बृहत्संहिता/अध्यायः १२
← अध्यायः ११ | बृहत्संहिता अध्यायः १२ वराहमिहिरः |
अध्यायः १३ → |
१२ अगस्त्यचाराध्यायः ।।
समुद्रो +अन्तः शैलैर्मकरनखरौत्खातशिखरैः
कृतस्तोयौच्छित्त्या सपदि सुतरां येन रुचिरः ।
पतन्मुक्तामिश्रैः प्रवरमणिरत्नाम्बुनिवहैः
सुरान्प्रत्यादेष्टुं *मित[क्.सित]मुकुटरत्नानिव पुरा ।। १२.०१ ।।
येन चाम्बुहरणे +अपि विद्रुमैर्भूधरैः समणिरत्नविद्रुमैः ।
निर्गतैस्तदुरगैश्च राजितः सागरो +अधिकतरं विराजितः ।। १२.०२ ।।
प्रस्फुरत्तिमिजलेभजिह्मगः क्षिप्तरत्ननिकरो महोदधिः ।
आपदां पदगतो +अपि यापितो येन पीतसलिलो +अमरश्रियम् ।। १२.०३ ।।
प्रचलत्तिमिशुक्तिजशङ्खचितः सलिले +अपहृते +अपि पतिः सरिताम् ।
सतरङ्गसितोत्पलहंसभृतः सरसः शरदिइव विभर्ति *रुचिम्[क्.रुचम्] ।। १२.०४ ।।
तिमिसिताम्बुधरं मणितारकं स्फटिकचन्द्रं अनम्बुशरद्द्युतिः ।
फणिफणौपलरश्मिशिखिग्रहं कुटिलगेशवियच्च चकार यः ।। १२.०५ ।।
दिनकररथमार्गविच्छित्तये +अभ्युद्यतं यच्चलत्शृङ्गं उद्भ्रान्तविद्याधरांसावसक्तप्रियाव्यग्रदत्ताङ्कदेहावलम्बाम्बर*अत्य्[क्.अभ्य्]उच्छ्रितौद्धूयमानध्वजैः शोभितम् ।
करिकटमदमिश्ररक्तावलेहानुवासानुसारिद्विरेफावलीनौत्तमाङ्गैः कृतान्बाणपुष्पैरिवौत्तंसकान्धारयद्भिर्मृगेन्द्रैः सनाथीकृतान्तर्दरीनिर्झरम् ।
गगनतलं इवौल्लिखन्तं प्रवृद्धैर्गजऽकृष्टफुल्लद्रुमत्रासविभ्रान्तमत्तद्विरेफऽवली*हृष्ट[क्.गीत]मन्द्रस्वनैः शैलकूटैस्तरक्षऋक्षशार्दूलशाखामृगाध्यासितैः ।
रहसि मदनसक्तया रेवया कान्तयाइवौपगूढं सुराध्यासितौद्यानं अम्भोशनान्नमूलानिलाहारविप्रान्वितं विन्ध्यं अस्तम्भयद्यश्च तस्यौदयः श्रूयताम् ।। १२.०६ ।।
उदये च मुनेरगस्त्यनाम्नः कुसमायोगमलप्रदूषितानि ।
हृदयानि सतां इव स्वभावात्पुनरम्बूनि भवन्ति निर्मलानि ।। १२.०७ ।।
पार्श्वद्वयाधिष्ठितचक्रवाकामापुष्णती सस्वनहंसपङ्क्तिम् ।
ताम्बूलरक्तौत्कषिताग्रदन्ती विभाति योषाइव *शरत्[क्.सरित्] सहासा ।। १२.०८ ।।
इन्दीवरऽसन्नसितोत्पलान्विता *शरद्[क्.सरित्] भ्रमत्षट्पदपङ्क्तिभूषिता ।
सभ्रूलताक्षेपकटाक्षवीक्षणा विदग्धयोषाइव विभाति सस्मरा ।। १२.०९ ।।
इन्दोः पयोदविगमोपहितां विभूतिं
द्रष्टुं तरङ्गवलया कुमुदं निशासु ।
उन्मीलयत्यलिनिलीनदलं सुपक्ष्म
वापी विलोचनं इवासिततारकान्तम् ।। १२.१० ।।
नानाविचित्राम्बुजहंसकोककारण्डवऽपूर्णतडागहस्ता ।
रत्नैः प्रभूतैः कुसुमैः फलैश्च भूर्यच्छतीवार्घं अगस्त्यनाम्ने ।। १२.११ ।।
सलिलं अमरपाज्ञयाउज्झितं यद्धनपरिवेष्टितमूर्तिभिर्भुजङ्गैः ।
फणिजनितविषाग्निसम्प्रदुष्टं भवति शिवं तदगस्त्यदर्शनेन ।। १२.१२ ।।
स्मरणादपि पापं अपाकुरुते किं उत स्तुतिभिर्वरुणाङ्गरुहः ।
मुनिभिः कथितो +अस्य यथार्घविधिः कथयामि तथएव नरेन्द्रहितम् ।। १२.१३ ।।
संख्याविधानात्प्रतिदेशं अस्य विज्ञाय सन्दर्शनं आदिशेज्ज्ञः ।
तच्च*उज्जयिन्याम्[क्.उज्जयन्याम्] अगतस्य कन्यां भागैः स्वराख्यैः स्फुटभास्करस्य ।। १२.१४ ।।
ईषत्प्रभिन्ने +अरुणरश्मिजालैर्नैशे +अन्धकारे दिशि दक्षिणस्याम् ।
सांवत्सरावेदितदिग्विभागे भूपो +अर्घं उर्व्यां प्रयतः प्रयच्छेत् ।। १२.१५ ।।
कालोद्भवैः सुरभिभिः कुसुमैः फलैश्च
रत्नैश्च सागरभवैः कनकाम्बरैश्च ।
धेन्वा वृषेण परमान्नयुतैश्च भक्ष्यैर्
दध्यक्षतैः सुरभिधूपविलेपनैश्च ।। १२.१६ ।।
नरपतिरिमं अर्घं श्रद्दधानो दधानः
प्रविगतगददोषो निर्जितारातिपक्षः ।
भवति यदि च दद्यात्सप्त वर्षाणि सम्यग्
जलनिधि*रशनायाः[क्.रसनायाः] स्वामितां याति भूमेः ।। १२.१७ ।।
द्विजो यथालाभं उपाहृतार्घः प्राप्नोति वेदान्प्रमदाश्च पुत्रान् ।
वैश्यश्च गां भूरि घनं च शूद्रो रोगक्षयं धर्मफलं च सर्वे ।। १२.१८ ।।
रोगान्करोति परुषः कपिलस्त्ववृष्टिं
धूम्रो गवां अशुभकृत्स्फुरणो भयाय ।
माञ्जिष्ठरागसदृशः क्षुधं आहवांश्च
कुर्यादणुश्च पुररोधं अगस्त्यनामा ।। १२.१९ ।।
शातकुम्भसदृशः स्फटिकाभस्तर्पयन्निव महीं *किरणाग्रैः[क्.किरणौघैः] ।
दृश्यते यदि *तदा[क्.ततः] प्रचुरान्ना भूर्भवत्यभयरोगजनऽढ्या ।। १२.२० ।।
उल्कया विनिहतः शिखिना वा क्षुद्भयं मरकं एव *विधत्ते[क्.धत्ते] ।
दृश्यते स किल हस्तगते +अर्के रोहिणीं उपगते +अस्तं उपैति ।। १२.२१ ।।