पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/7

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
कुमारसम्भवे


पदं तुषारस्त्रुतिधौतरक्तं
यस्मिन्नदृष्ट्वापि हतद्विपानाम् ।
(४) [१]विदन्ति मार्गं नखरन्ध्रमुक्तै
र्मुक्ताफलैः केसरिणां किराताः ॥ ६ ॥
न्यस्ताक्षरा धातुरसेन यत्र
भूर्जत्वचः कुञ्जरबिन्दुशोणाः ।
व्रजन्ति विद्याधरसुन्दरीणा-
मनङ्गलेखक्रिययोपयोगम् ॥ ७ ॥


     पदमिति ॥ यस्मिन्नद्रौ किरातास्तुषारस्त्रुतिभिर्हिमनिस्यन्दैर्धौतं क्षालितं रक्तं शोणितं यस्य तत्तथोक्तम् । अतो दुर्ग्रहमिति भावः । हता द्विपा गजा यैस्तेषां हतद्दिपानां केसरिणां सिंहानां पदं पादप्रक्षेपस्थानमदृष्ट्वापि नखरन्ध्रैर्नखद्रोणिभिर्मुक्तैर्मुक्ताफलैर्मार्गं विदन्ति जानान्ति । अत्र व्याधाः सिंहघातिनो गजेन्द्राश्च मुक्ताकरा इति भावः ॥ "करीन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि "॥ ६ ॥
     न्यस्तेति ।। यत्र हिमाद्रौ धातुरसेन सिन्दूरादिद्रवेण ॥"श्रृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः" इत्यमरः । न्यस्ताक्षरा लिखितवर्णा अत एव कुञ्जरस्य ये बिन्दवः काये वयोविशेषभाविनः पद्मकाख्याः । "पद्मकं बिन्दुजालकम्" इत्यमरः ॥ त इव शोणा रक्तवर्णाः । लिखितभागेष्विति शेषः । भूर्जत्वचो भूर्जपत्रवल्कलानि ।। "भूर्जपपत्रो भुजो भूर्जो मृदुत्वक्चार्मिका अपि" इति यादवः । विद्याधरसुन्दरीणाम् । लिख्यन्ते येषु ते लेखाः पत्रिकाः । अनङ्गस्य लेखास्तेषां


  1. विन्दस्ति ।