परिव्रात् उपनिषद् (नारदपरिव्राजक)/उपदेशः ९
← उपदेशः ८ | परिव्रात् उपनिषद् (नारदपरिव्राजक) उपदेशः ९ [[लेखकः :|]] |
अथ ब्रह्मस्वरूपं कथमिति नारदः पप्रच्च्ह ।
तं होवाच पितामहः किं ब्रह्मस्वरूपमिति ।
अन्योसावन्योहमस्मीति ये विदुस्ते पशवो न स्वभाव
पशवस्तमेवं ज्ञात्वा विद्वान्मृत्युमुखात्प्रमुच्यते
नान्यः पन्था विद्यतेऽयनाय ।
कालः स्वभावो नियतिर्यदृच्च्हा
भूतानि योनिः पुरुष इति चिन्त्यम् ।
संयोग एषां नत्वात्मभावा
दात्मा ह्यनीशः सुखदुःखहेतोः ॥ १॥
ते ध्यानयोगानुगता अपश्यन्
देवात्मशक्तिं स्वगुणैर्निगूढाम् ।
यः कारणानि निखिलानि तानि
कालात्मयुक्तान्यधितिष्ठत्येकः ॥ २॥
तमेकस्मिंस्त्रिवृतं षोडशान्तं
शतार्धारं विंशप्रतित्यराभिः ।
अष्टकैः षड्भिर्विश्वरूपैकपाशं
त्रिमार्गभेदं द्विनिमित्तैकमोहम् ॥ ३॥
पञ्चस्रोतोम्बुं पञ्चयोन्युग्रवक्त्रां
पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम् ।
पञ्चावर्तां पञ्चदुःखौघवेगां
पञ्चशद्भेदां पञ्चपर्वामधीमः ॥ ४॥
सर्वाजीवे सर्वसंस्थे बृहन्ते
तस्मिन्हंसो भ्राम्यते ब्रह्मचक्रे ।
पृथगात्मानं प्रेरितारं च मत्वा
जुष्टस्ततस्तेनामृतत्वमेति ॥ ५॥
उद्गीथमेतत्परमं तु ब्रह्म
तस्मिंस्त्रयं स्वप्रतिष्ठाक्षरं च ।
अत्रान्तरं वेदविदो विदित्वा
लीनाः परे ब्रह्मणि तत्परायणाः ॥ ६॥
संयुक्तमेतत्क्षरमक्षरं च
व्यक्ताव्यक्तं भरते विश्वमीशः ।
अनीशश्चात्मा बध्यते भोक्तृभावा
ज्ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ ७॥
ज्ञाज्ञौ द्वावजावीशनीशावजा
ह्येका भोक्तृभोगार्थयुक्ता ।
अनन्तश्चात्मा विश्वरूपो ह्यकर्ता
त्रयं यदा विन्दते ब्रह्ममेतत् ॥ ८॥
क्षरं प्रधानममृताक्षरं हरः
क्षरात्मानावीशते देव एकः ।
तस्याभिध्यानाद्योजनात्तत्त्वभावा
द्भूयश्चान्ते विश्वमायानिवृत्तिः ॥ ९॥
ज्ञात्वा देवं मुच्यते सर्वपाशैः
क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः ।
तस्याभिध्यानात्तृतयं देहभेदे
विश्वैश्वर्यं केवल आत्मकामः ॥ १०॥
एतज्ज्ञेयं नित्यमेवात्मसंस्थं
नातः परं वेदितव्यं हि किञ्चित् ।
भोक्ता भोग्यं प्रेरितारं च मत्वा
सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ ११॥
आत्मविद्या तपोमूलं तद्ब्रह्मोपनिषत्परम् ।
य एवं विदित्वा स्वरूपमेवानुचिन्तयं
स्तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ १२॥
तस्माविराड्भूतं भव्यं
भविष्यद्भवत्यनश्वरस्वरूपम् ।
अणोरणीयान्महतो महीया
नात्मास्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुं पश्यति वीतशोको
धातुःप्रसादान्महिमानमीशम् ॥ १३॥
अपाणिपादो जवनो ग्रहीता
पश्यत्यचक्षुः स श्रुणोत्यकर्णः ।
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता
तमाहुरग्र्यं पुरुषं महान्तम् ॥ १४॥
अशरीरं शरीरेष्वनवस्थेश्ववस्थितम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ १५॥
सर्वस्य धातारमचिन्त्यशक्तिं
सर्वागमान्तार्थविशेषवेद्यम् ।
परात्परं परमं वेदितव्यं
सर्वावसाने सकृद्वेदितव्यम् ॥ १६॥
कविं पुराणं पुरुषोत्तमोत्तमं
सर्वेश्वरं सर्वदेवैरुपास्यम् ।
अनादि मध्यान्तमनन्तमव्ययं
शिवाच्युताम्भोरुहगर्भभूधरम् ॥ १७॥
स्वेनावृतं सर्वमिदं प्रपञ्चं
पञ्चात्मकं पञ्चसु वर्तमानम् ।
पञ्चीकृतानन्तभवप्रपञ्चं
पञ्चीकृतस्वावयवैरसंवृतम् ।
परात्परं यन्महतो महान्तं
स्वरूपतेजोमयशाश्वतं शिवम् ॥ १७॥
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमनसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ १८॥
नान्तःप्रज्ञं न बहिःप्रज्ञं न स्थूलं नास्थूलं
न ज्ञानं नाज्ञानं नोभयतःप्रज्ञमग्राह्य
मव्यवहार्यं स्वान्तःस्थितः स्वयमेवेति य एवं वेद
स मुक्तो भवति स मुक्तो भवतीत्याह भगवान्पितामहः ।
स्वस्वरूपज्ञः परिव्राट् परिव्राडेकाकी चरति
भयत्रस्तसारङ्गवत्तिष्ठति । गमनविरोधं न करोति ।
स्वशरीरव्यतिरिक्तं सर्वं त्यक्त्वा ष्ट्पदवृत्त्या स्थित्वा
स्वरूपानुसन्धानं कुर्वन्सर्वमनन्यबुद्ध्या
स्वस्मिन्नेव मुक्तो भवति । स परिव्राट् सर्वक्रियाकारकनिवर्तको
गुरुशिष्यशास्त्रादिविनिर्मुक्तः सर्वसंसारं विसृज्य
चामोहितः परिव्राट् कथं निर्धनिकः सुखी धनवा
ञ्ज्ञानाज्ञानोभयातीतः सुखदुःखातीतः
स्वयंज्योतिप्रकाशः सर्ववेद्यः सर्वज्ञः सर्वसिद्धिदः
सर्वेश्वरः सोऽहमिति । तद्विष्णोः परमं पदं यत्र
गत्वा न निवर्तन्ते योगिनः । सूर्यो न तत्र भाति
न शशाङ्कोऽपि न स पुनरावर्तते न स पुनरावर्तते
तत्कैवल्यमित्युपनिषत् ॥
इति नवमोपदेशः ॥ ९॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा{\म्+}सस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति नारदपरिव्राजकोपनिषत्समाप्ता ॥