सामग्री पर जाएँ

अर्थशास्त्रम्/अधिकरणम् ३/अध्यायः २०

विकिस्रोतः तः
← अध्यायः १९ अर्थशास्त्रम्
अध्यायः २०
कौटिलीय:

 द्यूत-अध्यक्षो द्यूतं एक-मुखं कारयेत् ।। ०३.२०.०१ ।।

 अन्यत्र दीव्यतो द्वादश-पणो दण्डो गूढ-आजीवि-ज्ञापन-अर्थं ।। ०३.२०.०२ ।।

 "द्यूत-अभियोगे जेतुः पूर्वः साहस-दण्डः । पराजितस्य मध्यमः ।। ०३.२०.०३ ।।

 बालिश-जातीयो ह्येष जेतु-कामः पराजयं न क्षमते" इत्याचार्याः ।। ०३.२०.०४ ।।

 नैत्य्कौटिल्यः ।। ०३.२०.०५ ।।

 पराजितश्चेद्द्वि-गुण-दण्डः क्रियेत न कश्चन राजानं अभिसरिष्यति ।। ०३.२०.०६ ।।

 प्रायशो हि कितवाः कूट-देविनः ।। ०३.२०.०७ ।।

 तेषां अध्यक्षाः शुद्धाः काकणीरक्षांश्च स्थापयेयुः ।। ०३.२०.०८ ।।

 काकण्य्-अक्षाणां अन्य-उपधाने द्वादश-पणो दण्डः । कूट-कर्मणि पूर्वः साहस-दण्डो जित-प्रत्यादानम् । उपधौ स्तेय-दण्डश्च ।। ०३.२०.०९ ।।

 जित-द्रव्यादध्यक्षः पञ्चकं शतं आददीत । काकण्य्-अक्ष-अराला-शलाका-अवक्रयं उदक-भूमि-कर्म-क्रयं च ।। ०३.२०.१० ।।

 द्रव्याणां आधानं विक्रयं च कुर्यात् ।। ०३.२०.११ ।।

 अक्ष-भूमि-हस्त-दोषाणां चाप्रतिषेधने द्वि-गुणो दण्डः ।। ०३.२०.१२ ।।

 तेन समाह्वयो व्याख्यातः । अन्यत्र विद्या-शिल्प-समाह्वयात् इति ।। ०३.२०.१३ ।।

 प्रकीर्णकं तु याचितक-अवक्रीतक-आहितक-निक्षेपकाणां यथा-देश-कालं अदाने । यामच्-छाया-समुपवेश-संस्थितीनां वा देश-काल-अतिपातने । गुल्मतर-देयं ब्राह्मणं साधयतः । प्रतिवेश-अनुवेशयोरुपरि निमन्त्रणे च द्वादश-पणो दण्डः ।। ०३.२०.१४ ।।

 संदिष्टं अर्थं अप्रयच्छतो । भ्रातृ-भार्यां हस्तेन लङ्घयतो । रूप-आजीवां अन्य-उपरुद्धां गच्छतः । पर-वक्तव्यं पण्यं क्रीणानस्य । समुद्रं गृहं उद्भिन्दतः । सामन्त-चत्वारिंशत्-कुल्य-आबाधां आचरतश्चाष्ट-चत्वारिंशत्-पणो दण्डः ।। ०३.२०.१५ ।।

 कुल-नीवी-ग्राहकस्यापव्ययने । विधवां छन्द-वासिनीं प्रसह्याधिचरतः । चण्डालस्यऽर्यां स्पृशतः । प्रत्यासन्नं आपद्यनभिधावतो । निष्कारणं अभिधावनं कुर्वतः । शाक्य-आजीवक-आदीन्वृषल-प्रव्रजितान्देव-पितृ-कार्येषु भोजयतः शत्यो दण्डः ।। ०३.२०.१६ ।।

 शपथ-वाक्य-अनुयोगं अनिषृष्टं कुर्वतः । युक्त-कर्म चायुक्तस्य । क्षुद्र-पशु-वृषाणां पुंस्त्व-उपघातिनः । दास्या गर्भं औषधेन पातयतश्च पूर्वः साहस-दण्डः ।। ०३.२०.१७ ।।

 पिता-पुत्रयोर्दम्पत्योर्भ्रातृ-भगिन्योर्मातुल-भगिनेययोः शिष्य-आचार्ययोर्वा परस्परं अपतितं त्यजतः । सार्थ-आभिप्रयातं ग्राम-मध्ये वा त्यजतः पूर्वः साहस-दण्डः । कान्तारे मध्यमः । तन्-निमित्तं भ्रेषयत उत्तमः । सह-प्रस्थायिष्वन्येष्वर्ध-दण्डाः ।। ०३.२०.१८ ।।

 पुरुषं अबन्धनीयं बध्नतो बन्धयतो बन्धं वा मोक्षयतो । बालं अप्राप्त-व्यवहारं बध्नतो बन्धयतो वा सहस्रं दण्डः ।। ०३.२०.१९ ।।

 पुरुष-अपराध-विशेषेण दण्ड-विशेषः कार्यः ।। ०३.२०.२० ।।

 तीर्थ-करस्तपस्वी व्याधितः क्षुत्-पिपासा-अध्व-क्लान्तस्तिरो-जन-पदो दण्ड-खेदी निष्किंचनश्चानुग्राह्याः ।। ०३.२०.२१ ।।

 देव-ब्राह्मण-तपस्वि-स्त्री-बाल-वृद्ध-व्याधितानां अनाथानां अनभिसरतां धर्मस्थाः कार्याणि कुर्युः । न च देश-काल-भोगच्-छलेनातिहरेयुः ।। ०३.२०.२२ ।।

 पूज्या विद्या-बुद्धि-पौरुष-अभिजन-कर्म-अतिशयतश्च पुरुषाः ।। ०३.२०.२३ ।।

 एवं कार्याणि धर्मस्थाः कुर्युरच्छल-दर्शिनः । ।। ०३.२०.२४अ ब ।।

 समाः सर्वेषु भावेषु विश्वास्या लोक-सम्प्रियाः ।। ०३.२०.२४च्द् ।।