चारुदत्तम्/चतुर्थोऽङ्कः
← तृतीयोऽङ्कः | चारुदत्तम् चतुर्थोऽङ्कः भासः |
(ततः प्रविशति सोत्कण्ठा वसन्तसेना, चित्रफलकमादाय वर्तिकाकरण्डहस्ता चेटी च।)
गणिका---हञ्जे। पेक्खसि सरिसो तस्स जणस्स। [हञ्जे! पश्यसि सदृशस्तस्य जनस्य।]
चेटी---अज्जुए! तस्सिं हत्थिविमद्दकोलाहले बहुमाणपय्यत्थाए दिट्ठीए दूरदो दिट्ठो सो भट्टिदारओ ईदिसो एव्व। [अज्जुके! तस्मिन् हस्तिविमर्दकोलाहले बहुमानपर्यस्तया दृष्ट्या दूरतो दृष्टः स भर्तृदारक ईदृश एव।]
गणिका---तुमं दाव दक्खो वेसवासजणो त्ति जणवादं पूरअन्ती अलिअं भणसि। [त्वं तावद् दक्षो वेशवासजन इति जनवादं पूरयन्त्यलीकं भणसि।]
चेटी---किं एदं वेशवासजणो सव्वो दक्खिणो होइ त्ति। पेक्खदु अज्जुआ, चम्पआरामे विचुमन्दा जाअन्ति। अदिसरिसं त्ति मम हिअअं अहिरमदि। परमत्थदो एव्व पसंतीअदि, णं कामदेवो। [किमेतद् वेशवासजनः सर्वो दक्षिणो भवतीति। पश्यत्वज्जुका, चम्पकारामे पिचुमन्दा जायन्ते। अतिसदृश इति मम हृदयमभिरमते। परमार्थत एव प्रशस्यते, ननु कामदेवः ।]
गणिका---हञ्जे! सहोजणेण अवहसणीअत्तणं अत्तणो परिहरामि। [हञ्जे! सखीजनेनापहसनीयत्वमात्मनः परिहरामि।]
चेटी---एदं जुज्जइ। सहीजणसपत्तिओ गणिआजणो णाम । [एतद् युज्यते। सखीजनसपत्नीको गणिकाजनो नाम।]
चेटी---सुहं अज्जुआए। [सुखमज्जुकायाः।]
गणिका---हञ्जे! साअदं डे। [हञ्जे! स्वागतं ते।]
चेटी---अज्जुए! अत्ता आणवेदि---इदं दुवारं पविट्टं पोक्खरं उवावत्तिदं पहवणं । ता तुवरमाणमण्डणा गहीदावउण्ठणा आअच्छदु त्ति। इह अलङ्कारं अलङ्करेदु अज्जुआ। [अज्जुके! अम्बाऽऽज्ञापयति--इदं द्वारं प्रविष्टं पौष्करमुपावर्तितं प्रवहणम्। तत् त्वरमाणमण्डना गृहीतावगुण्ठनाऽऽगच्छत्विति। इहालङ्कारमलङ्कारोत्वज्जुका।]
गणिका---किं अय्यचारुदत्तो मण्डइस्सिदि। [किमार्यचारुदत्तो मण्डयिष्यति।]
चेटी---णहि, जेण अलङ्कारो पेसिदो सो राअसालो सण्ठाणो । [नहि, येनालङ्कारः प्रेषितः स राजश्यालः संस्थानः।]
गणिका---अवेहि अविणीदे!। [अपेह्यविनीते।]
चेटी---पसीददु पसीददु अज्जुआ। सन्देसं खु अहं मन्तेमि। (पादयोः पतति)। [प्रसीदतु प्रसीदत्वज्जुका। सन्देशं खल्वहं मन्त्रये।]
गणिका---उट्ठेहि उट्ठेहि। कुसन्देसं असूआमि, ण तुवं। [उत्तिष्ठोत्तिष्ठ। कुसन्देशमसूयामि, न त्वाम्।]
चेटी---किं अहं अत्तं भणामि। [किमहमम्बां भणामि।]
गणिका---भणेहि अत्तं--जदा अय्यचारुदत्तो अभिसारइदव्वो तदा मण्डेमि त्ति। [भणाम्बां--यदाऽऽर्यचारुदत्तोऽभिसारयितव्यस्तदा मण्डयामीति।]
