अर्थशास्त्रम्/अधिकरणम् १/अध्यायः ६

विकिस्रोतः तः
← अध्यायः ५ अर्थशास्त्रम्
अध्यायः ६
कौटिलीय:
अध्यायः ७ →

 विद्या विनय-हेतुरिन्द्रिय-जयः काम-क्रोध-लोभ-मान-मद-हर्ष-त्यागात्कार्यः ।। ०१.६.०१ ।।

 कर्ण-त्वग्-अक्षि-जिह्वा-घ्राण-इन्द्रियाणां शब्द-स्पर्श-रूप-रस-गन्धेष्वविप्रतिपत्तिरिन्द्रिय-जयः। शास्त्र-अनुष्ठानं वा ।। ०१.६.०२ ।।

 कृत्स्नं हि शास्त्रं इदं इन्द्रिय-जयः ।। ०१.६.०३ ।।

 तद्विरुद्ध-वृत्तिरवश्य-इन्द्रियश्चातुरन्तो अपि राजा सद्यो विनश्यति ।। ०१.६.०४ ।।

 यथा दाण्डक्यो नाम भोजः कामाद्ब्राह्मण-कन्यां अभिमन्यमानः सबन्धु-राष्ट्रो विननाश। करालश्च वैदेहः ।। ०१.६.०५ ।।

 कोपाज्जनमेजयो ब्राह्मणेषु विक्रान्तः। ताल-जङ्घश्च भृगुषु ।। ०१.६.०६ ।।

 लोभादैलश्चातुर्वर्ण्यं अत्याहारयमाणः। सौवीरश्चाजबिन्दुः ।। ०१.६.०७ ।।

 मानाद्रावणः पर-दारानप्रयच्छन्। दुर्योधनो राज्यादंशं च ।। ०१.६.०८ ।।

 मदाद्दम्भोद्भवो भूत-अवमानी। हैहयश्चार्जुनः ।। ०१.६.०९ ।।

 हर्षाद्वातापिरगस्त्यं अत्यासादयन्। वृष्णि-संघश्च द्वैपायनं इति ।। ०१.६.१० ।।

 एते चान्ये च बहवः शत्रु-षड्-वर्गं आश्रिताः ।। ०१.६.११अ ब ।।

 सबन्धु-राष्ट्रा राजानो विनेशुरजित-इन्द्रियाः ।। ०१.६.११च्द् ।।

 शत्रु-षड्-वर्गं उत्सृज्य जामदग्न्यो जित-इन्द्रियः ।। ०१.६.१२अ ब ।।

 अम्बरीषश्च नाभागो बुभुजाते चिरं महीं ।। ०१.६.१२च्द् ।।