सामग्री पर जाएँ

प्रकाशसंहिता/द्वितीयपरिच्छेदः/अध्यायः २

विकिस्रोतः तः
← द्वितीयपरिच्छेदः, अध्यायः १ प्रकाशसंहिता
अध्यायः २
[[लेखकः :|]]
द्वितीयपरिच्छेदः, अध्यायः ३ →

श्रीहंसः

चक्रेस्थूलशरीराणि यद्धेशेस्थाप्ययान्विराट् ।
तेषां तदुपयुक्तार्थान्जडानि विविधानि च ।। २.१ ।।

सर्वस्थूलशरीराणि उपादानान्यजः स्वयं ।
विराट्दत्तानि सङ्गृह्य क्रमात्कालानुसारतः ।। २.२ ।।

तत्तद्गुणक्रियाजातिरूपलक्षणसम्पदः ।
व्यवहाराश्रयाचारवेषभाषास्वरूपकान् ।। २.३ ।।

दानमाना(न्नपानार्ह)शनायाशनार्हपूर्वानन्तार्थसञ्चयान् ।
चतुर्लक्षाधीकाशीतिलक्षजीवगुणोचितान् ।। २.४ ।।

विराडुक्तान्विराड्डन्तान्स्तद्भावज्ञस्तथाकरोत् ।
यथोत्तरत्र स्थूलोपि न दृष्टस्तेन तच्छ्रुतं ।। २.५ ।।

तत्पूर्वं पद्मनाभोत्थ त्रिविक्रमपदाम्बुजात् ।
दक्षिणाद्युधृता गङ्गा तस्याङ्गुष्ठनखाग्रतः ।। २.६ ।।

विशीर्णाजाण्डमध्योर्ध्वरन्ध्रात्क्ष्मावरुणोर्ध्वगं ।
अम्भः प्रागग्नितत्वस्था(स्थं) प्राकृताङ्घ्रभिरक्षितं ।। २.७ ।।

विष्णोः पादात्समुद्भूतं तद्वार्याण्डान्तराविशत् ।
(ए)तत्मण्डुलुगं कृत्वा ब्रह्मा विष्ण्वङ्घ्रिमज्जनं ।। २.८ ।।

चकार तेन तद्वारि गङ्गाख्या सुसरद्वरा ।
अतो विष्ण्वङ्घ्रिजां ब्रह्मकमण्डलुसमुद्भवं ।। २.९ ।।

वदन्ति सा सुषुम्ना हि ब्रह्माण्डव्यापिनो हरेः ।
निशायाः पञ्चमांशे तु ब्रह्मेशाद्याखिलामरान् ।। २.१० ।।

सृष्ट्वा वैकुण्ठलोकस्थदुर्गाभागगतान्व्यधात् ।
सेवार्थं तद्गतानन्तरूपस्य श्रीहरेः श्रियः ।। २.११ ।।

तेषामुचितविज्ञानं हरेः सेवां उपादिशत् ।
षष्टमांशे निशायाश्च पुनः सर्वान्सुरोत्तमान् ।। २.१२ ।।

अजो सृजत्स्वसेवार्थं तांश्च(ते च) पूर्वोक्तरीतितः ।
सप्तप्राकार(के)गान्सप्तलोकेशं तोषयत्यलं ।। २.१३ ।।

तावत्सत्याधस्थलस्पृग्वार्यण्डपरिपूरितं ।
महोग्रवायुना शुष्यन्महर्लोकादधोविशथ् ।। २.१४ ।।

सप्तमांशे निशीथिन्याः पुनर्देवानजोसृजत् ।
तेषु प्रधानान्सर्वान्मनसो देहतोऽसृजथ् ।। २.१५ ।।

तेषु प्रधानान्शेषादीं तपोलोकेव्यधादजः ।
तत्र लोकपतिः साक्षात्सङ्कर्षणमनामयं ।। २.१६ ।।
आराधयतोऽन्य सुरान्मनसा देहतो सृजत् ।
इन्द्रकामौ जनोलोके तृतीयोतावजो व्यधाथ् ।। २.१७ ।।

प्रद्युम्नन्तावभजतां सृष्ट्वा तौ स्वावरामरान् ।
अनिरुद्धादिकान्धाता महर्लोकगतान्व्यधाथ् ।। २.१८ ।।