चेटी---तह। (निष्क्रान्ता।)[तथा।]
सज्जलकः--
स एव सूर्योदयमन्दवीर्यः शनैर्दिवाचन्द्र इवास्मि भीतः ।।१।।
दिष्ट्या कर्मान्ते प्रभातम्। यावदिदानीं वसन्तसेनायाः परिचारिकाया मदनिकाया निष्क्रयार्थ मयेदं कृतम्। (परिक्रम्य) इदं वसन्तसेनाया गृहम्। यावत् । प्रविशामि। (प्रविश्य) किन्नु खल्वभ्यन्तरस्था मदनिका। अथवा पूर्वाह्णे गणिकानामभ्यन्तरे सान्निध्यम्। अतस्तत्रैव तया भवितव्यम्। यावच्छब्दापयामि। मदनिके! मदनिके!।
चेटी---(आकर्ण्यं) सज्जलअस्स विअ सरो । वावुदा अज्जुआ। ता उवसप्पिस्सं । (उपगम्य) इअम्हि। [सज्जलकस्येव स्वरः व्यापृताऽज्जुका। तदुपसर्पिष्यामि। इयमस्मि।]
सज्जलकः---इतस्तावत्।
चेटी---किं तुवं सङ्किदवण्णो विअ। [किं त्वं शङ्कितवर्ण इव।]
सज्जलकः--न खलु, किञ्चित् कथयितुकामः।
गणिका---हञ्जे! इमं चित्तफलअं सअणिए ठावे हि(विलोक्य) कहिं गआ हदासा । अहव अदूरगआए होदव्वं । जाव णं पेक्खिस्सं(परिक्रम्यावलोक्य) अम्मो इअं सा अदिसिणिद्धाए दिट्ठीए केण विमणुस्सेण पिबन्ती विअ सह मन्तअन्ती चिट्ठइ। तक्केमि एत्तो जो कोवि कएण मं याचेदि। [हञ्जे! इदं चित्रफलकं शयनीये स्थापय। कुत्र गता हताशा। अथवा अदूरगतया भवितव्यम्। यावदेनां प्रेक्षिष्ये । अम्मो इयं साऽतिस्निग्धया दृष्ट्या केनापि मनुष्येण पिबन्तीव सह मन्त्रयमाणा तिष्ठति। तर्कयाम्येष यः कोऽपि क्रयेण मां याचते।]
सज्जलकः---श्रूयतां रहस्यम्।
गणिका---अजुत्तं पररहस्सं सोदुं, अहं गमिस्सं। [अयुक्तं पररहस्यं श्रोतुम्,अहं गमिष्यामि।]
सज्जलकः---अपि वसन्तसेना(इत्यर्धोक्ते)।
गणिका---अहं अहिइदा एदाअं कहाअं । होदु, सुणिस्सं दाव भविस्सदि। (पुनः प्रतिनिवृत्य स्थिता।) [अहमधिकृतैतस्यां कथायाम्। भवतु, श्रोष्यामि तावद् भविष्यति।]
सज्जलकः---किं दास्यति त्वां निष्क्रयेण।
गणिका---सो एव्व एसो। होदु, सुणिस्सं । [स एवैषः। भवतु, श्रोष्यामि।]
चेटी---सज्जलअ! मम पदाणं पुढभं एवं अज्जुआए उत्तं। [सज्जलक! मम प्रदानं प्रथममेवाज्जुकयोक्तम्।]
सज्जलकः---तेन हीममस्यै प्रयच्छ, एवं वक्तव्या च---
अप्रकाश्यो ह्यलङ्कारो मत्स्नेहाद् धार्यतामिति।।२।।
चेटी---पेक्खामि दाव। [पश्यामि तावत्।]
सज्जलकः---गृह्यताम्। (दर्शयति।)
चेटी---दिट्ठपुरुवो विअ अअं अलङ्कारो। [दृष्टपूर्व इवायमलङ्कारः।]
गणिका---ममकेरओ विअ अअं अलङ्कारो। [मदीय इवावयमलङ्कारः।]
चेटी---भणाहि भणाहि। को इमस्स आअमो। [भण भण । कोऽस्यागमः]
सज्जलकः---त्वत्स्नेहात् साहसं कृतम्।
