चारुदत्तम्/तृतीयोऽङ्कः
← द्वितीयोऽङ्कः | चारुदत्तम् तृतीयोऽङ्कः भासः |
चतुर्थोऽङ्कः → |
(ततः प्रविशति नायको विधूषकश्च।)
नायकः---वयस्य! वीणा नामासमुद्रोत्थितं रत्नम्। कुतः,
उत्कण्ठितस्य हृदयानुगता सखीव
सङ्कीर्णदोषरहिता विषयेषु गोष्ठी।
क्रीडारसेषु मदनव्यसनेषु कान्ता
स्त्रीणां तु कान्तरतिविघ्नकरी सपत्नी ।। १ ।।
विदूषकः---भो वयस्य! को कालो किदपरिघोसणदा णिसम्पादाए राअमग्गा। कुक्कुरा वि ओसुत्ता । वअं णिद्दं ण लभामो । अण्णं च दाणि अच्छरीअं । इमं हदवीणं ण रमामि । अहिअविढत्थाणे विच्छिण्णतन्तिआ होदु। [भो वयस्य! कः कालः कृतपरिघोषणतया निःसम्पाता राजमार्गाः । कुक्कुरा अप्यवसुप्ताः वयं निद्रां न लभामहे । अन्यच्छेदानीमाश्चर्यम्। इमां हतवीणां न रमे। अधिकदृढस्थाने विच्छिन्नतन्त्रीका भवतु।]
नायकः---वयस्य! भावशाबलेना बहुशः खल्वद्य मधुरं गीतम्। न च भवान् रमते।
विदूषकः---अदो एव्व एदं अहं ण रमामि। महुरं पि बहु खादिश्रं अजिण्णं होदि। [अत एवेतामहं त रमे । मधुरमपि बहु खादितमजीर्णं भवति।]
नायकः---सर्वथा सुव्यक्तं गीतम्। कुतः,
रक्तं च तारमधुरं च समं स्फुटं च
भावार्पितं च न च साभिनयप्रयोगम्।
किं वा प्रशस्य विविधैर्बहु तत्तदुक्त्वा
भित्त्यन्तरं यदि भवेद् युवतीति विद्याम्।। २ ।।
विदूषकः---कामं पसंसेदु भवं। मम खु दाव गाअन्तो मणुस्सो इत्थिआ विपठन्ती उभअं आदर ण देदि । गाअन्तो दाव मणुस्सो रत्तसुमणावेठ्ठिदो विअ पुरोहिदो दिढ ण सोहइ। इत्थिआ वि पठन्ती छिण्णणासिआ विअ धेणुआ अदिविरूवा होइ । [कामं प्रशंसतु भवान् । मम खलु तावद् गायन् मनुष्यः स्त्र्यपि पठन्त्युभयमादरं न ददाति । गायंस्तावन्मनुष्यो रक्तसुमनोवेष्टित इव पुरोहितो दृढं न शोभते । स्त्र्यपि पठन्ती छिन्ननासिकेव धेनुरतिविरूपा भवति।]
नायकः---सखे! उपारूढोऽर्धरात्रः । स्थिरतिमिरा राजमार्गाः । निस्सम्पातपुरुषत्वात् प्रसुप्तेवोज्जयिनी प्रतिभाति। कुतः,
त्तोयावगाढस्य वनद्विपस्य विषाणकोटीव निमज्जमाना ।। ३ ।।
विदूषकः---सुट्ठु भवं भणादि। अन्तद्धिअमाणचन्द्रलद्धावआसो ओदरदी विअ पासादादो अन्धआरो। [सुष्ठु भवान् भणति । अन्तर्दधानचन्द्रलब्धावकाशोऽवतरतीव प्रासादादन्धकारः ।]
नायकः---(परिक्रम्य) इदमस्मदीयं गृहम् । वर्धमानक! वर्धमानक!
विदूषकः---वद्धमाणअ ! वद्धमाणअ! दुआरं अवावुद। [वर्धमानक! वर्धमानक! द्वरमपावृणु।]
चेटः---अम्मो अय्यमेत्तेओ । [अम्मो आर्यमैत्रेयः।]
नायकः---वर्धमानक!
