंस्थितः ।
समान एते मात्रासु विशेषादभिमानिनः ।। ३.६६ ।।

भूदेवी मानिनी पृथ्वीः अबात्मा वरुणः स्मृतः ।
अग्निस्तेजोमयो वायौ प्रवहः प्रभुरीश्वरः ।। ३.६७ ।।

आकाशमानी विघ्नेशः भूतेष्वेते विशेषपाः ।
केशालि(स्थि)त्वङ्मांसनखरूपा भूर्देहगा मताः ।। ३.६८ ।।

वारिरक्तात्मकं देह जठराग्निस्तु तैजसं ।
वायुः श्वासात्मकः काये ह्यवकाशो नभस्तनौ ।। ३.६९ ।।

प्रत्यक्षसिद्धसर्वेषां सत्वं बा(बो)ध्यं न हि क्वचित् ।
सुदुर्गन्धौ घ्राणवेद्यौ देहे जिह्वेन्द्रियप्रियः ।। ३.७० ।।

शुभाशुभरसो रूपं चक्षुर्वेद्यं कलेवरे ।
शीतोष्णादिः त्वचावेद्यः स्पर्शः शब्दे(ब्दः) श्रुतिप्रिये(यः) ।। ३.७१ ।।

मात्राधृषीकविषयाः सत्याबाध्यान हीरिताः ।
वचनादानगमनोत्सर्गभोगादिसाधनं ।। ३.७२ ।।

कर्मेन्द्रियपञ्चचार्थक्रियाकारेति(रिण) (बा)बध्यते ।
सत्यं शृणोतिस्पृशतिपश्यत्यत्ति च जिघ्रति ।। ३.७३ ।।

श्रेत्रत्वङ्नेत्ररसनाघ्राणस्तत्वानि तान्यतः ।
अर्थक्रियाकराण्येव विबोध्यानीहवेदगं ।। ३.७४ ।।

मनश्च श्रुतिहेतुत्वात्सप्तं(त्यं) च शरीरगाः ।
अहङ्कारापादकत्वात्पिङ्गला ममतास्पदा ।। ३.७५ ।।

नाड्यो दौर्बल्यसमये भान्तिसव्यापसव्ययोः ।
पुंसांस्त्रीणामायादिव्यञ्जकाः प्रभवन्ति हि ।। ३.७६ ।।

अतः सत्याच्च(श्च) बहुषु ज्ञानाज्ञानप्रवर्तकाः ।
गुणाः सत्वादि देहस्थाः सत्यास्तदभिमानिनः ।। ३.७७ ।।

देवाः सत्याः केवलस्य जडस्यस्थित्ययोगतः ।
देहानां च सदेहानां देहबन्धमतिकृतां ।। ३.७८ ।।

दुःखास्वदत्वाद्देहाप्तिकारणं सत्यमेव हि ।
कर्माणि द्विविधं वेदेषूक्तानुक्रमसच्चसथ् ।। ३.७९ ।।

सुखदुःखप्रदं तेन सत्यावेदाःसमस्तशः ।
देशे काले कृतङ्कर्म फलदत्त्वेन तौ वृतौ ।। ३.८० ।।

तत्कर्मफलभोक्तारो जीवाः सत्याः सलिङ्गकाः ।
भग्नलिङ्गा विमुक्ताश्च श्रुत्युक्ताश्च कृताः स्मृताः ।। ३.८१ ।।

इहान्यत्राल्प बहुलज्ञानाज्ञानादि योगिभिः ।
सदसत्तारतम्यं च सप्त(त्य)मेते स्वतन्त्रकाः ।। ३.८२ ।।

चिच्चेत्यरूपा एतेषां देहयोगविवर्जिताः ।
नियन्ता पुरुषश्रेष्ठः न च एतत्प्रयुज्यते ।। ३.८३ ।।

तस्माल्लक्ष्मीपतिर्व्याप्तः स्वतन्त्रः श्रुतिचोदितः ।
निर्देषो नित्यसुगुणः सदा नारायणो हरिः ।। ३.८४ ।।

