गरुडपुराणम्/आचारकाण्डः/अध्यायः ८१

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ८० गरुडपुराणम्
अध्यायः ८१
वेदव्यासः
आचारकाण्डः, अध्यायः ८२ →

        ॥ (अथ तीर्थक्षेत्रमाहात्म्यमारभ्यते ) ॥
               ॥ सूत उवाच ॥
सर्वतीर्थानि वक्ष्यामि गङ्गा तीर्थोत्तमोत्तमा ॥
सर्वत्र सुलभा गङ्गात्रिषु स्थानेषु दुर्लभा ॥ 81.1 ॥

गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥
प्रयागं परमं तीर्थं मृतानां भुक्तिमुक्तिदम् ॥ 81.2 ॥

सेवनात्कृतपिण्डानां पापजित्कामदं नृणाम् ॥
वाराणसी परं तीर्थं विश्वेशो यत्र केशवः ॥ 81.3 ॥

कुरुक्षेत्रं परं तीर्थं दानाद्यैर्भुक्तिमुक्तिदम् ॥
प्रभासं परं तीर्थं सोमनाथो हि तत्र च ॥ 81.4 ॥

द्वारका च पुरी रम्या भुक्तिमुक्तिप्रदायिका ॥
प्राची सरस्वती पुण्या सप्तसारस्वतं परम् ॥ 81.5 ॥

केदारं सर्वपापघ्नं स (श) म्भलग्राम उत्तमः ॥
नरनारायणं तीर्थं मुक्त्यै वदरिकाश्रमः ॥ 81.6 ॥

श्वेतद्वीपं पुरी माया नैमिषं पुष्करं परम् ॥
अयोध्यां चार्घ्यतीर्थं तु चित्रकूटं च गोमती ॥ 81.7 ॥

वैनायकं महीतीर्थं रामगिर्य्याश्रमं परम् ॥
काञ्चीपुरी तुङ्गभद्रा श्रीशैलं सेतुबन्धनम् ॥ 81.8 ॥

रामेश्वरं परं तीर्थं कार्त्तिकेयं तथोत्तमम् ॥
भृगुतुङ्गं कामतीर्थं तीर्थं चामरकंटकम् ॥ 81.9 ॥

उज्जयिन्यां महाकालः कुब्जके श्रीधरो हरिः ॥
कुब्जाम्रकं महातीर्थं कालसर्पिश्च कामदम् ॥ 81.10 ॥

महाकेशी च कावेरी चन्द्रभागा विपाशया ॥
एकाम्रं च तथा तीर्थं ब्रह्मेशं देवकोटकम् ॥ 81.11 ॥

मथुरा च पुरी रम्या शोणश्चैव महानदः ॥
जम्बूसरो महातीर्थं तानि तीर्थानि विद्धि च ॥ 81.12 ॥

सूर्य्यः शिवो गणो देवी हरिर्यत्र च तिष्ठति ॥
एतेषु च यथान्येषु स्नानं दानं जपस्तपः ॥ 81.13 ॥

पूजा श्राद्धं पिण्डदानं सर्वं भवति चाक्षयम् ॥
शालग्रामं सर्वदं स्यात्तीर्थं पशुपतेः परम् ॥ 81.14 ॥

कोकामुखं च वाराहं भा (भु) ण्डीरं स्वामिसंज्ञकम् ॥
लो (मो) हदण्डे महाविष्णुर्मन्दारे मधुसूदनः ॥ 81.15 ॥

कामरूपं महातीर्थं कामाख्या (क्षा) यत्र तिष्ठति ॥
पुण्ड्रवर्द्धनकं तीर्थं कार्त्तिकेयश्च यत्र च ॥ 81.16 ॥

विरजस्तु महातीर्थं तीर्थं श्रीपुरुषोत्तमम् ॥
महेन्द्रपर्वतस्तीर्थं कावेरी च नदी परा ॥ 81.17 ॥

गोदावरी महातीर्थं पयोष्णी वरदा नदी ॥
विन्ध्यः पापहरं तीर्थं नर्मदाभेद उत्तमः ॥ 81.18 ॥

गोकर्णं परमं तीर्थं तीर्थं माहिष्मती पुरी ॥
कालञ्जरं महीतीर्थं शुक्लतीर्थमनुत्तमम् ॥ 81.19 ॥

कृते शौचे मुक्तिदं च शार्ङ्गधारी तदन्तिके ॥
विरजं सर्वदं तीर्थं स्वर्णाक्षं तीर्थमुत्तमम् ॥ 81.20 ॥

नन्दितीर्थं मुक्तिदं च कोटितीर्थफलप्रदम् ॥
नासिक्यं च महातीर्थं गोवर्द्धनमतः परम् ॥ 81.21 ॥

कृष्णवेणीं भीमरथीं गण्डकीं या त्विरावती ॥
तीर्थं बिन्दुसरः पुण्यं विष्णुपादोदकं परम् ॥ 81.22 ॥

ब्रह्मध्यानं परं तीर्थं तीर्थमिन्द्रियनिग्रहः ॥
दमस्तीर्थं तु परमं भवशुद्धिः परं तथा ॥ 81.23 ॥

ज्ञानह्रदे ध्यानजले रागद्वेषमलापहे ॥
यः स्नाति मानसे तीर्थे स याति परमां गतिम् ॥ 81.24 ॥

इदं तीर्थमिदं नेति ये नरा भेददर्शिनः ॥
तेषां विधीयते तीर्थगमनं तत्फलं च यत् ॥ 81.25 ॥

सर्वं ब्रह्मेतियोऽवेति नातीर्थं तस्य किञ्चन ॥
एतेषु स्नानदानानि श्राद्धं पिण्डमथाक्षयम् ॥ 81.26 ॥

सर्वा नद्यः सर्वशैलाः तीर्थं देवादिसेवितम् ॥
श्रीरङ्गं च हरेस्तीर्थं तापी श्रेष्ठा महानदी ॥ 81.27 ॥

सप्तगोदावरं तीर्थं तीर्थं कोणगिरिः परम् ॥
महालक्ष्मीर्यत्र देवी प्रणीता परमा नदी ॥ 81.28 ॥

सह्याद्रौ देवदेवेश एकवीरः सुरेश्वरी ॥
गङ्गाद्वारे कुशावर्त्ते विन्ध्यके नीलपर्वते ॥ 81.29 ॥

स्नात्वा कनखले तीर्थे स भवेन्न पुनर्भवे ॥
        ॥सूत उवाच ॥
एतान्यन्यानि तीर्थानि स्नानाद्यैः सर्वदानि हि ॥ 81.30 ॥

श्रुत्वाऽब्रवीद्धरेर्ब्रह्मा व्यासं दक्षादिसंयुतम् ॥
एतान्युक्त्वा च तीर्थानि पुनस्तीर्थोत्तमोत्तमम् ॥

गयाख्यं प्राह सर्वेषामक्षयं ब्रह्मलोकदम् ॥ 81.31 ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सर्वतीर्थ माहात्म्यं नामैकाशीतितमोऽध्यायः ॥ 81 ॥