गरुडपुराणम्/आचारकाण्डः/अध्यायः ८०

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ७९ गरुडपुराणम्
अध्यायः ८०
वेदव्यासः
आचारकाण्डः, अध्यायः ८१ →

              ॥ सूत उवाच ॥
आदाय शेषस्तस्यान्त्रं बलस्य केरलादिषु ॥
चिक्षेप तत्र जायन्ते विद्रुमाः सुमहागुणाः ॥ 80.1 ॥

तत्र प्रधानं शशलोहिताभं गुञ्जाजवापुष्पनिभं प्रदिष्टम् ॥
सुनीलकं देवकरोमकञ्च स्थानानि तेषु प्रभवं सुरागम् ॥ 80.2 ॥

अन्यत्र जातं च न तत्प्रधानं मूल्यं भवेच्छिल्पिविशेषयोगात् ॥
प्रसन्नं कोमलं स्निग्धं सुरागं विद्रुमं हि तत् ॥ 80.3 ॥

धनधान्यकरं लोके विषार्त्तिभयनाशनम् ॥
परीक्षा पुलकस्योक्ता रुधिराक्षस्य वै मणेः ॥
स्फटिकस्य विद्रुमस्य रत्नज्ञानाय शौनक ! ॥ 80.4 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विद्रुमपरीक्षणं नामाशीतितमोऽध्यायः ॥ 80 ॥