उभे---हं, साहसिओ। [हं, साहसिकः।]
चेटी---(आत्मगतम्) आ अज्जुआए खु इमस्स आइदी कम्मदारुणदाए उव्वे अणीआ संवुत्ता। (प्रकाशम्) हद्धि मम किदे उभअं संसइदं संवुत्तं तव सरीरं चारित्तं च। [आ, अज्जुकायाः खल्वस्याकृतिः कर्मदारुणतयोद्वेजनीया संवृत्ता। हा धिग् मम कृते उभयं संशयितं सवृत्तं तव शरीरं चारित्रं च।]
सज्जलकः---उन्मत्तिके! साहसे खलु श्रीर्वसति।
चेटी---अपण्डिदो खु सि। को हि णाम जीविदेण सरीरं विक्कीणिस्सदि। अह कस्स गेहे इअं विस्सासवञ्चणा किदा। [अपण्डितः खल्वसि। को हि नाम जीवितेन शरीरं विक्रेष्यति। अथ कस्य गेहे इयं विश्वासवञ्चना कृता।]
सज्जलकः---यथा प्रभाते मया श्रुतं--श्रेष्ठिचत्वरे प्रतिवसति सार्थवाहपुत्रश्चारुदत्तो नाम।
उभे--हुम्।
सज्जलकः---अयि,
मृगीव शरविद्धाङ्गी कम्पसे चानुकम्पसे।। ३।।
चेटी---सच्चं भणाहि। सत्थवाहकुले साहसं करन्तेण तु ए कोच्चि कुलवुत्तो सत्थेण अत्थि परिक्खदो वावादिदो वा । [सत्यं भण । सार्थवाहकुले साहसं कुर्वता त्वया कश्चित् कुलपुत्रः शस्त्रेणास्ति परिक्षतो व्यापादितो वा।]
गणिका---सुट्ठु, मए वि पुच्छिदव्वं एदाए पुच्छिदं। [सुष्ठु, मयामि प्रष्टव्यमेतया पृष्टम्।]
सज्जुलकः---मदनिके! एतावत् किं न पर्याप्तं, द्वितीयमप्यकार्यं करिष्यामि। न खल्वत्र शस्त्रेण कश्चित् परिक्षतो व्यापादितो वा।
चेटी---सज्जलअ! सच्चं । [सज्जलक! सत्यम्।]
सज्जलकः---सत्यम्।
चेटी---साहु सज्जलअ! पिअं मे। [साधु सज्जलक! प्रियं मे।]
सज्जलकः---किं किं प्रियमित्याह। ईदृशं मदनिके!
त्वत्स्नेहबद्धहृदयो हि करोम्यकार्यं
सन्तुष्टपूर्वपुरुषेऽपि कुले प्रसूतः।
रक्षामि मन्मथगृहीतमिदं शरीरं
मित्रं च मां व्यपदिशस्यपरं च यासि।।४।।
चेटी---सज्जलअ! सुणाहि। अज्जुआए अअं अलङ्कारो। (कर्णे।) एवं विअ। [सज्जलक! श्रुणु । अज्जुकाया अयमलङ्कारः। एवमिव।]
सज्जलकः---एवम्।
छायार्थी ग्रीष्मसन्तप्तस्तामेव पुनराश्रितः ।।५।।
गणिका---सन्ताप्पदि त्ति तक्केमि एदेण अकय्यं किदं ति। [सन्तप्यत इति तर्कयामि एतेनाकार्यं कृतमिति।]
सज्जलकः---मदनिके! एवं गते किं कर्तव्यम्।
चेटी---तहिं एव्व णिय्यादेहि णहि मण्डइस्सदि अज्जुआ। [तत्रैव निर्यातय, नहि मण्डयिष्यत्यज्जुका।]
सज्जलकः---अथेदानीं सोऽमर्षान्मां चोर इति रक्षिपुरुषैर्ग्राहयिष्यति चेदत्र किं करिष्यामि।
चेटी---मा भाआहि मा भाआहि। कुलवुत्तो खु सो गुणामं परितुस्सदि। [मा बिभीहि मा बिभीहि। कुलपुत्रः खलु स गुणानां परितुष्यति।]