अनिरुद्धं भजन्तस्तेवृसृजन्स्वावरामरान् ।
अष्टमांशेत्रियामाया सनकादीन्पितामहः ।। २.१९ ।।

सृष्ट्वा सृष्ट्वैतन्नियुक्तास्तदाज्ञानाचरन्द्रुतं ।
ततः प्रकुपिताद्धातुः रुद्रो एकादशात्मकः ।। २.२० ।।

जातोभूत्सपत्नी(क्षी)कः ससृष्ट्यर्थमजोदितः ।
तपस्तप्त्वाथकालेन पीते स्वर्गान्तवारिणी(णा) ।। २.२१ ।।

अजेनावाप्यसस्वर्गभूतान्प्रेतांश्च राक्षसान् ।
नन्दिनं मातृकाःसप्त पिशाचान्लोकभीकरान् ।। २.२२ ।।

भक्तान्सुरांशानपि दुर्भावयुक्तान्दिगम्बरान् ।
क्रूरसृष्टिं ततो ज्ञात्वा ब्रह्मा तं प्रत्यषेधत ।। २.२३ ।।

ततोजः स्वाकं देशेन नारदं त्वसृजदृषीं ।
दक्षं दक्षाङ्गुष्टतोजस्तन्वा भृगुमचीक्ळ्पथ् ।। २.२४ ।।

मरीचीं मनसा नेत्रेणात्रिमाङ्गिरसं मुखात् ।
कर्णरन्ध्रात्पुलस्त्यं च पुलहं नाभिदेशतः ।। २.२५ ।।

करात्क्रतुं वसिष्ठं च प्राणात्कामाच्चगाधिजं ।
छायया कर्दमं बुध्यारुचिं व्यजनयद्विभुः ।। २.२६ ।।

ऋगादि देवान्पद्मोत्थः पूर्वाद्यास्यैः क्रमाद्व्यधात् ।
भारतं पञ्चरात्राणि पुराणानि स्मृतिस्तथा ।। २.२७ ।।

पूर्वादिभिर्व्यधादास्यैस्तथा वर्णाश्रमादिकान् ।
भृगुं मनुं बुधशनी चतुर्वर्णप्रवर्तकान् ।। २.२८ ।।

चकार(रा) कालावयवान्दिशस्तदभिमानिनः ।
यज्ञान्हृदापुण्यधर्मो पृष्टेनाधर्मविस्तृतिं ।। २.२९ ।।

तथा पञ्चवि(धा)ज्ञानं दुर्गां तदभिमानिनीं ।
अहोरात्रे पक्षयोश्च लज्जां मूर्धोष्टतोसृजथ् ।। २.३० ।।

अधरोष्टात्ततो लोभं नाडिभ्यो व्यसृजन्नदीः ।
अस्थिभ्यः पर्वतान्कुक्षेः सर्वसागरमानिनः ।। २.३१ ।।

मेघान्केशैर्लोमजातैर्वृक्षा(श्चैव लतादिकान्)न्गुल्मान्लतान्वितान् ।
चतुर्लक्षाधिकाशीतिलक्षयोनिषु तात्विकान् ।। २.३२ ।।

दशसंख्यामितान्धाता व्यसृजच्चान्य चेतनान् ।
कर्मदेवादिकान्देवाः क्रमाज्जातास्तु कालतः ।। २.३३ ।।

शतं गन्धर्वाप्सरसां त्रिंशच्चारणरक्षसां ।
शतं सिद्धास्तथान्यासु सप्ततिःसर्वजातिषु ।। २.३४ ।।

आजानजाः कुबेरोत्थास्तेभ्य एव निरंशकाः ।
देवदासा निरंशाश्च पद्मकल्पादनन्तरं ।। २.३५ ।।

स्वयम्भुवेन्तरे भूमौ जाताः सर्वत्र सङ्गताः ।
क्षणदानवमे भागे महीदासहयाननौ ।। २.३६ ।।

सनत्कुमारमछाख्यावादिशेतां मनुं विधेः ।
अवतीर्याखिलान्वेदान्सारं चैव(वेद सारं) पुराणकं ।। २.३७ ।।

पञ्चरात्रं महाशास्त्रं श्रीमद्भागवतं शुभं ।
दशमे तु निशाभागे पद्मनाभस्य कर्णयोः ।। २.३८ ।।

