अर्थशास्त्रम्/अधिकरणम् १/अध्यायः ८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ७ अर्थशास्त्रम्
अध्यायः ८
कौटिलीय:
अध्यायः ९ →

 "सह-अध्यायिनो अमात्यान्कुर्वीत। दृष्ट-शौच-सामर्थ्यत्वात्" इति भारद्वाजः ।। ०१.८.०१ ।।

 "ते ह्यस्य विश्वास्या भवन्ति" इति ।। ०१.८.०२ ।।

 नैति विशाल-अक्षः ।। ०१.८.०३ ।।

 "सह-क्रीडितत्वात्परिभवन्त्येनं ।। ०१.८.०४ ।।

 ये ह्यस्य गुह्य-सधर्माणस्तानमात्यान्कुर्वीत। समान-शील-व्यसनत्वात् ।। ०१.८.०५ ।।

 ते ह्यस्य मर्मज्ञ-भयान्नापराध्यन्ति" इति ।। ०१.८.०६ ।।

 "साधारणएष दोषः" इति पाराशराः ।। ०१.८.०७ ।।

 "तेषां अपि मर्मज्ञ-भयात्कृत-अकृतान्यनुवर्तेत ।। ०१.८.०८ ।।

 यावद्भ्यो गुह्यं आचष्टे जनेभ्यः पुरुष-अधिपः ।। ०१.८.०९अ ब ।।

 अवशः कर्मणा तेन वश्यो भवति तावतां ।। ०१.८.०९च्द् ।।

 यएनं आपत्सु प्राण-आबाध-युक्तास्वनुगृह्णीयुस्तानमात्यान्कुर्वीत। दृष्ट-अनुरागत्वात्" इति ।। ०१.८.१० ।।

 नैति पिशुनः ।। ०१.८.११ ।।

 "भक्तिरेषा न बुद्धि-गुणः ।। ०१.८.१२ ।।

 संख्यात-अर्थेषु कर्मसु नियुक्ता ये यथा-आदिष्टं अर्थं सविशेषं वा कुर्युस्तानमात्यान्कुर्वीत। दृष्ट-गुणत्वात्" इति ।। ०१.८.१३ ।।

 नैति कौणपदन्तः ।। ०१.८.१४ ।।

 "अन्यैरमात्य-गुणैरयुक्ता ह्येते ।। ०१.८.१५ ।।

 पितृ-पैतामहानमात्यान्कुर्वीत। दृष्ट-अवदानत्वात् ।। ०१.८.१६ ।।

 ते ह्येनं अपचरन्तं अपि न त्यजन्ति। सगन्धत्वात् ।। ०१.८.१७ ।।

 अमानुषेष्वपि चएतद्दृश्यते ।। ०१.८.१८ ।।

 गावो ह्यसगन्धं गो-गणं अतिक्रम्य सगन्धेष्वेवावतिष्ठन्ते" इति ।। ०१.८.१९ ।।

 नैति वातव्याधिः ।। ०१.८.२० ।।

 "ते ह्यस्य सर्वं अवगृह्य स्वामिवत्प्रचरन्ति ।। ०१.८.२१ ।।

 तस्मान्नीतिविदो नवानमात्यान्कुर्वीत ।। ०१.८.२२ ।।

 नवास्तु यम-स्थाने दण्ड-धरं मन्यमाना नापराध्यन्ति" इति ।। ०१.८.२३ ।।

 नैति बाहु-दन्ती पुत्रः ।। ०१.८.२४ ।।

 "शास्त्रविददृष्ट-कर्मा कर्मसु विषादं गच्छेत् ।। ०१.८.२५ ।।

 तस्मादभिजन-प्रज्ञा-शौच-शौर्य-अनुराग-युक्तानमात्यान्कुर्वीत। गुण-प्राधान्यात्" इति ।। ०१.८.२६ ।।

 सर्वं उपपन्नं इति कौटिल्यः ।। ०१.८.२७ ।।

 कार्य-सामर्थ्याद्द्हि पुरुष-सामर्थ्यं कल्प्यते ।। ०१.८.२८ ।।

 सामर्थ्यश्च विभज्यामात्य-विभवं देश-कालौ च कर्म च ।। ०१.८.२९अ ब ।।

 अमात्याः सर्व एवएते कार्याः स्युर्न तु मन्त्रिणः ।। ०१.८.२९च्द् ।।