सामग्री पर जाएँ

गरुडपुराणम्/आचारकाण्डः/अध्यायः ४

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ३ गरुडपुराणम्
अध्यायः ४
वेदव्यासः
आचारकाण्डः, अध्यायः ५ →

।।रुद्र उवाच ।।
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।।
वंशानुचरितं चैव एतद्‌ ब्रूहि जनार्दन ।। 4.1 ।।

।। हरिरुवाच ।।
श्रृणु रुद्र प्रवक्ष्यामि सर्गादीन्पापनाशनान् ।।
सर्गस्थितिप्रलयान्तां तां विष्णोः क्रीडां पुरातनीम् ।। 4.2 ।।

नरनारायणो देवो वासुदेवो निरंजनः ।।
परमात्मा परं ब्रह्म जगज्जनिलयादिकृत् ।। 4.3 ।।

तदेतत्सर्वमेवैतव्द्यक्ताव्यक्तस्वरूपवत् ।
तथा पुरुषरूपेण कालरूपेण च स्थितम् ।। 4.4 ।।

व्यक्तं विष्णुस्तथाऽव्यक्तं पुरुषः काल एव च ।।
क्रीडतो बालकस्येव चेष्टास्तस्य निशामय ।। 4.5 ।।

अनादिनिधनो धाता त्वनन्तः पुरुषोत्तमः ।।
तस्माद्भवति चाव्यक्तं तस्मादात्मापि जायते ।। 4.6 ।।

तस्माहुद्धिर्मनस्तस्मात्ततः खं पवनस्ततः ।।
तस्मात्तेजस्ततस्त्वापस्ततो भूमिस्ततोऽभवत् ।। 4.7 ।।

अण्डो हिरण्मयो रुद्र । तस्यान्तः स्वयमेव हि ।।
शरीरग्रहणं पूर्वं सृष्ट्यर्थं कुरुते प्रभुः ।। 4.8 ।।

ब्रह्मा चतुर्मुखो भूत्वा रजोमात्राधिकः सदा ।।
शरीरग्रहणं कृत्वाऽसृजदेतच्चराचरम् ।। 4.9 ।।

अण्डस्यान्तर्जगत्सर्वं सदेवासुरमानुषम् ।।
स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च ।। 4.10 ।।

अपसंह्रियते चान्ते संहर्त्ता च स्वयं हरि ।।
ब्रह्मा भूत्वासृजद्विष्णुर्जगत्पाति हरिः स्वयम् ।। 4.11 ।।

रुद्ररूपी च कल्पान्ते जगत्संहरतेऽखिलम् ।।
ब्रह्मा तु सृष्टिकालेऽस्मिञ्जमध्यगतां महीम् ।। 4.12 ।।

दंष्टूयोद्धरति ज्ञात्वा वारहीमास्थितस्तनूम् ।।
देवादिसर्गाद्वक्ष्येऽहं संक्षेपाच्छृणु शङ्कर ! ।। 4.13 ।।

प्रथमो महतः सर्गो विरूपो ब्रह्मणस्तु सः ।।
तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः ।। 4.14 ।।

वैकारिकस्तृतीयस्तु सर्गस्त्वैन्द्रियकः स्मृतः ।।
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः ।। 4.15 ।।

मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।।
तिर्य्यक्‌स्त्रोतास्तु यः प्रोक्तस्तिर्य्यग्योन्यः स उच्यते ।। 4.16 ।।

तदूर्द्धस्त्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ।।
ततोऽर्वाक्‌स्त्रोतसां सर्गः सप्तमः स तु मानुषः ।। 4.17 ।।

अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसस्तु सः ।।
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः ।। 4.18 ।।

प्राकृतो वैकृतश्चापि कौमारो नवमः स्मृतः ।।
स्थावरान्ताः सुराद्यास्तु प्रजा रुद्र ! चतुर्विधाः ।। 4.19 ।।

ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसाः सुताः ।।
ततो देवासुरपितॄन्मानुषांश्च चतुष्टयम् ।। 4.20 ।।

