पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/6

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
प्रथमः सर्गः।


आमेखलं सञ्चरतां घनानां
(३)छायामधः सानुगतां निषेव्य ।
उद्वेजिता वृष्टिभिराश्रयन्ते
श्रृङ्गाणि यस्यातपवन्ति सिध्दाः ।। ५ ।।


सङ्क्रमितो रागो यया ताम् । एतेनाद्रेरभ्रंकषत्वं गम्यते । इदं विशेषणद्वयं सन्ध्यायामपि योज्यम् ।। धातवः सिन्दूरगैरिकादयोऽस्य सन्तीति धातुमान् ॥ नित्ययोगे मतुप् ।। तस्य भावो धातुमत्ता ताम् ॥ धातुयोगित्वमिति सम्बन्धोऽपि वाच्यार्थः । "समासकृत्तध्दितेषु सम्बन्धाभिधानं भावप्रत्ययेन" इति वचनात् । लक्षणया नित्यानुषङ्गिकधातुमित्यर्थः ।। अकालसन्ध्यामिवानियतकालप्राप्तसन्ध्यामिव शिखरैर्बिभर्ति धत्ते । अत्र सन्ध्याशब्दस्य जातिवाचित्वाज्जात्युत्प्रेक्षा ।। ४ ।।

आमेखलमिति ।। सिद्धा अणिमादिसिद्धा देवयोनिविशेषाश्च ।। "पिशाचो गुह्यकः सिध्दो भूतोऽमी देवयोनयः" इत्यमरः ।। आ मेखलाभ्य आमेखलं नितम्बपर्यन्तम् ।। "मेखला खण्डबन्धे स्यात्काञ्चीशैलनितम्बयोः" इति विश्वः ॥ "आङ्मर्यादाभिविध्योः" इत्यव्ययीभावः ।। सञ्चरतां घनानां मेधानामधः सानूनि मेधमण्डलादधस्तटानि गतां प्रात्पाम् ।। "द्वितीया श्रितातोतपतितगतात्यस्तप्राप्तापन्नैः' इति समासः ।। छायामनातपम् ॥ "छाया सूर्य्यप्रिया कान्तिः प्रतिबिम्बमनातपः" इत्यमरः ।। निषेव्यवृष्टिभिरुद्वेजिताः क्लेशिताः सन्तः ।। "उद्वेगस्तिमिते क्लेशे भये मन्थरगामिनि" इति शर्ब्दाणवः ।। यस्य हिमाद्रेरातपवन्ति सातपानि श्रृङ्गाण्याश्रयन्ते । आश्रित्य स्थिता इत्यर्थः । अतिमेघमण्डलमस्यौन्नत्यमिति भावः ।। ५ ।।


(३)छायामिषे सानुगताम् ।