चेटः---अम्मो भट्टिदारओ । भट्टिदारअ! वन्दामि। [अम्मो भर्तृदारकः। भर्तृदारक! वन्दे।]
नायकः---पादोदकमानय।
'चेटः---(परिक्रम्य) इदं पादोदअं । (नायकस्य पादौ प्रक्षालयति।) [इदं पादोदकम्।]
विदूषकः---वड्ढमाणवअ ! मम वि पादं पक्खालेहि। [वर्धमानक! ममापि पादं प्रक्षालय।]
चेटः---सुहोदेसु पादेषु भूमीए पलोट्ठिदव्वं । उदअं विणासेहि। अहव आणेहि। पक्खालइस्सं । (नाट्येन विदूषकस्य पादौ प्रक्षालयति।) [सुधौतयोः पादयोर्भूम्यां प्रलोठितव्यम्। उदकं विनाशय। अथवा नय। प्रक्षालयिष्यामि।]
विदूषकः---ण केवलं दासीएपुत्तेण पादा धोदा, मुहं वि धौदं। [न केवलं दास्याः पुत्रेण पादौ धौतौ, मुखमपि धौतम् ।]
नायकः---वयस्य।
अदृश्यमाना चपला जरेव या मनुष्यवीर्य परिभूय वर्धते ।। ४ ।।
मैत्रेय! सुप्यताम्।
(प्रविश्याभरणसमुद्गहस्ता)
चेटीः---अय्यमेत्तेअ! उट्ठेहि उट्ठेहि। [आर्यमैत्रेय! उत्तिष्ठोत्तिष्ठ।]
विदूषकः---भोदि! किं एदं। [भवति! किमेतत्।]
चेटी---इअं सुवण्णभण्डं सट्ठीए सत्तमीए परिवेट्टामि। अट्टमी खु अज्ज। [इदं सुवर्णभाण्डं षष्ठ्यां सप्तम्यां परिवर्तयामि । अष्टमी खल्वद्य।]
नायकः---इदं तद् वसन्तसेनायाः स्वकम्।
चेटी---आम। भणादु भणादु भट्टिदारओ, गण्हदु त्ति। [आम। भणतु भणतु भर्तृदारकः गृह्णात्विति।]
नायकः---मैत्रेय। गृह्यताम्।
विदूषकः---किं णिमित्तं अअं अलङ्कारो अब्भन्तरचउस्सालं ण प्पवेसीअदि। [किन्निमित्तमयमलङ्कारोऽभ्यन्तरचतुःशालं न प्रवेश्यते।]
नायकः---मूर्ख! बाह्यजनधारितमलङ्कारं गृहजनो न द्रक्ष्यति।
विदूषकः---का गई । आणेहि गण्हामि चोरेहिं गण्हिअमाणं । [का गतिः । आनय गृह्णामि चौरैर्गृह्यमाणम्।]
विदूषकः--भो! किंणिमित्तं सो पावरओ तस्स गणिआपरिआरअस्स दिण्णो। [भोः! किन्निमित्तं स प्रावारकस्तस्मै गणिकापरिचारकाय दत्तः ।]
नायकः---सानुक्रोशतया।
विदूषकः---इह वि साणुक्कोसदा। [इहापि सानुक्रोशता।]
नायकः---वयस्य! मा मैवम।[]
विदूषकः---अहं भरिदगद्दभो विअ भूमीए पलोठ्ठामि । [अहं भरितगर्दभ इव भूम्यां प्रलुठामि।]
नायकः---निद्रा मां बाधते। तूष्णीं भव। []
विदूषकः---असदु भवं सुहप्पबोहाअ । जाव अहं पि सुविस्सं। [शेतां भवान् सुखप्रबोधाय । यावदहमपि स्वप्स्यामि।]
(ततः प्रविशति सज्जलकः।)
सज्जलकः---एष भोः!