गणिका---साहु भद्दे! अवत्तव्वासि अलङ्किदा विअ एदेण वअणेण। [साधु भद्रे! अवक्तव्यासि, अलङ्कृतेवैतेन वचनेन।]
सज्जलकः---सर्वथा न शक्ष्याम्यहं तत्र गन्तुम्।
चेटी---अअं अण्णो उवाओ।[अयमन्य उपायः।]
गणिका---एदे गुणा वेसवासस्स। [एते गुणा वेशवासस्य।]
सज्जलकः---कोऽन्य उपायः।
चेटी---णं तव रूपञ्जा अज्जुआ अवि सत्थवाहपुत्तो अ।[ननु तव रूपज्ञाज्जुकाऽपि सार्थवाहपुत्रश्च।]
सज्जलकः---न खलु।
चेटी---तेण हि इमं दाव अलङ्कारं तस्स सत्थवाहपुत्तस्स वअणादो अज्जुआए णिय्यादेहि। एवं च किदे तुवं रक्खिदो, सो अय्यो अ अणिव्विण्णो भविस्सदि। अहं च पीडिदा ण भविस्सं । आदु अज्जुअं च पुणो वञ्चिअ पुणो एव्व दासभावो भवे। [तेन हीमं तावदलङ्कारं तस्य सार्थवाहपुत्रस्य वचनादज्जुकायै निर्यातय। एवं च कृते त्वं रक्षितः, स आर्यश्चानिर्विण्णो भविष्यति। अहं च पीडिता न भविष्यामि। अथवा अज्जुकां च पुनर्वञ्चयित्वा पुनरेव दासभावो भवेत्।]
सज्जलकः---मदनिके! प्रीतोऽस्मि।
गणिका---भोदु अब्भन्तरं पविसिअ उवविसामि। (तथा करोति।) [भवत्वभ्यन्तरं प्रविश्योपविशामि।]
चेटी---सज्जलअ! आअच्छ, कामदेवउले म पडिवालेहि । अहं ओसरं जाणिअ अज्जुआए णिवेदेमि। [सज्जलक! आगच्छ, कामदेवकुले मा प्रतिपालय। अहमवसरं ज्ञातत्वाऽज्जुकायै निवेदयामि।]
सज्जलकः---बाढम्।(निष्क्रान्तः।)
चेटी---सुहं अज्जुआए। एसो सत्थवाहपुत्तस्स, सआसादो कोच्चि बम्हणो आअदो अज्जुअं पेक्खिदुं। [सुखमज्जुकायाः । सार्थवाहपुत्रस्य सकाशात् कश्चिद् ब्राह्मण आगतोऽज्जुकां द्रष्टुम्।]
गणिका---(सादरम्) गच्छ सिग्धं पवेसेहि णं। [गच्छ, शीघ्रं प्रवेशयैनम्।]
चेटी---तह। (उपसृत्य) एदु एदु अय्यो। [तथा एत्वेत्वार्यः।]
विदूषकः---(प्रविश्य सर्वतो विलोक्य) अहो गणिआवाडस्स सस्सिरीअदा। णाणापट्टणसमागदेहि आअमिएहि पुत्थआ वाईअन्ति। संओजअन्ति अ आहारप्पआराणि वीणा वादीअन्ति। सुवण्णआरा अलङ्कारप्पआराणि आदरेण जोजअन्ति। [अहो गणिकावाटस्य सश्रीकता। नानापट्टणसमागतैरागमिकैः पुस्तकानि वाच्यन्ते। संयोज्यन्ते चाहारप्रकाराः । वीणा वाद्यन्ते। सुवर्णकारा अलङ्कारप्रकारानादरेण योजयन्ति।]
चेटी---एषा अज्जुआ उवसप्पदु अय्यो। [एषाज्जुका। उपसर्पत्वार्यः।]
विदूषकः---(उपगम्य) सोत्थि होदीए। [स्वस्ति भवत्यै।]
गणिका---साअदं अय्यस्स। हञ्जे! आसणं अय्यस्स, पादोदअं च । [स्वागतमार्यस्य। हञ्जे! आसनमार्यस्य, पादोदकं च।]
विदूषकः---(आत्मगतम्) सव्वं आणेदु वज्जिअ भोअणं। [सर्वमानयतु वर्जयित्वा भोजनम्।]
