पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/46

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
 
४५
द्वितीयः सर्गः।


स्वगतं स्वानधीकारान् प्रभावौरवलम्बा वः ।
युगपघुगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥ १८ ॥
(२)[१] किमिदं द्युतिमात्मीयांन बिभ्रति यथा पुरा ।
हिमक्लिष्ट(३)<ref>प्रकाशानि ज्योतींषीव मुखानि वः ॥ १९ ॥


साधुः । कवेः कवयितुस्तस्य ब्रह्मणश्चतुर्भिर्मुखैः समीरिता सती । "तद्धितार्थ-" इत्यादिनोत्तरपदसमासः । समाहारे चतुर्मुखीति स्यात् । चरितार्थान्वर्थासीत् । चतुर्मुखोच्चारणाच्चातुर्विध्यं सफलमासीदित्यर्थः ॥ १७ ॥

 भगवानाह-

 स्वागतमिति ॥ हे प्राज्यविक्रमाः प्रभूतपराक्रमा देवाः ॥ "प्राज्यं भूरि प्रभूतं च" इति यादवः ॥ स्वान् स्वकीयानधिकारान् नियोगान् ॥ "उपसर्गस्य घञि-" इति वा दीर्घः ॥ प्रभावैः सामर्थ्यैरवलम्ब्यास्थाय । यथाधिकारं स्थित्वापीत्यर्थः । युगपत्समकालं प्राप्तेभ्यः । युगपत्प्राप्त्या महत्कार्यमनुमीयत इति भावः । युगबाहुभ्यः । दीर्घबाहुभ्य इत्यर्थः । अजानुबाहुत्वं भाग्यलक्षणम् । वो युष्मभ्यम् ।"बहुवचनस्य वस्नसौ" इति वसादेशः । "कर्मणा यमभिप्रैति-" इत्यत्र कर्मपदेन क्रियाग्रहणात्संप्रदानत्वम् । स्वागतं शोभमानमागमनम् । काकुरत्रानुसंधेया ॥ १८ ॥

 किमिति ॥ "वत्साः" इत्युत्तरश्लोकीयं (४/१८) संबोधनमत्राप्यनुष़ञ्जनीयम् । हे वत्साः पुत्रकाः । हिमेन नीहारेण क्लिष्टप्रकाशानि मन्दप्रभाणि ज्योतींषि नक्षत्राणीव ।"दीत्पिताराहुताशेषु ज्योतिः" इति शाश्वतः ॥ वो युष्माकं मुखानि पुरा यथा पूर्वमिवात्मीयां द्युतिं न बिभ्रति । इदं किम् । किं



  1. द्वमाम् इति ।