कल्पितात्तामसाद्भूरि कीकसादासतूरिपू ।
तदा कुसुमनाभस्य निशांशदशमे शुभे ।। २.३९ ।।

कल्पितात्तमसाद्भूरि कीकसादासतूरिपू ।
मधुश्च कैटभश्चैव राक्षसौ दुर्मदोद्धतौ ।। २.४० ।।

कदामेरुरूर्ध्वदेशस्थं पीत्वा तावज्जलं स्थितं ।
रूपान्तरेणाब्जभवं प्राप्य युद्धाय राक्षसौ ।। २.४१ ।।

आह्वयामास तु ब्रह्मा तावाहाहं हि दुर्बलः ।
इत्युक्त्वा स हरिं दध्यौ हयग्रीवाह्वयं हरिः ।। २.४२ ।।

व्यक्तो भूद्ब्रह्महृदासताभ्यां चिरमयोधनं ।
कृत्वा हत्वाच्छाद्यकुन्तं मेधसा मेदिनीं व्यधाथ् ।। २.४३ ।।

क्षणदैकादशांशे तु ब्रह्मा मेरुस्थितः स्वयं ।
पिशाचान्दानवान्दैत्यान्निरंशान्सांशरूपकान् ।। २.४४ ।।

एतान्विष्णुद्विषो योग्यान्राक्षसांश्च कलिंस्तथा ।
व्यसृजत्तानधोलोकवासिनः कालतोकरोथ् ।। २.४५ ।।

अजेयत्वमवध्यत्ववरं तेषामदाद्विधिः ।
कालेन भारते जन्म प्रतिमन्वन्तरेष्वपि ।। २.४६ ।।

यथायोग्यं जन्मलब्ध्वा तपस्तप्त्वा शिवाद्वरं ।
प्राप्य विप्रार्यगुर्वादिगोसुरद्वेषिणः सदा ।। २.४७ ।।

भविष्यथेति तेषां तु वरं प्रादादथाब्जजः ।
परशुक्लत्रयं हित्वा छिन्नभागवतेष्वलं ।। २.४८ ।।

प्रविश्य बुद्धिव्यामोहं कल्पयित्वा क्वचित्क्वचित् ।
योग्यतातिक्रमोद्भूतपुण्यं नाशयथेति च ।। २.४९ ।।

शरीरतत्वोपादानस्थितसर्वोत्तमान्सुरान् ।
सर्वेर्(व)तत्त्वो(त्वा)पचयगा भवन्तो भीषयन्त्यथ ।। २.५० ।।

पापदुःखादि सम्बन्धो भवतां च भवेदिति ।
विष्णुविस्मृतियुक्तानां शरीरेषु सातामपि ।। २.५१ ।।

असतां मिश्रबुद्धीनां अभिमानित्वमस्तुवः ।
मिथ्याभिमानिनो दैत्याः देवास्तत्वाभिमानिनः ।। २.५२ ।।

सर्वतत्वेष्वथ कलिर्जीवमानी दुराग्रहात् ।
देहस्थ देवताः पूर्(णर्)वपुण्य(भुजः)सौख्यभुजः क्रमाथ् ।। २.५३ ।।

पापदुःखभुजश्चान्ये देहमान्युभयात्मकाः ।
अन्तर्बहिस्थजीवानां किञ्चिदुःखं भवत्यपि ।। २.५४ ।।

दैत्यावेशान्न वायोर्हि दैत्यावेशः कदाचन ।
जीवमान्युत्तमो ब्रह्मा देहस्थो मध्यमः स्वयं ।। २.५५ ।।

अधमस्तु कलिर्जीवमान्येव हि सुरासुराः ।
इति तत्वार्थवित्तेषां ब्रह्मादादुचितं वरं ।। २.५६ ।।

शुद्धोदसागरबहिर्महर्लोके तदूर्ध्वतः ।
गर्भोदके तु(च) दैत्यानां आवेशो नास्ति सर्वथा ।। २.५७ ।।

एतदन्यत्र दैत्यानां स्थित्यै प्रादाद्वरं विभुः(धिः) ।
द्वादशांशे तु(स)तामस्याः ब्रह्माण्डस्थाम्बुनिर्गमे ।। २.५८ ।।

