सामग्री पर जाएँ

प्रकाशसंहिता/प्रथमपरिच्छेदः/अध्यायः १

विकिस्रोतः तः
प्रकाशसंहिता
अध्यायः १
[[लेखकः :|]]
प्रथमपरिच्छेदः, अध्यायः २ →

अथ प्रथमोऽध्यायः


सर्वलोकेश्वरो विष्णुः सृष्ट्याद्यष्टकृदीश्वरः ।
यथा ससर्ज निखिलं तन्मे ब्रूहि जगद्गुरो ।। १.१ ।।

श्रीहंस उवाच


नारायणोऽनन्तशक्तिः पूर्णानन्दोऽक्षरः स्वराट् ।
ज्ञनानन्दात्मकानन्ततनुरासीदिति श्रुतिः ।। १.२ ।।

तस्य स्वतन्त्रस्य हरेः साकल्येन महात्मनः ।
स्वरूपं नैव जानन्ति रमाब्रह्मादयोपि तु ।। १.३ ।।

तथापि ते प्रवक्ष्यामि यथा जानासि तत्वतः ।
पूर्णकामस्य तस्यास्य सृष्ट्याद्यैर्न प्रयोजनं ।। १.४ ।।

स्वभावस्तादृशस्तस्य तदर्थं तत्करोत्यजः ।
स एव भगवानात्मा चराचरनियामकः ।। १.५ ।।

अण्डमावरणान्सर्वान्प्राकृतान्पुरुषोत्तमः ।
सङ्कर्षणो नृसिंहेन रूपेणाग्रसदीश्वरः ।। १.६ ।।

ततः सर्वान्पूर्वकल्पमुक्तान्बद्धांश्च चेतनान् ।
स्वोदरे स्थाप्य भगवान्स्वप्रकाशोऽस्वपत्सुखी ।। १.७ ।।

दशावरणसंयुक्तब्रम्हाण्डस्य स्तिथौ मितिः ।
यावत्प्रदेशस्तत्तुल्यरूपा श्रीरुदरूपिणी ।। १.८ ।।

तावद्रूपवती भूमिः वटपत्राभवत्पुरा ।
दुर्गा तावत्परिमिता अन्धकारस्वरूपिणी ।। १.९ ।।

तदा रमाविना कश्चिन्नान्यदासीद्बहिस्थले ।
शून्यनाम्नः शिशोर्गर्भे सर्वे जीवास्तदावसन् ।। १.१० ।।

तदूर्ध्वकुक्षिगा मुक्ताः प्रभवन्ति महालये ।
मुक्तियोग्या मध्यकुक्षौ नित्यबद्धास्तु नभितः ।। १.११ ।।

अधोसुराः कटितटे प्राप्तदुःखास्तदूर्ध्वगाः ।
वसन्ति क्ळ्प्तानन्दस्ते मुक्ता भुञ्जन्ति नेतराः ।। १.१२ ।।

प्राप्तव्यान्प्रलयेनैव तेषां दास्यति माधवः ।
हित्वा प्राप्तव्यमानन्दं क्ळ्प्तानन्दैकभोजिनां ।। १.१३ ।।

वैकुण्ठादि विहारञ्च हित्वा गर्भस्थितिर्हरेः ।
प्रलये सर्वमुक्तानां नाश इत्युच्यतेब्जज ।। १.१४ ।।

सुखदुःखादि भोगार्हाः इच्छाज्ञानस्वरूपिणः ।
द्वेषधर्माधर्मयत्ननिरता जीवराशयः ।। १.१५ ।।

लिङ्गबद्धाः समस्ताश्च सृष्टौ जीवाश्चरन्ति हि ।
साम्यावस्थामुपगताः लिङ्गदेह समन्विताः ।। १.१६ ।।

लये वसन्तीशगर्भे पूर्वशक्तिस्तदानहि ।
तदासर्वे गाढनिद्रामुपगच्छन्ति तादृशाः ।। १.१७ ।।

लय इत्युच्यते सद्भिः न लयोस्ति स्वरूपतः ।
सर्वजीवस्वरूपस्थाः ज्ञानव्यञनशक्तयः ।। १.१८ ।।

मनोवृत्तिज्ञानदानशक्तिर्याश्रुतेर्मता ।
लयेजीवाद्यभावेन सा शक्तिः कुण्ठिता भवेथ् ।। १.१९ ।।

