अर्थशास्त्रम्/अधिकरणम् २/अध्यायः १६

विकिस्रोतः तः
← अध्यायः १५ अर्थशास्त्रम्
अध्यायः १६
कौटिलीय:
अध्यायः १७ →

 पण्य-अध्यक्षः स्थल-जलजानां नाना-विधानां पण्यानां स्थल-पथ-वारि-पथ-उपयातानां सार-फल्ग्व्-अर्घ-अन्तरं प्रिय-अप्रियतां च विद्यात् । तथा विक्षेप-संक्षेप-क्रय-विक्रय-प्रयोग-कालान् ।। ०२.१६.०१ ।।

 यच्च पण्यं प्रचुरं स्यात्तदेकी-कृत्यार्घं आरोपयेत् ।। ०२.१६.०२ ।।

 प्राप्तेअर्घे वाअर्घ-अन्तरं कारयेत् ।। ०२.१६.०३ ।।

 स्व-भूमिजानां राज-पण्यानां एक-मुखं व्यवहारं स्थापयेत् । पर-भूमिजानां अनेक-मुखं ।। ०२.१६.०४ ।।

 उभयं च प्रजानां अनुग्रहेण विक्रापयेत् ।। ०२.१६.०५ ।।

 स्थूलं अपि च लाभं प्रजानां औपघातिकं वारयेत् ।। ०२.१६.०६ ।।

 अजस्र-पण्यानां काल-उपरोधं संकुल-दोषं वा नौत्पादयेत् ।। ०२.१६.०७ ।।

 बहु-मुखं वा राज-पण्यं वैदेहकाः कृत-अर्घं विक्रीणीरन् ।। ०२.१६.०८ ।।

 छेद-अनुरूपं च वैधरणं दद्युः ।। ०२.१६.०९ ।।

 षोडश-भागो मान-व्याजी । विंशति-भागस्तुला-मानम् । गण्य-पण्यानां एकादश-भागः ।। ०२.१६.१० ।।

 पर-भूमिजं पण्यं अनुग्रहेणऽवाहयेत् ।। ०२.१६.११ ।।

 नाविकस-अर्थ-वाहेभ्यश्च परिहारं आयति-क्षमं दद्यात् ।। ०२.१६.१२ ।।

 अनभियोगश्चार्थेष्वागन्तूनाम् । अन्यत्र सभ्या-उपकारिभ्यः ।। ०२.१६.१३ ।।

 पण्य-अधिष्ठातारः पण्य-मूल्यं एक-मुखं काष्ठ-द्रोण्यां एकच्-छिद्र-अपिधानायां निदध्युः ।। ०२.१६.१४ ।।

 अह्नश्चाष्टमे भागे पण्य-अध्यक्षस्यार्पयेयुः "इदं विक्रीतम् । इदं शेषम्" इति ।। ०२.१६.१५ ।।

 तुला-मान-भाण्डं चार्पयेयुः ।। ०२.१६.१६ ।।

 इति स्व-विषये व्याख्यातं ।। ०२.१६.१७ ।।

 पर-विषये तु पण्य-प्रतिपण्ययोरर्घं मूल्यं चऽगमय्य शुल्क-वर्तन्याआतिवाहिक-गुल्मतर-देय-भक्त-भाग-व्यय-शुद्धं उदयं पश्येत् ।। ०२.१६.१८ ।।

 असत्युदये भाण्ड-निर्वहणेन पण्य-प्रतिपण्य-आनयनेन वा लाभं पश्येत् ।। ०२.१६.१९ ।।

 ततः सार-पादेन स्थल-व्यवहारं अध्वना क्षेमेण प्रयोजयेत् ।। ०२.१६.२० ।।

 अटव्य्-अन्त-पाल-पुर-राष्ट्र-मुख्यैश्च प्रतिसंसर्गं गच्छेदनुग्रह-अर्थं ।। ०२.१६.२१ ।।

 आपदि सारं आत्मानं वा मोक्षयेत् ।। ०२.१६.२२ ।।

 आत्मनो वा भूमिं प्राप्तः सर्व-देय-विशुद्धं व्यवहरेत ।। ०२.१६.२३ ।।

 वारि-पथे वा यान-भागक-पथ्य्-अदन-पण्य-प्रतिपण्य-अर्घ-प्रमाण-यात्रा-काल-भय-प्रतीकार-पण्य-पत्तन-चारित्राण्युपलभेत ।। ०२.१६.२४ ।।

 नदी-पथे च विज्ञाय व्यवहारं चरित्रतः । ।। ०२.१६.२५अ ब ।।

 यतो लाभस्ततो गच्छेदलाभं परिवर्जयेत् ।। ०२.१६.२५च्द् ।।