प्रकाशसंहिता/प्रथमपरिच्छेदः/अध्यायः २
← प्रथमपरिच्छेदः, अध्यायः १ | प्रकाशसंहिता अध्यायः २ [[लेखकः :|]] |
प्रथमपरिच्छेदः, अध्यायः ३ → |
श्रीहंस उवाच
संस्तुतो भगवानेवं तदैवोत्थाय केशवः ।
शून्यनामाथ जगृहे परुषाख्यां तनुं हरिः ।। २.१ ।।
पुरुषः सर्वरूपाणां व्यक्ताबीज इवस्थितः ।
सोनन्तात्मा व्याप्ततनुः विश्वकुक्षिरितीरितः ।। २.२ ।।
पुरुषाद्वासुदेवाद्याश्चत्वारो ह्यभवंस्ततः ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।। २.३ ।।
श्वेतरक्तपीतनीलाः वासुदेवादयः क्रमात् ।
मुक्त्यैहृत्यै तथा गुप्तै सृष्ट्यै स्वेच्छातनुर्हरिः ।। २.४ ।।
शून्यनाम्नी रमादेवी श्रीर्भूत्वा पुरुषंश्रिता ।
सैवमायाजयाभूत्वा कृतिःशान्तिरितीरिता ।। २.५ ।।
वासुदेवादि भार्यासीत्सर्वदा सानपायिनी ।
चतुर्मुखो वासुदेवः ब्रह्मणो बिम्बरूपकः ।। २.६ ।।
सङ्कर्षणः सहस्रास्यः फणिराड्बिम्बरूपकः ।
प्रद्युम्नो मारबिम्बात्मा ह्यतिसुन्दरविग्रहः ।। २.७ ।।
बिम्बात्मा कामपुत्रस्यानिरुद्धास्यानिरुद्धकः ।
सकृद्धोल्कादि पञ्चात्मा विश्वाद्यष्टतनुर्हरिः ।। २.८ ।।
विमलादिनवात्माभूत्समत्स्यादि दशाकृतिः ।
शक्त्यादि द्वादशात्माभूद्वारकादि षोडशरूपवान् ।। २.९ ।।
आनन्दादि त्रयोविंशद्रूप आसीत्परात्परः ।
केशवादि चतुर्विंशद्रूपवानभवद्धरिः ।। २.१० ।।
अजादि पञ्चाशद्रूपः ततोभूत्पुरुषोत्तमः ।
कालाख्यषष्ठिरूपोभूत्संवत्सरनियामकः ।। २.११ ।।
नारायणादि शतकः स विश्वादि सहस्रकः ।
पराद्यनन्तरूपोभूदात्मभेद विवर्जितः ।। २.१२ ।।
तदाज्ञयैव देवी सा रमापि बहुरूपिणी ।
स तयानन्तरूपिण्या अनन्तरूपो रमापतिः ।। २.१३ ।।
स्वरतोऽपि तया देव्या तत्प्रीत्यर्थं दयानिधिः ।
लयकालाष्टमांशन्तु नीत्वा पुरुषपुङ्गवः ।। २.१४ ।।
प्रारम्भे सृष्टिकालस्य अजादीन्स्रष्टुमारभथ् ।। २.१५ ।।
इति श्री परतत्वनिर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे द्वितीयोध्यायः