८
इति यादवः । अन्योऽपि, ममासदृशोऽपि पृथग्जनोऽपीत्यर्थः । ‘अन्यौ तु भिन्नासदृशौ’ इति यादवः । अयमिव जनः (जनमिति?) इति अहमिवेत्यर्थः । अहं पराधीनवृत्तिर्यथा भवामि, तथा पृथग्जनोऽपि पराधीनवृत्तिर्न स्यात्, स कस्त्वयि सन्नद्धे जायामुपेक्षेतेत्यर्थः ॥
अनया निमित्तगत्या मत्प्रियादर्शनात् प्रागेव भवतः प्रियजनसङ्गमो भविष्यतीत्यभिप्रायेणाह –-
वामश्चायं नदति मधुरं चातकस्ते सगन्धः ।
गर्भाधानक्षमपरिचयान्नूनमाबद्धमालाः
मन्दं मन्दं नुदतीति । मन्दपवनानुकूल्यमत्र निमित्तम् । तथा महायात्रायां वराहमिहिरः -–
दुर्गन्धः क(र ? रि)दानशोषजननः सम्पृक्तलोष्टोद्गमः ।
यातुर्वायुरभीष्टदः शुभकरो यात्रानुगोऽल्पोद्यमः
इति । उक्तं च --
इति । पवनश्चेत्यत्र चकारेण निमित्तान्तरं चातकानुकूल्यं समुच्चीयते । यथाशब्दः सादृश्ये । सादृश्यं निमित्तफलयोरानुरूप्यम् ।
इति यादवः । अथवा यथाशब्दो यस्मादर्थे । प्रमाणं तु मृग्यम् । यथा त्वामनुकूलः पवनो मन्दं मन्दं नुदति, तथा वलाकासङ्गमो भविष्यतीत्यर्थः । वामो वामपार्श्वस्थः । चकारस्यार्थः पूर्वोक्तरीत्या बोद्धव्यः । नदति स्वनं करोति । मधुरं सुखश्रवम् । सगन्धः ‘स गन्धो बन्धुरिष्यते’ इति हलायुधः । ‘पितृपैतामहानमात्यान् कुर्वीत-
९
-दृष्टापदानत्वात् ते ह्येनमपचरन्तमपि न त्यजन्ति सगन्धत्वाद्” (अधि० १. अध्या० ८. प्र० ४) इति कौटिल्येन बन्धुविषये सगन्धशब्दः प्रयुक्तः । अत्रापि यथाशब्दोऽनुषञ्जनीयः । वामपार्श्वस्थस्य चातकस्य निनदो यात्रायां निमित्तमित्यत्र योगयात्रायां वराहमिहिरः –
वामाः प्रशस्ता गृहगोलिकाश्च पुंसंज्ञिता ये च पतत्रिणश्च ॥"
इति । अनेन चातकस्यापि पुंशब्देनोपादानं कृतमित्यनुसन्धेयम् । तया महायात्रायां स एव वराहमिहिरः कालविशेषमाश्रित्य चातकस्वरं निषेधति –-
शरद्यब्जाद्गोक्रौञ्चाः शावणे हस्तिचातकौ ॥"
इति । कालविशेषनिषेधादनिषिद्धे काले चातकस्वरस्य निमित्तत्वं प्रतीयते । गर्भाधानक्षमपरिचयात्, गर्भशब्दः कुक्षिस्थायिजन्तुवाचकः ।
कुक्षौ कुक्षिस्थजन्तौ च"
इति यादवः । क्षमशब्दः शक्तवाचकः ।
इत्यमरः । गर्भाधानशक्तः परिचयो गर्भाधानक्षमपरिचयः, तस्माद्धेतोः । मेघसङ्गत्या वलाका गर्भं धारयन्तीति प्रसिद्धम् ।
इति लिङ्गदर्शनं चास्ति । नूनमिति निश्चये । ‘नूनं तर्केऽर्थनिश्चय’ इत्यमरः । आबद्धमालाः आबध्दपङ्कयः आबद्धपङ्क्तयः आबद्धपुष्पस्रज इति च ध्वन्यते । नयनमुभगाः, इदं विशेषणं च बलाकासु मेघप्रियासमाधिलिङ्गम् । खे व्योम्नि । अनेन विविक्तस्थानं च ध्वन्यते ॥९॥