व्याप्तेश्वरमतिस्थानां श्रुतीनां तादृशो लयः ।
अण्डादिजडजीवानां व्योमाव्याकृतसंज्ञकं ।। १.२० ।।

आश्रयं सृष्टिकालेतत्प्रलये कुण्ठितं भवेत् ।
देशस्याव्याकृतस्यास्य नाश इत्युच्यते लये ।। १.२१ ।।

समस्त लिङ्गदेहानां तत्तत्कर्मानुसारतः ।
नानायोनि प्रापिकास्ति शक्तिः सृष्टौ लये न तु ।। १.२२ ।।

सुखदुःखप्रदाशक्तिः समस्तकृतकर्मणां ।
सृष्टौ लये न सा विष्णोराज्ञया कुण्ठिता भवेथ् ।। १.२३ ।।

तादृशो हि लयस्तस्य न स्वरूपलयस्मृतः ।
वर्णेषु सर्वभाषाभिव्यञ्जका शक्तिरिष्यते ।। १.२४ ।।

सृष्टौ न सास्ति प्रलये तेषां नाशो हि तादृशः ।
तमः स्थानां पूर्वक्ळ्प्तदुःखभोगो लयः स्मृतः ।। १.२५ ।।

प्रकृत्यात्मकलिङ्गस्य जडायाः प्रकृतेस्तथा ।
सूक्ष्माणां स्थूलकत्वानां त्रिगुणस्यापि कृत्स्नशः ।। १.२६ ।।

स्रष्टृत्वशक्तिः सृष्टौ हि न लये स्यत्ततो लयः ।
हित्वा जगत्सर्जनाद्यं सर्वदा श्रीपतौ रतिः ।। १.२७ ।।

अतिसामीप्यसेवा हि लयो लक्ष्म्याः प्रकीर्तितः ।
अनित्यस्याचेतनस्य अण्डान्तर्बहिरेव वा ।। १.२८ ।।

क्रमात्सङ्कर्षणाग्नेस्तु दाहो नाश उदहृतः ।
देशतः कालतो व्याप्ता वर्णासर्वेपि शाश्वताः ।। १.२९ ।।

जडा च प्रकृतिर्नित्या जडरूपाणुरेव च ।
देशतः कालतो व्याप्ताचिद्रूपाः श्रीहरेःःसदा ।। १.३० ।।

अनन्तगुणतो नीचा गुणतोऽनन्तरिश्वरे ।
लये समाश्रिताःसर्वे वसन्ति क्षीणशक्तयः ।। १.३१ ।।

सम्पूर्णशक्ते भगवत्यनन्ते देशकालतः ।
परमाणुमितानन्तानन्तरूपः सदा हरिः ।। १.३२ ।।

तदभिन्नानन्तसूक्ष्मस्थूलरूपो हरिः परः ।
समस्तजीवरूपोरुसूक्ष्मस्थूलस्वरूपकः ।। १.३३ ।।

समस्तजडरूपानन्तानन्तरूपो जगद्गुरुः ।
अनन्तानन्तरपैरप्यभिन्नो निर्गुणो हरिः ।। १.३४ ।।

सर्वतः पाणिपादात्मा सर्वतोऽक्षिशिरोमुखः ।
सर्वत्र सर्वेन्द्रियावान्सर्वमावृत्य तिष्ठति ।। १.३५ ।।

अप्राकृतेन्द्रियानन्तरूपकः परमाद्भुतः ।
असङ्गः सर्वविच्चैव निर्गुणो गुणपूरितः ।। १.३६ ।।

बहिरन्तश्च भूतानां अचरश्चर एव च ।
अव्यक्तोव्यक्तरूपश्च साधुःसत्साक्षिगोचरः ।। १.३७ ।।

एकोप्यनेकवद्भाति नित्यसत्यो महासुखः ।
अनन्तवेदगम्यश्च सृष्ट्याद्यष्टकृदीश्वरः ।। १.३८ ।।

स्वतन्त्रोवर्णनीयोरुरुपानन्तस्तु चित्तनुः ।
स्वानन्तानन्तचिन्मात्रदेहमध्यैकदेशगः ।। १.३९ ।।

