अर्थशास्त्रम्/अधिकरणम् २/अध्यायः २२

विकिस्रोतः तः
← अध्यायः २१ अर्थशास्त्रम्
अध्यायः २२
कौटिलीय:
अध्यायः २३ →

 बाह्यं आभ्यन्तरं चऽतिथ्यं ।। ०२.२२.०१ ।।

 निष्क्राम्यं प्रवेश्यं च शुल्कं ।। ०२.२२.०२ ।।

 प्रवेश्यानां मूल्य-पञ्च-भागः ।। ०२.२२.०३ ।।

 पुष्प-फल-शाक-मूल-कन्द-वाल्लिक्य-बीज-शुष्क-मत्स्य-मांसानां षड्-भागं गृह्णीयात् ।। ०२.२२.०४ ।।

 शङ्ख-वज्र-मणि-मुक्ता-प्रवाल-हाराणां तज्-जात-पुरुषैः कारयेत्कृत-कर्म-प्रमाण-काल-वेतन-फल-निष्पत्तिभिः ।। ०२.२२.०५ ।।

 क्षौम-दुकूल-क्रिमि-तान-कङ्कट-हरि-ताल-मनः-शिला-अञ्जन-हिङ्गुलुक-लोह-वर्ण-धातूनां चन्दन-अगुरु-कटुक-किण्व-अवराणां चर्म-दन्त-आस्तरण-प्रावरण-क्रिमि-जातानां आज-एडकस्य च दश-भागः पञ्च-दश-भागो वा ।। ०२.२२.०६ ।।

 वस्त्र-चतुष्पद-द्विपद-सूत्र-कार्पास-गन्ध-भैषज्य-काष्ठ-वेणु-वल्कल-चर्म-मृद्भ-अण्डानां धान्य-स्नेह-क्षार-लवण-मद्य-पक्वान्नादीनां च विंशति-भागः पञ्च-विंशति-भागो वा ।। ०२.२२.०७ ।।

 द्वारादेयं शुल्कं पञ्च-भागः आनुग्राहिकं वा यथा-देश-उपकारं स्थापय्तेत् ।। ०२.२२.०८ ।।

 जाति-भूमिषु च पण्यानां विक्रयः ।। ०२.२२.०९ ।।

 खनिभ्यो धातु-पण्यादाने षट्-छतं अत्ययः ।। ०२.२२.१० ।।

 पुष्प-फल-वाटेभ्यः पुष्प-फल-आदाने चतुष्-पञ्चाशत्-पणो दण्डः ।। ०२.२२.११ ।।

 षण्डेभ्यः शाक-मूल-कन्द-आदाने पाद-ऊनं द्वि-पञ्चाशत्-पणो दण्डः ।। ०२.२२.१२ ।।

 क्षेत्रेभ्यः सर्व-सस्य-आदाने त्रि-पञ्चाशत्-पणः ।। ०२.२२.१३ ।।

 पणोअध्यर्ध-पणश्च सीता-अत्ययः ।। ०२.२२.१४ ।।

 अतो नव-पुराणां देश-जाति-चरित्रतः । ।। ०२.२२.१५अ ब ।।

 पण्यानां स्थापयेच्शुक्लं अत्ययं चापकारतः ।। ०२.२२.१५च्द् ।।