अर्थशास्त्रम्/अधिकरणम् २/अध्यायः ३४

विकिस्रोतः तः
← अध्यायः ३३ अर्थशास्त्रम्
अध्यायः ३४
कौटिलीय:
अध्यायः ३५ →

 मुद्रा-अध्यक्षो मुद्रां माषकेण दद्यात् ।। ०२.३४.०१ ।।

 समुद्रो जन-पदं प्रवेष्टुं निष्क्रमितुं वा लभेत ।। ०२.३४.०२ ।।

 द्वादश-पणं अमुद्रो जानपदो दद्यात् ।। ०२.३४.०३ ।।

 कूट-मुद्रायां पूर्वः साहस-दण्डः तिरो-जन-पदस्यौत्तमः ।। ०२.३४.०४ ।।

 विवीत-अध्यक्षो मुद्रां पश्येत् ।। ०२.३४.०५ ।।

 ग्राम-अन्तरेषु च विवीतं स्थापयेत् ।। ०२.३४.०६ ।।

 चोर-व्याल-भयान्-निम्न-अरण्यानि शोधयेत् ।। ०२.३४.०७ ।।

 अनुदके कूप-सेतु-बन्ध-उत्सान्स्थापयेत् । पुष्प-फल-वाटांश्च ।। ०२.३४.०८ ।।

 लुब्धक-श्व-गणिनः परिव्रजेयुररण्यानि ।। ०२.३४.०९ ।।

 तस्कर-अमित्र-अभ्यागमे शङ्ख-दुन्दुभि-शब्दं अग्राह्याः कुर्युः शैल-वृक्ष-अधिरूढा वा शीघ्र-वाहना वा ।। ०२.३४.१० ।।

 अमित्र-अटवी-संचारं च राज्ञो गृह-कपोतैर्मुद्रा-युक्तैर्हारयेत् । धूम-अग्नि-परम्परया वा ।। ०२.३४.११ ।।

 द्रव्य-हस्ति-वन-आजीवं वर्तनीं चोर-रक्षणं । ।। ०२.३४.१२अ ब ।।

 सार्थ-अतिवाह्यं गो-रक्ष्यं व्यवहारं च कारयेत् ।। ०२.३४.१२च्द् ।।