चेटी---जं अज्जुआ आणवेदि। (आसनं ददाति, पादोदकं च।) उवविसदु अय्यो। [यदज्जुकाज्ञापयति। उपविशत्वार्यः।]
विदूषकः---(उपविश्य) पडिच्छदु आसणं भोदी। अहं किञ्चि भणिदुं आअदो। [प्रतीच्छत्वासनं भवती। अहं किञ्चिद् भणितुमागतः।]
गणिका---(उपविश्य) अवहिदम्हि। [अवहितास्मि।]
विदूषकः---केत्तिअमत्तं खु तस्स अलङ्कारस्स मुल्लप्पमाणं । [क्रियन्मात्रं खलु तस्यालङ्कारस्य मूल्यप्रमाणम्।]
गणिका---किंणिमित्तं खु अय्यो पुच्छदि। [किन्निमित्तं खल्वार्यः पृच्छति।]
विदूषकः---सुणादु भोदी। तत्तहोदो चारुदत्तस्स गुणप्पच्चाअणणिमित्तं खु तुए अलङ्कारो तर्हि णिक्खित्तो। सो तेण जूदे हारिदो। [श्रुणोतु भवती। तत्रभवतश्चारुदत्तस्य गुणप्रत्यायननिमित्तं खलु त्वयालङ्कारस्तस्मिन् निक्षिप्तः। स तेन द्यूते हारितः।]
गणिका---जूदे। जुज्जइ। तदो तदो। [द्यूते। युज्यते। ततस्ततः।]
विदूषकः---तदो तस्स अलङ्कारस्स मुल्लभूदं इमं मुत्तावलिं पडिच्छदु भोदी। [ततस्तस्यालङ्कारस्य मूल्यभूतामिमां मुक्तावलीं प्रतीच्छतु भवती।]
गणिका---(आत्मगतम्) धिक् खु गणिआभावं । लुद्धति मं तुलअदि। जइ ण पडिच्छे, सो एव्व दोसो भविस्सदि। (प्रकाशम्) आणेदु अय्यो । [धिक् खलु गणिकाभावम्। लुब्धेति मां तुलयति। यदि न प्रतीच्छामि, स एव दोषो भविष्यति। आनयत्वार्यः ।]
विदूषकः---इदं गण्हदु भोदी। [इदं गृह्णातु भवती।]
गणिका---(गृहीत्वा) पडिच्छिदं तए त्ति अय्यो णिवेदेदु। [प्रतीष्टं तयेत्यार्यो निवेदयतु।]
विदूषकः---(आत्मगतम्) कोवि उवआरो वि ण एदाए भणिदो। (प्रकाशम्) एवं होदु । (दत्त्वा निष्क्रान्तः) [कोऽप्युपचारोऽपि नैतया भणितः। एवं भवतु।]
गणिका---साहु चारुदत्त! साहु। भाअधेअपरिवुत्तदाए दसाए माणावमाणं रक्खिदं । [साधु चारुदत्त! साधु। भागधेयपरिवृत्ततायां दशायां मानावमानं रक्षितम्।]
मदनिका---अज्जुए! सत्थवाहपुत्तस्स सआसादो कोच्चि मणुस्सो आअदो इच्छइ अज्जुअं पेक्खिउं। [अज्जुके! सार्थवाहपुत्रस्य सकाशात् कश्चिद् मनुष्य आगत इच्छत्यज्जुकां द्रष्टुम्।]
गणिका---किं दिट्ठपुरुवो णवदंसणो वा। [किं दृष्टपूर्वो नवदर्शनो वा।]
मदनिका---अज्जुए! णहि, तस्सकेरओ त्ति मे पडिभादि। [अज्जुके! नहि, तदीय इति मे प्रतिभाति।]
गणिका---गच्छ, पवेसेहि णं। [गच्छ, प्रवेशयैनम्।]
मदनिका---तह। (निष्क्रान्ता।) [तथा।]
गणिका---अहो रमणिज्जदा अज्ज दिवसस्स। [अहो रमणीयताऽद्य दिवसस्य]।
सज्जलकः---कष्टा खल्वात्मशङ्का नाम,
सर्वास्तांस्तुलयति दोषतो मनो मे स्वैर्दोषैर्भवति हि शङ्कितो मनुष्यः।।६।।