योगनिद्रामुपगतो विनिद्रोऽस्वपदीश्वरः ।
अण्डस्यावरणस्योपचयं दग्ध्वा लये हरिः ।। १.४० ।।

उपादानं प्रकृत्यैकीभूतं कृत्वा नृकेसरी ।
अनिरुद्धादि मुखगं सङ्कर्षण नृसिंहतः ।। १.४१ ।।

सर्वसूक्ष्मशरीरोपचयं दग्ध्वाखिलेश्वरः ।
तदुपादानभूतानि लिङ्गैरेकीकरोत्यजः ।। १.४२ ।।

तदास्तरणरूपाभूः श्रीर्भार्यारूपिणी परा ।
दुर्गा प्रावरणाकारा हरेरमिततेजसः ।। १.४३ ।।

स्वानेव सुगुणान्भुञ्जनसुप्ताभूत्सुसुप्तवत् ।
मुक्ताभुक्तोदरो विष्णुः अनन्तानन्तभानुरुक् ।। १.४४ ।।

स्वप्रकाशोस्वपद्योगनिद्रयावटपत्रगः ।
सृष्टिकाले सर्वजीवाः नानादुःखसमाकुलाः ।। १.४५ ।।

भ्रमन्ति सर्वजीवानां तत्तच्छ्रमनिवृत्तये ।
लये स्वापं प्रापयति लिङ्गबद्धान्स्वदेहगान् ।। १.४६ ।।

अनादियोग्ताकर्मभावाज्ञानाकुलान्बहून् ।
सृज्यान्विलक्षणान्तारतम्यस्थान्त्रिविधात्मकान् ।। १.४७ ।।

स्वल्पनिद्रान्महानिद्रान्गढनिद्रासमन्वितान् ।
चिन्मात्रानन्दभुङ्मुक्तान्सदा दुःखभुजोऽसुरान् ।। १.४८ ।।

तमःसंस्थान्सदा बद्धान्जठरे स्थाप्य केशवः ।
वटपत्रे स्वपद्देवो निद्रामाचरतीव सः ।। १.४९ ।।

तेषु सृज्यान्स्वयं सृष्ट्वा यथायोग्यफलं विभुः ।
सुखं मिश्रं तथा दुःखं दातुमैच्छल्लयान्तिमे ।। १.५० ।।

लयास्यष्टमो भागो लयान्तिम उदाहृतः ।
लये समालिङ्य हरिं विनिद्रा परमेश्वरी ।। १.५१ ।।

निद्रिते वा सदानन्दवारिधिं समुपाश्रिता ।
लयष्टमांशे श्रीदेवी अस्वतन्त्रा स्वतन्त्रतः ।। १.५२ ।।

प्रबुद्धाचाज्ञया विष्णोः स्तोतुं समुपचक्रमे ।
देशतः कालतोऽनन्ता गुणानन्त्यविवर्जिता ।। १.५३ ।।

ब्रह्मवाय्वोः कोटिगुणैः अधिका विष्णुवल्लभा ।
लये सृष्टौ सर्वनित्यपदार्थेष्वभिमानिनी ।। १.५४ ।।

सृष्ट्याद्यष्टकरी विष्णोः आज्ञयानन्तरूपिणी ।
छायेव सूक्ष्मस्थूलोरु रूपं विष्णुं समाश्रिता ।। १.५५ ।।

विष्णोरनन्तवेदेषु प्रोक्तान्तदधिकानपि ।
गुणान्संजानती साक्षात्सर्ववेदाभिमानिनी ।। १.५६ ।।

अवर्णणीयसौन्दर्या सर्वजीवाभिमानिनी ।
शुभ्रेषु मुक्तियोग्येषु शुभ्रा (मुक्ता) श्रीरभिमानिनी ।। १.५७ ।।

रक्तेषु सर्वबद्धेषु रक्ताभूरभिमानिनी ।
नीलेष्वयोग्यजीवेषु नीला दुर्गाभिमानिनी ।। १.५८ ।।

प्रकृति प्रकृतौ साम्यवैषम्यादि प्रवर्तका ।
अछिन्ना भगवद्भक्ता जडेषु जडरूपिणी ।। १.५९ ।।

