अर्थशास्त्रम्/अधिकरणम् १/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ९ अर्थशास्त्रम्
अध्यायः १०
कौटिलीय:
अध्यायः ११ →

 मन्त्रि-पुरोहित-सखः सामान्येष्वधिकरणेषु स्थापयित्वाअमात्यानुपधाभिः शोधयेत् ।। ०१.१०.०१ ।।

 पुरोहितं अयाज्य-याजन-अध्यापने नियुक्तं अमृष्यमाणं राजाअवक्षिपेत् ।। ०१.१०.०२ ।।

 स सत्त्रिभिः शपथ-पूर्वं एकैकं अमात्यं उपजापयेत् "अधार्मिको अयं राजा । साधु धार्मिकं अन्यं अस्य तत्-कुलीनं अपरुद्धं कुल्यं एक-प्रग्रहं सामन्तं आटविकं औपपादिकं वा प्रतिपादयामः । सर्वेषां एतद्रोचते । कथं वा तव" इति ।। ०१.१०.०३ ।।

 प्रत्याख्याने शुचिः इति धर्म-उपधा ।। ०१.१०.०४ ।।

 सेना-पतिरसत्-प्रग्रहेणावक्षिप्तः सत्त्रिभिरेकैकं अमात्यं उपजापयेत्लोभनीयेनार्थेन राज-विनाशाय । "सर्वेषां एतद्रोचते । कथं वा तव" इति ।। ०१.१०.०५ ।।

 प्रत्याख्याने शुचिः इत्यर्थ-उपधा ।। ०१.१०.०६ ।।

 परिव्राजिका लब्ध-विश्वासाअन्तःपुरे कृत-सत्कारा महा-मात्रं एकैकं उपजपेत् "राज-महिषी त्वां कामयते कृत-समागम-उपाया । महानर्थश्च ते भविष्यति" इति ।। ०१.१०.०७ ।।

 प्रत्याख्याने शुचिः इति काम-उपधा ।। ०१.१०.०८ ।।

 प्रहवण-निमित्तं एको अमात्यः सर्वानमात्यानावाहयेत् ।। ०१.१०.०९ ।।

 तेनौद्वेगेन राजा तानवरुन्ध्यात् ।। ०१.१०.१० ।।

 कापटिकश्चात्र पूर्व-अवरुद्धस्तेषां अर्थ-मान-अवक्षिप्तं एकैकं अमात्यं उपजपेत् "असत्प्रवृत्तो अयं राजा । साध्वेनं हत्वाअन्यं प्रतिपादयामः । सर्वेषां एतद्रोचते । कथं वा तव" इति ।। ०१.१०.११ ।।

 प्रत्याख्याने शुचिः इति भय-उपधा ।। ०१.१०.१२ ।।

 तत्र धर्म-उपधा-शुद्धान्धर्म-स्थीय-कण्टक-शोधनेषु कर्मसु स्थापयेत् । अर्थ-उपधा-शुद्धान्समाहर्तृ-सम्निधातृ-निचय-कर्मसु । काम-उपधा शुद्धान्बाह्य-आभ्यन्तर-विहार-रक्षासु । भय-उपधा-शुद्धानासन्न-कार्येषु राज्ञः ।। ०१.१०.१३ ।।

 सर्व-उपधा-शुद्धान्मन्त्रिणः कुर्यात् ।। ०१.१०.१४ ।।

 सर्वत्राशुचीन्खनि-द्रव्य-हस्ति-वन-कर्म-अन्तेषु उपयोजयेत् ।। ०१.१०.१५ ।।

 त्रिवर्ग-भय-संशुद्धानमात्यान्स्वेषु कर्मसु ।। ०१.१०.१६अ ब ।।

 अधिकुर्याद्यथा शौचं इत्याचार्या व्यवस्थिताः ।। ०१.१०.१६च्द् ।।

 न त्वेव कुर्यादात्मानं देवीं वा लक्ष्यं ईश्वरः ।। ०१.१०.१७अ ब ।।

 शौच-हेतोरमात्यानां एतत्कौटिल्य-दर्शनं ।। ०१.१०.१७च्द् ।।

 न दूषणं अदुष्टस्य विषेणैवाम्भसश्चरेत् ।। ०१.१०.१८अ ब ।।

 कदाचिद्द्हि प्रदुष्टस्य नाधिगम्येत भेषजं ।। ०१.१०.१८च्द् ।।

 कृता च कलुषा-बुद्धिरुपधाभिश्चतुर्विधा ।। ०१.१०.१९अ ब ।।

 नागत्वाअन्तं निवर्तेत स्थिता सत्त्ववतां धृतौ ।। ०१.१०.१९च्द् ।।

 तस्माद्बाह्यं अधिष्ठानं कृत्वा कार्ये चतुर्विधे ।। ०१.१०.२०अ ब ।।

 शौच-अशौचं अमात्यानां राजा मार्गेत सत्त्रिभिः ।। ०१.१०.२०च्द् ।।