मदनिका---एसा अज्जुआ। उवसप्पदु अय्यो। [एषाज्जुका । उपसर्पत्वार्यः।]
सज्जलकः---(उपसृत्य) सुखं भवत्यै।
गणिका---साउदं अय्यस्स। हञ्जे! आसणं देदु अय्यस्स। [स्वागतमार्यस्य। हञ्जे! आसनं दीयतामार्याय।]
सज्जलकः---भवतु भवतु। गृहीतमासनम् । त्वरिततरमनुष्ठेयं किञ्चित् कार्यमस्ति।
गणिका---एवं, भणादु अय्यो। [एवं,भणत्वार्यः।]
सज्जलकः---आर्यचारुदत्तेनास्मि प्रेषितः--यस्तावदलङ्कारो मम हस्ते निक्षिप्तः, स त्वसंभोगमलिनतया गृहस्यासान्निध्यात् कौटुम्बिकानां दुरारक्षः। तद् गृह्यताम् इति।
गणिका---इमं तस्स चारुदत्तस्स देदु अय्यो। [इमं तस्मै चारुदत्ताय ददात्वार्यः।]
सज्जलकः---भवति! न खल्वहं गच्छामि।
गणिका---अहं जाणामि तस्स गेहे साहसं करिअ आणीदो अअ अलङ्कारो। तस्स गुणाणि अणुकम्पेदु अय्यो। [अहं जानामि तस्य गेहे साहसं कृत्वानीतोऽयमलङ्कारः । तस्य गुणाननुकम्पतामार्यः।]
सज्जलकः---(आत्मगतम्) कथं विदितोऽस्म्यनया।
गणिका---को एत्थ, पवहणं दाव अय्यस्स। [कोऽत्र, प्रवहणं तावदार्यस्य।]
मदनिका---णेमिसद्दो विअ सुणीअदि! आअदेण पवहणेण होदव्वं। [नेमिशब्द इव श्रूयते। आगतेन प्रवहणेन भवितव्यम्। ]
गणिका---(स्वैराभरणैर्मदनिकामलङ्कृत्य) आरुहदु अय्यो अय्याए सह पवहणं ![आरोहत्वार्य आर्यया सह प्रवहणम्।]
मदनिका---अज्जुए ! किं एदं। [अज्जुके! किमेतत्।]
गणिका---मा खु मा खु एवं मन्तिअ। अय्या खु सि दाणिं संवुत्ता । गण्हदु अय्यो! (मदनिकां गृहीत्वा सज्जलकाय प्रयच्छति।) [मा खलु मा खल्वेवं मन्त्रयित्वा। आर्या खल्वसीदानीं संवृत्ता। गृह्णात्वार्यः।]
सज्जलकः---(आत्मगतम्) भोः! कदा खल्वस्याः प्रतिकर्तव्यं भविष्यति। अथवा, शान्तं शान्तं पापम्।
द्विषतामेव कालोऽस्तु योऽस्या भवतु तस्य वा ।।७।।
गणिका---चउरिए!। [चतुरिके!।]
चेटी---(प्रकाशं) अज्जुए! इअम्हि। [अज्जुके इयमस्मि।]
गणिका---हञ्जे! पेक्ख जागरन्तीए मएसिविणो दिट्टो एव्वं। [हञ्जे! पश्य जाग्रत्या मया स्वप्नो दृष्टः एवम्।]
चेटी---पिअं मे, अमुदंकणाडअं संवुत्तं। [प्रियं मे, अमृताङ्कनाटकं संवृत्तम्।]
गणिका---एहि इमं अलङ्कारं गण्हिअ अय्यचारुदत्तं अभिसरिस्सामो। [एहीममलङ्कारं गृहीत्वार्यचारुदत्तमभिसरिष्यावः।]
चेटी---अज्जुए! तह । एदं पुण अभिसारिआसहाअभूदं दुद्दिणं उण्णमिदं। [अज्जुके! तथा एतत् पुनरभिसारिकासहायभूत दुर्दिनमुन्नमितम्।]
गणिका---हदासे! मा हु वड्ढावेहि। [हताशे। मा खलु वर्धय।]
चेटी---एदु एदु अज्जुआ। [एत्वेत्वज्जुका।](निष्क्रान्ते।)