गरुडपुराणम्/आचारकाण्डः/अध्यायः ३

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः २ गरुडपुराणम्
अध्यायः ३
वेदव्यासः
आचारकाण्डः, अध्यायः ४ →

।।सूत उवाच ।।
इति रुद्राब्जजौ विष्णोः शुश्राव ब्रह्मणो मुनिः ।।
व्यासो व्यासादहं वक्ष्येहं ते शौनक नैमिषे ।। 3.1 ।।

मुनीनां श्रृण्वतां मध्ये सर्गाद्यं देवपूजनम् ।।
तीर्थं भुवनकोशं च मन्वन्तरमिहोच्यते ।। 3.2 ।।

वर्णाश्रमादिधर्माश्च दानराज्यादिधर्मकाः ।।
व्यवहारो व्रतं वंशा वैद्यकं सनिदानकम् ।। 3.3 ।।

अंगानि प्रलयो धर्मकामार्थज्ञानमुत्तमम् ।।
सप्रपञ्चं निष्प्रपञ्चं कृतं विष्णोर्निगद्यते ।। 3.4 ।।

पुराणे गारुडे सर्वं गरुडो भगवानथ ।।
वासुदेवप्रसादेन सामर्थ्यातिशयैर्युतः ।। 3.5 ।।

भुत्वा हरेर्वाहनं च सर्गादीनां च कारणम् ।।
देवान्विजित्य गरुडो ह्यमृताहरणं तथा ।। 3.6 ।।

चक्रे क्षुधा हृतं यस्य ब्रह्माण्डमुदरे हरेः ।।
यं दृष्ट्वा स्मृतमात्रेण नागादीनां च संक्षयम् ।। 3.7 ।।

कश्यपो गारुडाद्वृक्षं दग्धं चाजीवयद्यतः ।।
गरुडः स हरिस्तेन प्रोक्तं श्रीकश्यपाय च ।। 3.8 ।।

तच्छ्रीमद्रारुडं पुण्यं सर्वदं पठतस्तव ।।
वक्ष्ये व्यासं नमस्कृत्य श्रृणु शौनक तद्यथा ।। 3.9 ।।

।।इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विषयनिरूपणं नाम तृतीयोऽध्यायः ।। 3 ।।