कृत्वा शरीरपरिणाहसुखप्रवेशं
शिक्षाबलेन च बलेन च कर्ममार्गम्।
गच्छामि भूमिपरिसर्पणघृष्टपार्श्वो
निर्मुच्यमान इव जीर्णतनुर्भुजङ्गः ।। ५ ।।
भोः! वृक्षवाटिकापक्षद्वारे सन्धिं छित्त्वा प्रविट्ठोऽस्मि। यावदिदानीं चतुःशालमुपसर्पामि । (सनिर्वेदं विचिन्त्य) भोः!
कामं नीचमिदं वदन्तु विबुधाः सुप्तेषु यद्वर्तते
विश्वस्तेषु हि वञ्चनापरिभवः शौर्यं न कार्कश्यता।
स्वाधीना वचनीयताऽपि तु वरं बद्धो न सेवाञ्जलिः
मार्गश्चष नरेन्द्रसौप्तिकवधे पूर्वं कृतो द्रौणिना।।६।।
यस्तस्य गेहं यदि नाम लप्स्ये भवामि दुःखोपहतो न चित्ते।।७।।
यद्वा तद्वा भवतु। किं वा न कारयति मन्मथः । यावदारभे कर्म । भोः!
देशः को नु जलावसेकशिथिलश्छेदादशब्दो भवेत्
भित्तीनां क्व नु दर्शितान्तरसुखः सन्धिः करालो भवेत्।
क्षारक्षीणतया चलेष्टककृशं हर्म्यं क्व जीर्णं भवेत्
कुत्र स्त्रीजनदर्शनं च न भवेत् स्वन्तश्च यत्नो भवेत् ।।८।।
(परिक्रम्य) इयं वास्तुविभागक्रिया। सोपस्नेहतया गृहविशिष्ट इवायं भवनविन्यासः । इह तावत् प्रवेशावकाशं करिष्ये । भोः ! कीदृश इदानीं सन्धिच्छेदः कर्तव्यः स्यात्।
सन्धिच्छेदः पीठिका वा गजास्यमस्मत्पक्ष्या विस्मितास्ते कथं स्युः ।। ९ ।।
भवतु, एकान्तमेव च्छेदयिष्ये ।
विदूषकः---भो! जागत्ति खु भवं, णहि। [भोः! जागर्ति खलु भवान्, न हि। ]
नायकः---किमर्थम्।
विदूषकः---अहं खु दाव कत्तव्वकरत्थीकिदसङ्केदो विअ सक्किअसमणओ णिद्दं ण लभामि। वामं खु मे अक्खि फन्देदि। चोरो सन्धिं छिन्ददी विअ पेक्खामि। जइ ईदिसी अवत्था अत्थाणं, जादीए दरिद्दो एव्व होमि। [अहं खलु तावत् कर्तव्यकरस्त्रीकृतसङ्केत इव शाक्यश्रमणको निद्रां न लभे। वामं खलुमेऽक्षिस्पन्दते। चोरः सन्धिं छिनत्तीव पश्यामि। यदीदृश्यवस्थाऽर्थानां, जात्या दरिद्र एव भवामि।]
नायकः---मूर्ख! धिक् त्वाम्! दारिद्र्यमभिलषसि ।
सज्जलकः---अथ केनेदानीं सन्धिच्छेदमार्गः सूचयितव्यः स्यात्। नन्विदं दिवा ब्रह्मसूत्रं रात्रौ कर्मसूत्रं भविष्यति।
अद्यास्य भित्तिषु मया निशि पाटितासु
छेदात् समासु सकृदर्पितकाकलीषु ।
काल्यं विषादविमुखः प्रतिवेशवर्गो
दोषांश्च मे वदतु कर्मसु कौशलं च ।।१०।।
नमः खरपटाय । नमो रात्रिगोचरेभ्यो देवेभ्यः । (तथा करोति ।) हन्त अवसितं कर्म । प्रविशामस्तावत् । (प्रविश्य) अये ! ज्वलति दीपः । अपसरामि तावत्। धिक् सज्जलकः खल्वहम् ।
मार्जारः प्लवने वृकोऽपसरणे श्येनो गृहालोकने
