अर्थशास्त्रम्/अधिकरणम् ३/अध्यायः १९

विकिस्रोतः तः
← अध्यायः १८ अर्थशास्त्रम्
अध्यायः १९
कौटिलीय:
अध्यायः २० →

 दण्ड-पारुष्यं स्पर्शनं अवगूर्णं प्रहतं इति ।। ०३.१९.०१ ।।

 नाभेरधः-कायं हस्त-पङ्क-भस्म-पांसुभिरिति स्पृशतस्त्रि-पणो दण्डः । तैरेवामेध्यैः पाद-ष्ठीविकाभ्यां च षट्-पणः । छर्दि-मूत्र-पुरीष-आदिभिर्द्वादश-पणः ।। ०३.१९.०२ ।।

 नाभेरुपरि द्वि-गुणाः । शिरसि चतुर्-गुणाः समेषु ।। ०३.१९.०३ ।।

 विशिष्टेषु द्वि-गुणाः । हीनेष्वर्ध-दण्डाः । पर-स्त्रीषु द्वि-गुणाः । प्रमाद-मद-मोह-आदिभिरर्ध-दण्डाः ।। ०३.१९.०४ ।।

 पाद-वस्त्र-हस्त-केश-अवलम्बनेषु षट्-पण-उत्तरा दण्डाः ।। ०३.१९.०५ ।।

 पीडन-आवेष्टन-अञ्चन-प्रकर्षण-अध्यासनेषु पूर्वः साहस-दण्डः ।। ०३.१९.०६ ।।

 पातयित्वाअपक्रामतोअर्ध-दण्डः ।। ०३.१९.०७ ।।

 शूद्रो येनाङ्गेन ब्राह्मणं अभिहन्यात्तदस्यच्छेदयेत् ।। ०३.१९.०८ ।।

 अवगूर्णे निष्क्रयः । स्पर्शेअर्ध-दण्डः ।। ०३.१९.०९ ।।

 तेन चण्डाल-अशुचयो व्याख्यातः ।। ०३.१९.१० ।।

 हस्तेनावगूर्णे त्रि-पण-अवरो द्वादश-पण-परो दण्डः । पादेन द्वि-गुणः । दुःख-उत्पादनेन द्रव्येण पूर्वः साहस-दण्डः । प्राण-आबाधिकेन मध्यमः ।। ०३.१९.११ ।।

 काष्ठ-लोष्ट-पाषाण-लोह-दण्ड-रज्जु-द्रव्याणां अन्यतमेन दुःखं अशोणितं उत्पादयतश्चतुर्विंशति-पणो दण्डः । शोणित-उत्पादने द्वि-गुणः । अन्यत्र दुष्ट-शोणितात् ।। ०३.१९.१२ ।।

 मृत-कल्पं अशोणितं घ्नतो हस्त-पाद-पारञ्चिकं वा कुर्वतः पूर्वः साहस-दण्डः । पाणि-पाद-दन्त-भङ्गे कर्ण-नास-आच्छेदने व्रण-विदारणे च्च । अन्यत्र दुष्ट-व्रणेभ्यः ।। ०३.१९.१३ ।।

 सक्थि-ग्रीव-आभञ्जने नेत्र-भेदने वा वाक्य-चेष्टा-भोजन-उपरोधेषु च मध्यमः साहस-दण्डः समुत्थान-व्ययश्च ।। ०३.१९.१४ ।।

 विपत्तौ कण्टक-शोधनाय नीयेत ।। ०३.१९.१५ ।।

 महा-जनस्यएकं घ्नतः प्रत्येकं द्वि-गुणो दण्डः ।। ०३.१९.१६ ।।

 "पर्युषितः कलहोअनुप्रवेशो वा नाभियोज्यः" इत्याचार्याः ।। ०३.१९.१७ ।।

 नास्त्यपकारिणो मोक्ष इति कौटिल्यः ।। ०३.१९.१८ ।।

 "कलहे पूर्व-आगतो जयति । अक्षममाणो हि प्रधावति" इत्याचार्याः ।। ०३.१९.१९ ।।

 नैति कौटिल्यः ।। ०३.१९.२० ।।

 पूर्वं पश्चाद्वाअभिगतस्य साक्षिणः प्रमाणम् । असाक्षिके घातः कलह-उपलिङ्गनं वा ।। ०३.१९.२१ ।।

 घात-अभियोगं अप्रतिब्रुवतस्तदहरेव पश्चात्-कारः ।। ०३.१९.२२ ।।

 कलहे द्रव्यं अपहरतो दश-पणो दण्डः । क्षुद्रक-द्रव्य-हिंसायां तच्च तावच्च दण्डः । स्थूलक-द्रव्य-हिंसायां तच्च द्वि-गुणश्च दण्डः । वस्त्र-आभरण-हिरण्य-सुवर्ण-भाण्ड-हिंसायां तच्च पूर्वश्च साहस-दण्डः ।। ०३.१९.२३ ।।

 पर-कुड्यं अभिघातेन क्षोभयतस्त्रि-पणो दण्डः । छेदन-भेदने षट्-पणः । प्रतीकारश्च ।। ०३.१९.२४ ।।

 दुःख-उत्पादनं द्रव्यं अन्य-वेश्मनि प्रक्षिपतो द्वादश-पणो दण्डः । प्राण-आबाधिकं पूर्वः साहस-दण्डः ।। ०३.१९.२५ ।।

 क्षुद्र-पशूनां काष्ठ-आदिभिर्दुःख-उत्पादने पणो द्वि-गुणो वा दण्डः । शोणित-उत्पादने द्वि-गुणः ।। ०३.१९.२६ ।।

 महा-पशूनां एतेष्वेव स्थानेष्व्द्वि-गुणो दण्डः समुत्थान-व्ययश्च ।। ०३.१९.२७ ।।

 पुर-उपवन-वनस्पतीनां पुष्प-फलच्-छायावतां प्ररोहच्-छेदने षट्-पणः । क्षुद्र-शाखाच्-छेदने द्वादश-पणः । पीन-शाखाच्-च्छेदने चतुर्-विंशति-पणः । स्कन्ध-वधे पूर्वः साहस-दण्डः । समुच्छित्तौ मध्यमः ।। ०३.१९.२८ ।।

 पुष्प-फलच्-छायावद्-गुल्म-लतास्वर्ध-दण्डाः । पुण्य-स्थान-तपो-वन-श्मशान-द्रुमेषु च ।। ०३.१९.२९ ।।

 सीम-वृक्षेषु चैत्येषु द्रुमेष्वालक्षितेषु च । ।। ०३.१९.३०अ ब ।।

 त एव द्वि-गुणा दण्डाः कार्या राज-वनेषु च ।। ०३.१९.३०च्द् ।।