चित्सुचिद्रूपिणी स्त्रीषु स्त्रीचेष्टादि प्रवर्तका ।
पुरुषाकृतिरुत्कृष्टा पुंभावपरिवर्जिता ।। १.६० ।।

अव्यक्ततत्कार्यमय देहशून्या तथाविधा ।
स्वयं श्रीः विष्णुभावज्ञा वेदैस्तुष्टाव वेदविथ् ।। १.६१ ।।

ते वेदाः ऋग्यजुःसामाथर्वणाः श्रीहरेर्वशाः ।
चत्वारोपि पृथग्जात्या अनन्ता दोषवर्जिताः ।। १.६२ ।।

उदात्तादि स्वरार्थादि वर्णक्रमसमागमाः ।
विसर्गबिन्दुपूर्वोरुशब्दयोग्यगुणोच्चयैः ।। १.६३ ।।

अनन्तकालमरभ्यरिषद्वेत्यासवर्जिताः ।
सांशा समस्तदेशेषु व्याप्ताः शुद्धजडाः सदा ।। १.६४ ।।

गुणाख्यानपरा विष्णोः शब्ददोषविवर्जिताः ।
ज्ञतज्ञापकता तेषु विपरीतार्थवक्तृता ।। १.६५ ।।

अस्पष्टत्वादयस्तेषु वाददोषानसन्त्यलं ।
ध्वनिरूपा सृष्टिकाले वाक्स्था वाग्देवतावशाः ।। १.६६ ।।

लये लक्ष्मीवशाः सृष्टौ ब्रह्माद्यैरभिमानिभिः ।
रक्षिताः प्रलये सृष्टावेकरूपा भवन्ति हि ।। १.६७ ।।

अनन्तानन्तसंख्याताः विष्णोः ज्ञाने च साधकाः ।
सर्वदेशगतानन्ता कण्ठस्थास्तस्य शार्ङ्गिणः ।। १.६८ ।।

कण्ठेनोद्गीयमनास्ते जीवानां योग्यतावशात् ।
तत्तत्स्वरूपविज्ञानव्यञ्जकाः श्रीहरीच्छया ।। १.६९ ।।

वृत्तिज्ञानोत्पादशौण्डाः अ(योग्या)थाज्ञानाममबोधकाः ।
शब्दरूपाःसाक्षियुक्तमनः श्रोत्रैकगोचराः ।। १.७० ।।

सर्वशब्दात्मकहरेः बिम्बस्य प्रतिबिम्बकाः ।
शब्दरूपा वेदगता दुर्गा सानन्तरूपिणी ।। १.७१ ।।

पुरुषोद्बोधितुं ज्ञात्वा तुष्टाव पुरुषं परं ।
अनन्तात्मानन्तशक्तिः ओं(आ)कारादि श्रुतिव्रजान् ।। १.७२ ।।

नित्यान्सव्यञ्जयन्तेषां सृष्टौ दुर्गामुपादिशत् ।
प्रलयस्याष्टमे भागे वेदस्रष्टुर्जगत्पतेः ।। १.७३ ।।

ओं(अ)कारः प्रथमो व्यक्तो बभूव भगवन्मयः ।
ॐआनादबिन्दू च घोषशान्तातिशान्तकाः ।। १.७४ ।।

यत्स्वरूपाश्च विश्वाद्याः यद्वाच्या यद्गताः पराः ।
ओङ्कारवाच्यः पुरुषः पुत्रास्ते नित्यचिन्मयाः ।। १.७५ ।।

ते विश्वतैजसप्राज्ञतुर्यात्मान्तरात्मनां ।
परमात्मज्ञानात्मकानां रूपाणां वाचका हरेः ।। १.७६ ।।

तारप्रणवशब्दाभ्यां वाच्य ओङ्काररिरितः ।
नारायणाष्टाक्षराख्यः तरगर्भाक्षरैरभूथ् ।। १.७७ ।।

अभिव्यक्तोथ विश्वादिर्व्यक्तविश्वादयोखिलाः ।
नारायणमनोर्वाच्याः देवताः परिकीर्तिताः ।। १.७८ ।।

तारगर्भाक्षरैराद्यैश्चतुर्भिरभवन्मनुः ।
व्याहृत्याख्योऽनिरुद्धाद्याः विश्वाद्युत्था तदीरिताः ।। १.७९ ।।