निद्रा सुप्तमनुष्यवीर्यतुलने संसर्पणे पन्नगः ।
माया वर्णशरीरभेदकरणे वाग् देशभाषान्तरे
दीपो रात्रिषु सङ्कटे च तिमिरं वायुः स्थले नौर्जले।।११।।
(सर्वतो विलोक्य) आगन्तुकत्वादविदितसमृद्धिविस्तरः केवलं भवनप्रत्ययादिह प्रविष्टोऽस्मि। न चेदानीं कञ्चित् परिच्छदविशेषं पश्यामि । किन्नु खलु दरिद्र एवायम्। उताहो अयं संयमननिरर्थकं द्रष्टव्यं धारयति। अथवा, अभिजातोऽयं भवनविन्यासः । उपभुक्तप्रनष्टविभवेनानेन भवितव्यम् ।
गृहं विक्रयकालेऽपि नीलस्नेहेन रक्षति।।१२।।
भवतु पश्यामस्तावत् । अथवा, न खलु मे तुल्यावस्थः कुलपुत्रः पीडयितव्यः गच्छामि तावत् ।
विदूषकः---भो! गण्ह एदं सुवण्णभण्डअं । [भोः! गृहाणैतत् सुवर्णभाण्डम् ।]
सज्जलकः---कथं सुवर्णभाण्डमित्याह । किं मां दृष्ट्वाऽभिभाषते । आहोस्वित् सत्त्वलाघवाद् स्वप्नायते । भवतु पश्यामस्तावत् । (दृष्ट्वा) भूतार्थ सुप्त एवायम्। तथाहि,
निःश्वासोऽस्य न शङ्कितो न विषमस्तुल्यान्तरं जायते
गात्रं सन्धिषु दीर्घतामुपगतं शय्याप्रमाणाधिकम्।
दृष्टिर्गाढनिमीलिता न चपलं पक्ष्मान्तरं जायते
दीपं चैव न मर्षयेदभिमुखः स्याल्लक्षसुप्तो यदि ।। १३ ।।
क्व नु खलु तत् । अये जर्जरप्रावरणैकदेशे दीपप्रभाव्यक्तीकृतरूपं दृश्यते । सुपरिगृहीतमनेन । अयमत्र प्राप्तकालः। इमे मया गृहीताः शलभाः दीपनिर्वापणार्थमेकं मुञ्चामि। (भ्रमरकरण्डकादेकं मुञ्चति।) अये! एष दीपं निर्वाप्य पतति।
विदूषकः---अविहा णिव्वाविदा दीवो दाणिं । मुसिदो म्हि । भो चारुदत्त! गण्ह एवं सुवण्णालङ्कारं। अहं खु भीदीए उप्पहप्पवुत्तो विअ वणिजो णिद्दं ण लभामि । मम बम्हत्तणेण साविदो सि, जइ ण गण्हसि। [अविहा निर्वापितो दीप इदानीम् । मुषितोऽस्मि । भोश्चारुदत्त! गृहाणेमं सुवर्णालङ्कारम् । अहं खलु भीत्योत्पथप्रवृत्त इव वणिग् निद्रां न लभे। मय ब्रह्मत्वेन शापितोऽसि, यदि न गृह्णासि।]
सज्जलकः---किमत्र शपथपरिग्रहेण । एष प्रतिगृह्णामि। (गृह्णाति) ।
विदूषकः---(दत्त्वा) अहं विक्किणिदभण्डओ विअ वणिजओ सुहं सइस्सं । [अहं विक्रीतभाण्डक इव वणिक् सुखं शयिष्ये।]
सज्जलकः---सुखं स्वपिहि महाब्राह्मण! (विचिन्त्यः) भोः! ब्राह्मणेन विश्वासाद् दीयमानं मया हर्तव्यमासीत् ।
यदिदं दारुणं कर्म निन्दामि च करोमि च ।। १४ ।।
सज्जलकः---(कर्णं दत्त्वा) अये प्रभातसमयः संवृत्तः । अपसरामि तावत्।
चेटी---(साक्रन्दम्) अय्यमेत्तेअ! अम्हाणं रुक्खवाडिआपक्खदुवाले सन्धिं छिन्दिअ चोरो पविट्ठो । [आर्यमैत्रेय! अस्माकं वृक्षवाटिकापक्षद्वारो सन्धिं छित्त्वा चोरः प्रविष्टः।]