सिसृक्षुरम्भांस्येतानि स्वमात्मानमपूजयत् ।।
मुक्तात्मनस्तमोमात्रादुद्रिक्तास्तत्प्रजापतेः ।। 4.21 ।।

सिसृक्षेर्जघनात्पूर्वमसुरा जज्ञिरे ततः ।।
उत्ससर्ज ततस्तां तु तमोमात्रात्मिकां तनूम् ।। 4.22 ।।

तमोमात्रा तनुस्त्यक्ता शङ्कराभूद्विभावरी ।।
यक्षोपक्षांसि तद्देहे प्रीतिमापुस्ततः सुराः ।। 4.23 ।।

सत्त्वोद्रिक्तास्तु मुखतः संभूता ब्रह्मणो हर ! ।।
सत्त्वप्राया तनुस्तेन सन्त्यक्ता साप्यभूद्दिनम् ।। 4.24 ।।

ततो हि बलिनो रात्रावसुरा देवता दिवा ।।
सत्त्वमात्रां तनुं गृह्य पितरश्च ततोऽभवन् ।। 4.25 ।।

सा चोत्सृष्टाभवत्सन्ध्या दिननक्तान्तरस्थितिः ।।
रजोमात्रां तनुं गृह्य मनुष्यास्त्वभवंस्ततः ।। 4.26 ।।

सा त्यक्ता चाभवज्ज्योत्स्त्रा प्राक्‌सन्ध्या याभिधीयते ।।
ज्योत्स्ना रात्र्यहनी सन्ध्या शरीराणि तु तस्य वै ।। 4.27 ।।

रजोमात्रां तनु गृह्य क्षुदभूत्कोप एव च ।।
क्षुत्तृट्‌क्षामा अमृग्भक्षा राक्षसा रक्षणाच्च ये ।। 4.28 ।।

यक्षाख्या यक्षणाज्ज्ञेयाः सर्पा वै केशसर्पणात् ।।
जाताः कोपेन भूतास्ते गन्धर्वा जज्ञिरे ततः ।। 4.29 ।।

गायन्तो जज्ञिरे वाचं गन्धर्वाप्सरसश्च ये ।।
स्वर्गं द्यौर्वक्षसश्चक्रे सुखतोऽजाः स सृष्टवान् ।। 4.30 ।।

सृष्टवानुदराद्राश्च पार्श्वाभ्यां च प्रजापतिः ।।
पद्भ्यां चैवांत्यमातङ्गान्महिषोष्ट्राविकांस्तथा ।। 4.31 ।।

ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे ।।
गौरजः पुरुषो मेध्यो ह्यश्वाश्वतरगर्दभाः ।। 4.32 ।।

एतान् ग्राम्यान्पशून्प्राहुरारण्यांश्च निबोध मे ।।
श्वापदं द्विखुरं हस्तिवानराः पक्षिपञ्चमाः ।। 4.33 ।।

औदकाः पशवः षष्ठाः सप्तमाश्च सरीसृपाः ।।
पूर्वादिभ्यो मुखेभ्यस्तु ऋग्वेदाद्याः प्रजज्ञिरे ।। 4.34 ।।

आस्याद्वै ब्राह्मणा जाता बाहुभ्यां क्षत्त्रियाः स्मृताः ।।
ऊरुभ्यां तु विशः सृष्टाः शूद्रः पद्भ्यां जायत ।। 4.35 ।।

ब्रह्मलोको ब्राह्मणानां शाक्रः क्षत्त्रियजन्मनाम् ।।
मारुतं च विशां स्थानं गान्धर्वं शूद्रजन्मनाम् ।। 4.36 ।।

ब्रह्मचारिव्रतस्थानां ब्रह्मलोकः प्रजायते ।।
प्राजापत्यं गृहस्थानां यथाविहितकारिणाम् ।। 4.37 ।।

स्थानं सप्तऋषीणां च तथैव वनवासिनाम् ।।
यतीनामक्षयं स्थानं यदृच्छागामिनां सदा ।। 4.38 ।।

।।इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सृष्टिवर्णनं नाम चतुर्थोऽध्यायः ।। 4 ।।