तारगर्भाक्षरैर्व्यक्ताः वर्णाः पञ्चाशदीरिताः ।
अकौचटौतपौ तद्वद्यशौ अष्टा उदाहृताः ।। १.८० ।।

अष्टवर्णाः अकारोत्थाः अचः षोडशसंमताः ।
पञ्चवर्णाः कवर्गस्य उकारोत्थाः प्रकीर्तिताः ।। १.८१ ।।

मकारोत्थाश्चवर्गस्य पञ्चवर्णाः प्रकीर्तिताः ।
टवर्गपञ्चवर्णास्तु नादोत्था इति संमताः ।। १.८२ ।।

पञ्चवर्णास्तवर्गस्य बिन्दुव्यक्ता उदाहृताः ।
पवर्गपञ्चवर्णास्तु घोषतः सम्भवन्ति हि ।। १.८३ ।।

यवर्गस्य चतुर्वर्णाः व्यक्तिं यास्यन्ति शान्तितः ।
अतिशान्ताच्छवर्गस्य पञ्चवर्णाःसमुत्थिताः ।। १.८४ ।।

कषयोगादभिव्यक्तः क्षोप्यन्योक्षर उच्यते ।
पञ्चाशतान्तुवर्णानां तारवर्णाष्ट दैवतैः ।। १.८५ ।।

विश्वादिभिः क्रमाद्व्यक्ताः अजाद्या देवतामताः ।
अज आनन्द इन्द्रेश उग्र ऊर्ज ऋतम्भरः ।। १.८६ ।।

ॠघःळ्शौ लॄजिरेकात्मैर ओजोभृदौरसः ।
अन्तोर्धगर्भः कपिलः खपतिर्गरुडासनः ।। १.८७ ।।

घर्मोङ्गसारश्चार्वङ्गश्छन्दोगम्यो जनार्दनः ।
झडितारिञमष्टङ्की ठलको डरको ढरी ।। १.८८ ।।

णात्मातारस्थपोदण्डी धन्वी नम्यः परः फली ।
बलिर्भगोमनुर्यज्ञो रामो लक्षीपतिर्वरः ।। १.८९ ।।

शान्तसंवित्षड्गुणश्च सारात्मा हंसलालुकौ ।
अकाराद्यैःसर्ववर्णैर्वाच्या एते प्रकीर्तिताः ।। १.९० ।।

क्षवाच्यो नृसिंहस्तु सर्वजीवनियामकः ।
एकपञ्चाशद्वर्णात्मा मतृकामन्त्ररिरितः ।। १.९१ ।।

नारायणाष्टवर्णाश्च चतुर्व्याहृतिभिः क्रमात् ।
वासुदेवद्वादशार्णमन्त्रोभून्महदात्मकः ।। १.९२ ।।

केशवाद्याः द्वादशैव तन्मन्त्राक्षर देवताः ।
त्रिवारं विष्णुनैवोक्तान्मन्त्रान्नारायणादभूथ् ।। १.९३ ।।

गयत्री ब्रह्मःऋषिका द्विगुणाद्वादशाक्षरात् ।
केशवाद्याश्चतुर्विंशत्गायत्रीवर्णदेवताः ।। १.९४ ।।

गायत्र्याः पौरुषं सूक्तं सूक्तान्मन्त्रास्तु वैष्णवाः ।
पुंसूक्तप्रतिपाद्यस्तु पुरुषो हरिरीरितः ।। १.९५ ।।

विष्णुमन्त्रोदितो विष्णुः सर्वात्मा परिकीर्तितः ।
प्रणवोष्टौ व्याहृतयो मात्रृकाद्वादशाक्षरौ ।। १.९६ ।।

गायत्री ब्रह्मःऋषिका पुंसूक्तं वैष्णवं तथा ।
अष्टावेते महामन्त्राः वैदिकाःसर्वसिद्धिदाः ।। १.९७ ।।

पुंसूक्तात्सर्ववेदानां व्यक्तिरासीदिति श्रुतिः ।
दुर्गयानन्तरूपिण्यानन्त वेदोदितो हरिः ।। १.९८ ।।

तयार्थितोऽखिलाध्यक्षः स्वात्मासृष्टिमचीक्ळ्पथ् ।। १.९९ ।।

इति श्री परतत्तवनिर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे प्रथमोऽध्यायः