विदूषकः---(सहसोत्थाय) किं भणादि होदी । [किं भणति भवति।]
विदूषकः---चोरं छिन्दिअ सन्धी पविट्ठो। [चोरं छित्त्वा सन्धिः प्रविष्टः ।]
चेटी---हदास! सन्धिं छिन्दिअ चोरो पविट्ठो। [हताश! सन्धिं छित्त्वा चोरः प्रविष्टः ।]
विदूषकः---आअच्छ णं दंसेहि। [आगच्छ ननु दर्शय।]
चेटी---(परिक्रम्य) एदं । [एतत्।]
विदूषकः---अविहा दासीएवुत्तेण कुक्कुरेण पवेसो किदो । भोदि! आअच्छ, चारुदत्तस्स पिअं णिवेदेमि। [अविहा दास्याः पुत्रेण कुक्कुरेण प्रवेशः कृतः । भवति! आगच्छ चारुदत्तस्य प्रियं निवेदयामि।]
भो चारुदत्त! पिअं दु णिवेदेमि। [भोश्चारुदत्त! प्रियं ते निवेदयामि।]
नायकः---(बुद्ध्वा) किं मे प्रियम्। ननु वसन्तसेना प्राप्ता।
विदूषकः---ण खु वसन्तसेणा वसन्तसेणा पत्तो। [न खलु वसन्तसेना, वसन्तसेनः प्राप्तः ।]
नायकः---रदनिके! किमेतत्।
चेटी---भट्टिदारअ ! अम्हाणं रुक्खवाडिआपक्खदुवारे सन्धिं छिन्दिअ चोरो पविट्ठो। [भर्तृदारक! अस्माकं वृक्षवाटिकापक्षद्वारे सन्धिं छित्त्वा चोरः प्रविष्टः।]
नायकः---किं चोरः प्रविष्टः ।
विदूषकः---भो वअस्स। सव्वहा तुवं भणासि, मुक्खो मेत्तोओ अपण्डिदो मेत्तेओत्ति। णं मए सोभण किदं तं सुवण्णभण्डअं तव हत्थे समप्पअन्तेण। [भो वयस्य! सर्वथा त्वं भणसि, मूर्खो मैत्रेयोऽपण्डितो मैत्रेय इति। ननु मया शोभनं कृतं तत् सुवर्णभाण्डकं तव हस्ते समर्पयता।]
नायकः---किं भवता दत्तम्।
विदूषकः---अहइं। [अथ किम्।]
नायकः---कस्यां वेलायाम्।
विदूषकः---अद्धरत्ते। [अर्द्धरात्रे।]
नायकः---किमर्धरात्रे । बाढं दत्तम्।
विदूषकः---भो चारुदत्त। जं वेलं परिबुद्धो आसि, तस्सिं वेलाअं खु दिण्णं । [भोश्चारुदत्त! यस्यां वेलायां प्रतिबुद्ध आसिः, तस्यां वेलायां खलु दत्तम्।]
नायकः---हस्त हृतं सुवर्णभाण्डकम्।
विदूषकः---दाणिं मे हत्थे पडिच्छिदु अत्तभावं । [इदानीं मम हस्ते प्रयच्छत्वत्रभवान्।]
नायकः---(आत्मगतम्)
शङ्कनीया हि दोषेषु निष्प्रभावा दरिद्रता।।१५।।
ब्राह्मणी-रदणिए! रदणिए! आअच्छ! णहि सुआदि। कवाडसद्दं दाव करिस्सं। (तथा करोति।)[रदनिके! रदनिके! आगच्छ। न हि श्रृणोति। कवाटशब्दं तावत् करिष्यामि।]
चेटी---`हं कवाडसद्दो विअ। भट्टिदारिआ मं सद्दावेदि। (परिक्रम्य) भट्टिदारिए ! इअ म्हि। [हं,कवाटशब्द इव। भर्तृदारिका मा शब्दापयति। भर्तृदारिके! इयमस्मि।]
