अर्थशास्त्रम्/अधिकरणम् १/अध्यायः ९

विकिस्रोतः तः
← अध्यायः ८ अर्थशास्त्रम्
अध्यायः ९
कौटिलीय:
अध्यायः १० →

 जानपदो अभिजातः स्ववग्रहः कृत-शिल्पश्चक्षुष्मान्प्राज्ञो धारयिष्णुर्दक्षो वाग्मी प्रगल्भः प्रतिपत्तिमानुत्साह-प्रभाव-युक्तः क्लेश-सहः शुचिर्मैत्रो दृढ-भक्तिः शील-बल-आरोग्य-सत्त्व-युक्तः स्तम्भ-चापल-हीनः सम्प्रियो वैराणां अकर्ताइत्यमात्य-सम्पत् ।। ०१.९.०१ ।।

 अतः पाद-अर्घ-गुण-हीनौ मध्यम-अवरौ ।। ०१.९.०२ ।।

 तेषां जनपद्-अभिजनं अवग्रहं चऽप्ततः परीक्षेत । समान-विद्येभ्यः शिल्पं शास्त्र-चक्षुष्मत्तां च । कर्म-आरम्भेषु प्रज्ञां धारयिष्णुतां दाक्ष्यं च । कथा-योगेषु वाग्मित्वं प्रागल्भ्यं प्रतिभानवत्त्वं च । संवासिभ्यः शील-बल-आरोग्य-सत्त्व-योगं अस्तम्भं अचापलं च । प्रत्यक्षतः सम्प्रियत्वं अवैरत्वं च ।। ०१.९.०३ ।।

 प्रत्यक्ष-परोक्ष-अनुमेया हि राज-वृत्तिः ।। ०१.९.०४ ।।

 स्वयं द्र्ष्टं प्रत्यक्षं ।। ०१.९.०५ ।।

 पर-उपदिष्टं परोक्षं ।। ०१.९.०६ ।।

 कर्मसु कृतेनाकृत-अवेक्षणं अनुमेयं ।। ०१.९.०७ ।।

 यौगपद्यात्तु कर्मणां अनेकत्वादनेकस्थत्वाच्च देश-काल-अत्ययो मा भूदिति परोक्षं अमात्यैः कारयेत् इत्यमात्य-कर्म ।। ०१.९.०८ ।।

 पुरोहितं उदित-उदित-कुल-शीलं साङ्गे वेदे दैवे निमित्ते दण्ड-नीत्यां चाभिविनीतं आपदां दैव-मानुषीणां अथर्वभिरुपायैश्च प्रतिकर्तारं कुर्वीत ।। ०१.९.०९ ।।

 तं आचार्यं शिष्यः पितरं पुत्रो भृत्यः स्वामिनं इव चानुवर्तेत ।। ०१.९.१० ।।

 ब्राह्मणेनएधितं क्षत्रं मन्त्रि-मन्त्र-अभिमन्त्रितं ।। ०१.९.११अ ब ।।

 जयत्यजितं अत्यन्तं शास्त्र-अनुगम-शस्त्रितं ।। ०१.९.११च्द् ।।