६
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥
जातमिति । पुष्कलावर्तकानां मेघानाम् । कूटस्थाः केचन मेघाः पुष्कलावर्तकाः । प्रकृतिपुरुषम् अमात्यादिप्रकृतिवर्गस्थं पुरुषम् । कामरूपम् इच्छाधीनविग्रहम् । इदं विशेषणं दुर्गादिगमनार्थम् । वक्ष्यति – ‘तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी’ति, ‘गत्वा सद्यः कलभतनुतामि’ति च । तेनाभिजात्यप्रभुत्वपरिज्ञानेन । अर्थित्वम् अभ्यर्थनाम् । विधिवशाद् दूरबन्धुः इत्यन्वयः । दूरबन्धुर्दूरस्थभार्यः । बध्नातीति बन्धुरिति व्युत्पत्त्या बन्धुशब्दो भावबन्धिन्यां भार्यायां वर्तते । बन्धुशब्दपर्यायेण सुहृत्पदेन भार्यापि गृह्यते –-
गिरीणामधिको मेरुर्देवानां मधुसूदनः ॥"
इति । मोघा व्यर्था निरर्थका । वरमीषत्प्रियम् । वरिष्ठाश्रयणे तु वरेति वक्तव्यम् । अत्रामरसिंहः –- 'देवाद् वृते वरः श्रेष्ठे त्रिषु क्लीबे मनाक्प्रिये’ इति । अधिगुणे सगुण इत्यर्थः । अधमे निर्गुणे । लब्धकामा लब्धप्रार्थनीया । अधिगुणे मोघापि याच्ञा वरमीषत्प्रियमित्यर्थः । अलाभादप्रिया च भवतीत्यभिप्रायेण मनाक्प्रियमित्युक्तम् । अधमे यच्ञा लब्धकामापि न वरमित्यन्वयः ॥ ६ ॥ का वा भवतो याच्ञा इत्यपेक्षायामाह –-
सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां
सन्तप्तानामिति । आतपसन्तप्तानां कामसन्तप्तानां च । ननु कामसन्तप्तानां मेघालोकनं विरोधि । उक्तं च ‘कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे’ इति । तत् कथं कामसन्तप्तानामित्यर्थो गृह्यते । उच्यते । मेघः खलु प्रोषितप्रियतमप्रेरणया तान् प्रोषितान् प्रियत-
७
-माभिः सङ्गमय्य तेषां मिथुनानां सन्तापं हरति । तस्मात् सन्तप्तानां त्वमसि शरणमित्युक्तम् । वक्ष्यति ‘यो वृन्दानि त्वरयति’ इति । मे सन्देशं प्रियाया हर इत्यन्वयः । कुत्र स्थिता सा प्रिया, तत्स्थानस्य नाम किं लक्षणं चेत्यपेक्षायामाह –- गन्तव्येति । अलका नाम, नामशब्दः प्रसिद्धौ । यक्षेश्वराणां यक्षमुख्यानाम् । बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या इत्यनेन लक्षणमुक्तम् । अत्र केचित् कैलासालयवर्तिनः परमेश्वरस्यालकोद्याने चैत्ररथेऽवस्थानमयुक्तमिति मन्यमाना एवं व्याचक्षते -– कैलासोत्सङ्गवर्तिन्या अलकाया बहिर्निस्सरणप्रदेश उद्यानशब्देन विवक्षितः । ‘स्यादुद्यानं निस्सरणे वनभेदे प्रयोजने’ इत्यमरसिंहवचनाद् इति ॥७॥
यदि भवान् मत्कार्ये सन्नह्यति, तन्न केवलं ममैवाश्वासकम्, अन्यस्यापि जनस्येत्यभिप्रायेणाह –-
प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसत्यः
कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायां
त्वामारूढमिति । पवनपदवीम् आकाशम् । उद्गृहीतालकान्ताः प्रियविरहात् कपोललम्बित्वादलकानामुद्ग्रहणमुक्तम् । प्रत्ययात् प्रियागमनविश्वासात् । आश्वसत्य इति नुमागमरहितः पाठः । अत्र केचित् ‘क्षमूष् सहने’ इत्यस्माद् धातोः षिद्भिदादिपाठेन पित्कार्ये सिद्धे क्षमूष् इति षित्त्वं गणकार्यस्यानित्यत्वज्ञापकं भवति, अत एव ‘न विश्वसेत् पूर्वविरोधितस्य’ इत्यत्र शपो लुङ् न भवति, तथा भट्टिकाव्येऽपि ‘आश्वसेयुर्निशाचराः’ इति । तस्मादाश्वसन्त्य इति नुमागमसहितः पाठ इति व्याचक्षते । तन्न । अन्यथापि रूपसिद्धेः । यत्र गणकार्यस्यानित्यत्वमपेक्ष्यैव रूपसिद्धिर्भवति तत्रैव तदाश्रयणस्य युक्तत्वादित्यलं विस्तरेण । सन्निद्धे प्रोषितनिवर्तनोद्युक्ते । विरहविधुरां विराहक्लिष्टां विरहकृच्छ्रगतामित्यर्थः ।