ब्राह्मणी---ण परिक्खदो ण वावादिदो अय्यउत्तो अय्यमेत्तेओ वा। [न परिक्षतो न व्यापादित आर्यपुत्र आर्यमैत्रेयो वा।]
चेटी---कुसली भट्टिदारओ अय्यमेत्तेओ अ। जो तस्स जणस्स अलङ्कारो चोरेण गहीदो। [कुशली भर्तृदारक आर्यमैत्रेयश्च। यस्तस्य जनस्यालङ्कारश्चोरेण गृहीतः।]
ब्राह्मणी---किं भणसि चोरेण गहीद त्ति। [किं भणसि चोरेण गृहीत इति।]
चेटी---अह इं। [अथ किम्।]
ब्राह्मणी---किंणु खु तस्स जणस्स दादव्वं भविस्सदि। अहव एदं दइस्सं। (कर्णौ स्पृष्ट्वा)। हद्धि तालीपत्तं खु एवं। सो दाणिं परिअओ मं बिलम्बेदि। किं वाणिं करिस्सं। (विचिन्त्य) भोदु, दिट्ठं। मम ञ्जादिकुलादो लद्धा सदसहस्समुल्ला मुत्तावली । तं पि अय्यउत्तो सोढीरदाए वडिच्छदि। भोदु, एवं दाव करिस्सं। (निष्क्रान्ता) [किन्नु खलु तस्मै जनाय दातव्यं भविष्यति। अथवैतद् दास्यामि। हा धिक् तालीपत्रं खल्वेतत्। स इदानीं परिचयो मां विडम्बयति। किमिदानीं करिष्यामि । भवतु, दृष्टम्। मम ज्ञातिकुलाद् लब्धा शतसहस्रमूल्या मुक्तावली। तामप्यार्यपुत्रः शौटीरतया प्रतीच्छति। भवतु, एवं तावत् करिष्यामि।]
विदूषकः---इमस्स अन्धआरुप्पादिदस्स अवराहस्स किडे भवन्तं सीसेण पसादेमि । दाणिं मे हत्थे पडिच्छदु अत्तभवं। [अस्यान्धकारोत्पादितस्यापराधस्य कृते भवन्तं शीर्षेण प्रसादयामि। इदानीं मे हस्ते प्रयच्छत्वत्रभवान्।]
नायकः---किं भवानिदानीं मां बाधते?
किं पुनः स कलाजीवी वञ्चनापण्डितो जनः।।१६।।
विदूषकः---मण्णे मय मन्दभग्गेण कुम्भीलस्स हस्ते दिण्णं। (विषण्णस्तिष्ठति।)[मन्ये मया मन्दभाग्येन कुम्भीलस्स हस्ते दत्तम्।]
ब्राह्मणी---रदणिए! अय्यमेत्तेअं सद्दावेहि। [रदनिके! आर्य मैत्रेयं शब्दापय।]
चेटी---अय्यमेत्तेअ! भट्टिदारिआ। तुमं सद्दावेदि। [आर्यमैत्रेय! भर्तृदारिका त्वां शब्दापयति।]
विदूषकः---भोदि! किं मं। [भवति! किं माम्।]
चेटी---आम्। [आम्]
विदूषकः---एस आअच्छामि। (उपसर्पति।)[एष आगच्छामि।]
ब्राह्मणी---अय्यमेत्तेय! इमं पडिग्गाहं पडिगण्ह। [आर्यमैत्रेय! इमं प्रतिग्रहं प्रतिगृहाण।]
विदूषकः---अवत्थाविरुद्धो खु अअं पदाणविभवो। कुदो एदस्स आगमो। [अवस्थाविरुद्धः खल्वयं प्रदानविभवः । कुत एतस्यागमः।]
ब्राह्मणी---णं सट्ठिं उववसामि। सव्वसारविभवेण बम्हणेण सोत्थि वाअ इदव्वं त्ति एसो इमस्स आगमो ! [ननु षष्ठीमुपवसामि। सर्वसारविभवेन ब्राह्मणेन स्वस्ति वाचयितव्यमित्येषोऽस्यागमः ।]
विदूषकः---अट्ठमी खु अज्ज। [अष्टमी खल्वद्य।]
