अर्थशास्त्रम्/अधिकरणम् २/अध्यायः १७

विकिस्रोतः तः
← अध्यायः १६ अर्थशास्त्रम्
अध्यायः १७
कौटिलीय:
अध्यायः १८ →

 कुप्य-अध्यक्षो द्रव्य-वन-पालैः कुप्यं आनाययेत् ।। ०२.१७.०१ ।।

 द्रव्य-वन-कर्म-अन्तांश्च प्रयोजयेत् ।। ०२.१७.०२ ।।

 द्रव्य-वनच्-छिद्रां च देयं अत्ययं च स्थापयेदन्यत्रऽपद्भ्यः ।। ०२.१७.०३ ।।

 कुप्य-वर्गः शाक-तिनिश-धन्वन-अर्जुन-मधूक-तिलक-साल-शिंशपा-अरिमेद-राज-अदन-शिरीष-खदिर-सरल-ताल-सर्ज-अश्व-कर्ण-सोम-वल्क-कुश-आम्र-प्रियक-धव-आदिः सार-दारु-वर्गः ।। ०२.१७.०४ ।।

 उटज-चिमिय-चाप-वेणु-वंश-सातिन-कण्टक-भाल्लूक-आदिर्वेणु-वर्गः ।। ०२.१७.०५ ।।

 वेत्र-शीक-वल्ली-वाशी-श्याम-लता-नाग-लता-आदिर्वल्ली-वर्गः ।। ०२.१७.०६ ।।

 मालती-मूर्वा-अर्क-शण-गवेधुका-अतस्य्-आदिर्वल्क-वर्गः ।। ०२.१७.०७ ।।

 मुञ्ज-बल्बज-आदि रज्जु-भाण्डं ।। ०२.१७.०८ ।।

 ताली-ताल-भूर्जानां पत्त्रं ।। ०२.१७.०९ ।।

 किंशुक-कुसुम्भ-कुङ्कुमानां पुष्पं ।। ०२.१७.१० ।।

 कन्द-मूल-फल-आदिरौषध-वर्गः ।। ०२.१७.११ ।।

 काल-कूट-वत्स-नाभ-हालाहल-मेष-शृङ्ग-मुस्ता-कुष्ठ-महा-विष-वेल्लितक-गौर-अर्द्र-बालक-मार्कट-हैमवत-कालिङ्गक-दारदक-अङ्कोल-सारक-उष्ट्रक-आदीनि विषाणि । सर्पाः कीटाश्च त एव कुम्भ-गताः विष-वर्गः ।। ०२.१७.१२ ।।

 गोधा-सेरक-द्वीप्य्-ऋक्ष-शिंशुमार-सिंह-व्याघ्र-हस्ति-महिष-चमर-सृमर-खड्ग-गो-मृग-गवयानां चर्म-अस्थि-पित्त-स्नाय्व्-अक्षि-दन्त-शृङ्ग-खुर-पुच्छानि । अन्येषां वाअपि मृग-पशु-पक्षि-व्यालानां ।। ०२.१७.१३ ।।

 काल-अयस-ताम्र-वृत्त-कंस-सीस-त्रपु-वैकृन्तक-आर-कूटानि लोहानि ।। ०२.१७.१४ ।।

 विदल-मृत्तिकामयं भाण्डं ।। ०२.१७.१५ ।।

 अङ्गार-तुष-भस्मानि । मृग-पशु-पक्षि-व्याल-वाटाः काष्ठ-तृण-वाटाश्च इति ।। ०२.१७.१६ ।।

 बहिरन्तश्च कर्म-अन्ता विभक्ताः सार्वभाण्डिकाः । ।। ०२.१७.१७अ ब ।।

 आजीव-पुर-रक्षा-अर्थाः कार्याः कुप्य-उपजीविना ।। ०२.१७.१७च्द् ।।