चिन्त्यतोजस्य वै घ्राणात्घ्रोणी रूपी बभूव ह ।
घ्रोणी रूपी वराहात्मा हरिस्त्ववततार च ।। २.५९ ।।

स तु श्वेतवराहाख्यः ब्रह्मणा सं(यु)स्तुतोऽसृजत् ।
यज्ञाभिमानिनो यज्ञान्मन्त्रतन्त्रार्त्विगोषधीः ।। २.६० ।।

तिलदर्भाश्वपश्वाज्यहवींषिसमिधः क्रमात् ।
सत्राणि सोमसदनं रा(र)म्भभैश्यादिकान्व्यधाथ् ।। २.६१ ।।

युपाग्नीन्स्पृषदाज्यं च फलान्यप्यसृजत्किटिः ।
तदा हयग्रीवनामा राक्षसो घोरदर्शनः ।। २.६२ ।।

अजस्य मुख(ख्य)तोव्यक्तं गुरुं वेदाभिमानिनं ।
निगृह्यागात्रदा वेदाः अपपाठतिरोहिताः ।। २.६३ ।।

तदा प्रार्थितो मच्छरूपी जलमुपाविशत् ।
हत्वा हयशिरस्कन्तं वेदानुद्धरदीश्वरः ।। २.६४ ।।

तदा धात्रार्थितश्चादिसूकरोण्डगतं जलं ।
अशामयद्भुवमधोलोकांश्च विमलान्व्यधाथ् ।। २.६५ ।।

सूर्यादयो ग्रहाः सर्वे तदाद्याः सप्रकाशकाः ।
तदादि कल्पं तं प्राहुः वाराहमिति सज्जनाः ।। २.६६ ।।

रात्रौ त्रयोदशांशे तु पुरीं बर्हिष्मतीं व्यधात् ।
वराहात्माह्यादिमनोरावासार्थमशेषविथ् ।। २.६७ ।।

तदैवाष्टस्वयंव्यक्ताः पुराणि विविधानि च ।
नद्यश्च देवखा(घा)ताश्च वनान्युपवनानि च ।। २.६८ ।।

तदा सर्वोपयुक्तानि सर्वत्र व्यसृजद्विधिः ।
चतुर्दशांशे रात्रेस्तु दिक्पालान्सर्वलोकगान् ।। २.६९ ।।

सर्वत्राज्ञापयद्धिक्षु विदिक्षु च यथाक्रमं ।
तत्प्रागेव समुत्पन्ना ब्रह्मणा लोकपालकाः ।। २.७० ।।

विराड्देहगतस्तुर्यो ह्यनिरुद्धा(क्षिगो विभुः)भिधो हरिः ।
अतलादिष्वयोग्यानां सूक्ष्माण्य(प्य)जमदर्शयथ् ।। २.७१ ।।

(सं)स तान्पद्मजसम्भूतः(तो) मेरुमध्यस्थकञ्जजः ।
ऊर्ध्वमुधृत्य च स्थूलदेहयुक्तांश्चतान्पुनः ।। २.७२ ।।

तत्तल्लोकेषु संस्थाप्य मुख्यप्राणवशान्व्यधात् ।
तदा ब्रह्मवरोद्भूतो हिरण्याक्षो हि राक्षसः ।। २.७३ ।।

पञ्चभूतावरां भूमिं गृहीत्वाथ रसातलं ।
विवेश तन्मोचनाय वराहात्माण्डजार्थितः ।। २.७४ ।।

रसातलं प्रविश्यैव मोचयित्वा भुवं त्वरन् ।
तं गदापाणिना(मा) क्रुद्धं प्रापयित्वैव भारत ।। २.७५ ।।

युध्वा स्वं दंष्ट्राग्रहतं कृत्वा तं नरके व्यधात् ।
ततो मेरुगतो धाता सव्यात्स्वायंभुवं व्यधाथ् ।। २.७६ ।।

देहापसव्यतस्तस्य शतरूपां सतीं व्यधात् ।
भुगुदक्षमरीच्यादीन्तपसे(स)मनुमादिमं ।। २.७७ ।।

आहूयाजः प्राहसृष्टिं बृंहणाय सतां गतिः ।
शतरूपा पतिः प्राह तपस्तप्त्वा सुदारुणं ।। २.७८ ।।

