अर्थशास्त्रम्/अधिकरणम् २/अध्यायः ६

विकिस्रोतः तः
← अध्यायः ५ अर्थशास्त्रम्
अध्यायः ६
कौटिलीय:
अध्यायः ७ →

 समाहर्ता दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्-पथं चावेक्षेत ।। ०२.६.०१ ।।

 शुल्कं दण्डः पौतवं नागरिको लक्षण-अध्यक्षो मुद्रा-अध्यक्षः सुरा सूना सूत्रं तैलं घृतं क्षारः सौवर्णिकः पण्य-संस्था वेश्या द्यूतं वास्तुकं कारु-शिल्पि-गणो देवता-अध्यक्षो द्वार-बहिरिका-आदेयं च दुर्गं ।। ०२.६.०२ ।।

 सीता भागो बलिः करो वणिक्नदी-पालस्तरो नावः पत्तनं विविचितं वर्तनी रज्जुश्चोर-रज्जुश्च राष्ट्रं ।। ०२.६.०३ ।।

 सुवर्ण-रजत-वज्र-मणि-मुक्ता-प्रवाल-शङ्ख-लोह-लवण-भूमि-प्रस्तर-रस-धातवः खनिः ।। ०२.६.०४ ।।

 पुष्प-फल-वाट-षण्ड-केदार-मूल-वापाः सेतुः ।। ०२.६.०५ ।।

 पशु-मृग-द्रव्य-हस्ति-वन-परिग्रहो वनं ।। ०२.६.०६ ।।

 गो-महिषं अज-अविकं खर-उष्त्रं अश्व-अश्वतरं च व्रजः ।। ०२.६.०७ ।।

 स्थल-पथो वारि-पथश्च वणिक्-पथः ।। ०२.६.०८ ।।

 इत्याय-शरीरं ।। ०२.६.०९ ।।

 मूल्यं भागो व्याजी परिघः क्ल्प्तम्(क्लृप्तम्) रूपिकं अत्ययश्चऽय-मुखं ।। ०२.६.१० ।।

 देव-पितृ-पूजा-दान-अर्थम् । स्वस्ति-वाचनम् । अन्तःपुरम् । महानसम् । दूत-प्रावर्तिमम् । कोष्ठ-अगारम् । आयुध-अगारम् । पण्य-गृहम् । कुप्य-गृहम् । कर्म-अन्तो । विष्टिः । पत्ति-अश्व-रथ-द्विप-परिग्रहो । गो-मण्डलम् । पशु-मृग-पक्षि-व्याल-वाटाः । काष्ठ-तृण-वाटाश्चैति व्यय-शरीरं ।। ०२.६.११ ।।

 राज-वर्षं मासः पक्षो दिवसश्च व्युष्टम् । वर्षा-हेमन्त-ग्रीष्माणां तृतीय-सप्तमा दिवस-ऊनाः पक्षाः शेषाः पूर्णाः । पृथग्-अधिमासकः । इति कालः ।। ०२.६.१२ ।।

 करणीयं सिद्धं शेषं आय-व्ययौ नीवी च ।। ०२.६.१३ ।।

 संस्थानं प्रचारः शरीर-अवस्थापनं आदानं सर्व-समुदय-पिण्डः संजातं एतत्करणीयं ।। ०२.६.१४ ।।

 कोश-अर्पितं राज-हारः पुर-व्ययश्च प्रविष्टं परम-संवत्सर-अनुवृत्तं शासन-मुक्तं मुख-आज्ञप्तं चापातनीयं एतत्सिद्धं ।। ०२.६.१५ ।।

 सिद्धि-कर्म-योगः दण्ड-शेषं आहरणीयं बलात्-कृत-प्रतिष्टब्धं अवमृष्टं च प्रशोध्यं एतत्शेषम् । असारं अल्प-सारं च ।। ०२.६.१६ ।।

 वर्तमानः पर्युषितोअन्य-जातश्चऽयः ।। ०२.६.१७ ।।

 दिवस-अनुवृत्तो वर्तमानः ।। ०२.६.१८ ।।

 परम-सांवत्सरिकः पर-प्रचार-संक्रान्तो वा पर्युषितः ।। ०२.६.१९ ।।

 नष्ट-प्रस्मृतं आयुक्त-दण्डः पार्श्वं पारिहीणिकं औपायनिकं डमर-गतक-स्वं अपुत्रकं निधिश्चान्य-जातः ।। ०२.६.२० ।।

 विक्षेप-व्याधित-अन्तर-आरम्भ-शेषं च व्यय-प्रत्यायः ।। ०२.६.२१ ।।

 विक्रिये पण्यानां अर्घ-वृद्धिरुपजा । मान-उन्मान-विशेषो व्याजी । क्रय-संघर्षे वार्ध-वृद्धिः इत्यायः ।। ०२.६.२२ ।।

 नित्यो नित्य-उत्पादिको लाभो लाभ-उत्पादिक इति व्ययः बाह्यं अभ्यन्तरं चायं विद्याद्वर्ष-शतादपि ।। ०२.६.२३ ।।

 दिवस-अनुवृत्तो नित्यः ।। ०२.६.२४ ।।

 पक्ष-मास-संवत्सर-लाभो लाभः ।। ०२.६.२५ ।।

 तयोरुत्पन्नो नित्य-उत्पादिको लाभ-उत्पादिक इति व्ययः ।। ०२.६.२६ ।।

 संजातादाय-व्यय-विशुद्धा नीवी । प्राप्ता चानुवृत्ता च ।। ०२.६.२७ ।।

 एवं कुर्यात्समुदयं वृद्धिं चऽयस्य दर्शयेत् । ।। ०२.६.२८अ ब ।।

 ह्रासं व्ययस्य च प्राज्ञः साधयेच्च विपर्ययं ।। ०२.६.२८च्द् ।।