ब्राह्मणी---पमदादो अदिक्कमो किदो। अज्ज पूआ णिव्वत्तीअदि। [प्रमादाद् अतिक्रमः कृतः । अद्य पूजा निर्वर्त्यते।]
विदूषकः---अणणुरूवदाए पदाणस्स अणुक्कोसो विअ पडिभादि। (जनान्तिकम्) रदणिए! किं करिस्सं। [अननुरूपतया प्रदानस्यानुक्रोश इव प्रतिभाति। रदनिके! किं करिष्यामि।]
चेटी---(अपवार्य) किणु खु तस्स जणस्स दादव्वं भविस्सदि त्ति एदण्णिमित्तं भट्टिदारओ सन्तप्पदि त्ति भट्टिदारिआ तव हत्थे दइअ अय्यउत्तं अणिरिणं करिस्सामि त्ति एवं करेदि । ता गण्ह एदं । [किन्नु खलु तस्मै जनाय दातव्यं भविष्यतीत्येतन्निमित्तं भर्तृदारकः सन्तप्यत। इति भर्तृदारिका तव हस्ते दत्त्वाऽऽर्यपुत्रमनृणं करिष्यामीत्येवं करोति। तद् गृहाणैतत्।]
ब्राह्मणी---उदअसम्भवदाए मुत्तावलीए तव अदुल्लहदाए उवआरो विस्सरिदो। गण्ह एदं। (ददाति।) [उदकसम्भवतया मुक्तावल्यास्तव च दुर्लभतयोपचारो विस्मृतः । गृहाणैतत्।]
विदूषकः---(गृहीत्वा) सव्वं दाव चिठ्ठदु। रोदिदी विअ होदीए दिठ्ठी। [सर्वं तावत् तिष्ठतु । रोदितीव भवत्या दृष्टिः।]
ब्राह्मणी---देवउलधूमेण रोविदा। [देवकुलधूमेन रोदिता।]
विदूषकः---साविदासी तत्तहोदा चारुदत्तेण, जइ अलिअं भणासि। [शापितासि तत्रभवता चारुदत्तेन, यद्यलीकं भणसि।]
ब्राह्मणी---हद्धि। (निष्क्रान्ता)। [हा धिक्।]
विदूषकः---एसा बाआए दुक्खं रक्खिअ अस्सूहि सूइअ गआ। (उपगम्य) भो! इदं। [एषा वाचा दुःखं रक्षित्वाऽश्रुभिः सूचयित्वा गता। भोः! इदम्।]
नायकः---किमेतत्।
विदूषकः---सरिसकुलदारसङ्गहस्स फलं। [सदृशकुलदारसंग्रहस्य फलम्।]
नायकः---किं ब्राह्मणी मामनुकम्पते।
विदूषकः---एवं विअ। [एवमिव।]
नायकः---धिगात्मानम्। अद्य हतोऽस्मि।
अर्थतः पुरुषो नारी या नारी साऽऽर्थतः पुमान्।।१७।।
विदूषकः---तत्तहोदो हिअएण तुमं याचेदि। अहं सीसेण याचेमि । गण्ह एदं। [तत्रभवती हृदयेन त्वा याचते। अहं शीर्षेण याचे। गृहाणैतत्।]
नायकः---तथा। (गृहीत्वा) वयस्य! इमां मुक्तावलीं गृहीत्वा वसन्तसेनायाः सकाशं गच्छ।
अर्थेषु काममुपलभ्य मनोरथो मे
स्त्रीणां धनेष्वनुचितं प्रणयं करोति।
माने च कार्यकरणे च विलम्बमानो
धिग् भोः! कुलं च पुरुषस्य दरिद्रतां च ।।१८।।
विदूषकः---अहो अप्पमुल्लस्स सुवण्णभण्डअस्स किदे सदसहस्समुल्ला मुत्तावली णीआदइदव्वा। [अहो अल्पमूल्यस्य सुवर्णभाण्डकस्य कृते शतसहस्रमूल्या मुक्तावली निर्यातयितव्या।]
नायकः---वयस्य! मा मैवम्।
तस्यैतन्महतो मूल्यं प्रत्ययस्य प्रदीयताम्।। १९ ।।