वराहोद्धारणाप्तश्च कियत्कालं विचक्षणः ।
वराद्धरेश्च स्त्रीपुंसो योगात्स्यैष्विविधीरितां ।। २.७९ ।।

स्त्रिपुंसयोगाद्भाव्यं च सृष्टिमेतां विधीरितां ।
सृत्वा तस्यामजनयत्पुत्रौ द्वौ लोकविश्रुतौ ।। २.८० ।।

प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च सत्तमः ।
आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ।। २.८१ ।।

तत्राद्यायामृचेर्जज्ञे यज्ञनामा रमापतिः ।
तेनैव सह सम्भूता दक्षिणा नामिका रमा ।। २.८२ ।।

अजावयोनिजौ द्वावप्राकृतदेहयुतौ परौ ।
पुत्रिकापुत्रधर्मेण यज्ञमात्मसुतं मनुः ।। २.८३ ।।

चकार दक्षिणा यज्ञे दक्षिणामानिनी च सा ।
तुषिता नाम तत्पुत्राः सम्बभूवुः सुरोत्तमाः ।। २.८४ ।।

तत्त्वाभिमानिनः(तैर्नीचातात्विकाः) सर्वे बभूवुः नवकोटयः ।
आकूतेर्देवहूतेश्च प्रसूतिरनुजातुया ।। २.८५ ।।

दक्षस्या ससती तस्मातस्यां षोडशकन्यकाः ।
अभवन्नर्कपुत्रस्य धर्मस्यैव त्रयोदश ।। २.८६ ।।

पुत्र्यस्त्वेकाग्नये दत्ता तस्यां त्रेता(तत्रा)ग्नयोभवन् ।
आह्वनीयोगर्हपत्यो दक्षिणाग्निरिति त्रयः ।। २.८७ ।।

तेषामेका दक्षसुता भार्या(दत्ता) तस्यां त्रिभिः क्रमात् ।
पृथक्पृथक्पञ्चदशपुत्रा अग्निस्वरूपकाः ।। २.८८ ।।

आसन्नाद्या यज्ञभुजो मध्यमा हव्यभोजिनः ।
अन्त्याः कव्यभुजः पूर्वै पञ्चाशत्संमिताग्नयः ।। २.८९ ।।

एकन्यूना दक्षसुता ज्येष्ठा दत्ता शिवस्य तु ।
धर्मान्वरूत्वती पुत्रान्पञ्चाशन्मरुतोऽसृजथ् ।। २.९० ।।

विश्वेदशासन्विश्वायां वसवौष्टौ वसूद्भवाः ।
रुद्रा असंस्मरुद्राण्यां भूतायां भूतना(य)मकाः ।। २.९१ ।।

उपदेवाश्च साध्यायां अन्यास्वपि च धर्मतः ।
उपदेवाश्च देवाश्च बभूवुर्हि बहुप्रजाः ।। २.९२ ।।

धर्मस्य ते पदस्थाश्च सर्वे(सर्ग)वासोचिता मताः ।
तदुत्थिताश्च भावीनाः प्रायशो ह्यपरोक्षिणः ।। २.९३ ।।

प्रागुक्तास्तात्विकाश्चैकरूपेण भुवि भारते ।
उषित्वा भाविसत्कर्मज्ञानभक्त्यादि काङ्क्षिणः ।। २.९४ ।।

शुभाशुभं च प्रारब्धं भोक्तुं योग्यास्ततो भवत् ।
ते च द्वीपाद्रि वर्षेषु भारते(ता)न्येषु सर्वशः ।। २.९५ ।।

सुप्रारब्ध्यैक भोगार्हाः धर्माधर्मोत्थसम्भवाः ।
आसन्देवाश्च पूर्वोक्ता ह्यपरोक्ष्य नपरोक्षिणः ।। २.९६ ।।

सत्साधनं भारतेस्मिन्कर्तुमर्हाः सुरोत्तमैः ।
(त्य)व्यक्तापरोक्षिभिर्जाताः सदैवासन्हरीच्छया ।। २.९७ ।।
प्रियव्रतोत्थानपादौ तयो(पो) निष्ठौ बभूवतुः ।
निशा चतुर्दशांशे तु सृष्टिरेषा सुमेरुगाः ।। २.९८ ।।

इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे द्वितीयोऽध्यायः