एवमाध्यात्मिकं सत्यम्(प्तम्) अधिभूतं बहिस्थितं ।
सर्वाङ्कुरोत्पादकत्वात्भूःसत्वा(त्या)खिलकारणाथ् ।। ३.८५ ।।

अभस्मरनादि योग्यत्वात्पालकद्दाहादि साधनं ।
वह्निश्च शोषको वायुरवकाशप्रदानियथ् ।। ३.८६ ।।

तत्कारणानि मात्राश्च तद्गतानीन्द्रियाणि च ।
सत्या(प्ता)न्येवं समस्तानि संसृष्टान्यण्डगानि च ।। ३.८७ ।।

एतन्मूलान्यसंसृष्टान्यपि सत्यानि सर्वशः ।
सङ्गृह्येतद्विनिर्माया याति सत्यः सहत्यजः ।। ३.८८ ।।

केचिन्निरङ्गा निर्देहा ज्ञानादि गुणवर्जिताः ।
निरंशो खण्डरूपश्च सर्वादृश्योनिरूपिताः ।। ३.८९ ।।

अनामरूपो फलदस्त्वनुपास्यो विचारितः ।
ब्रह्मैकन्तु जडं सर्वे ब्रह्मण्यारोपितं मृषा ।। ३.९० ।।

शुक्तौ रजतवद्रज्जौ सर्पवत्प्रतिभाति च ।
अज्ञानं कल्पितं तद्धि शुक्तिज्ञानाद्धि बाध्यते ।। ३.९१ ।।

विचारिते सति हि सा शुक्तिर्नरजतं भवेत् ।
अतो बोध्यं मृषाभूतं मिथ्या तद्रजतं यथा ।। ३.९२ ।।

वस्तुस्वरूपं ज्ञानेन कल्पितत्वाच्चतत्तथा ।
अज्ञानकल्पितं ब्रह्मण्येतद्विश्वं प्रकल्पितं ।। ३.९३ ।।

ब्रह्मण्यारोपकृज्जीवो ब्रह्मान्यो नैव वर्तते ।
निरंशमपि तद्ब्रह्मत्वज्ञानावृतमञ्जसा ।। ३.९४ ।।

अनन्तरूपकं भुङ्क्ते नानायोनिसमुद्भवं ।
तस्यज्ञानमुपाध्युत्थं सत्योपाधिर्न विद्यते ।। ३.९५ ।।

मिथ्या साज्ञानजतत्वान्नाज्ञानं सत्य(त्व)मुच्यते ।
तदाज्ञानेन जीवस्थं जीवस्याभावतः स्वतः ।। ३.९६ ।।

निर्विशेषब्रह्मणि तु ज्ञानाज्ञानेन वर्ततः ।
अतो न ब्रह्मनिष्टं तत्तज्ञानतदुपाधिजं ।। ३.९७ ।।

एवं मिथ्याभूतकालकर्मदेशागमादिभिः ।
भ्रमद्ब्रह्म च कल्पान्ते ब्रह्ममूल स्वरूपकं ।। ३.९८ ।।

ज्ञात्वा तत्रैक्यमापन्नो न पुनर्जायते भुवि ।
मुक्तस्यापि न चाज्ञानं नेन्द्रियाणि न क्वचिथ् ।। ३.९९ ।।

निर्विशेषे परेब्रह्मण्यैक्यमेतादृशं खलु ।
तदज्ञानं न सन्नासत्सदसन्न च तर्हिकं ।। ३.१०० ।।

अनिर्वाच्यं तन्निवृत्तिर्मुक्तिरित्यभिधीयते ।
पूर्वापरेषु कालेषु सृष्टिन्मेत्यपि ते जगुः ।। ३.१०१ ।।

एतद्धि दुर्मतं सन्तो नाङ्गीकुर्वन्तितात्विकाः ।। ३.१०२ ।।

इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे तृतीयोध्यायः