याज्ञवल्क्यस्मृतिः/आचाराध्यायः/विवाहप्रकरणम्
← ब्रह्मचारिप्रकरणम् | याज्ञवल्क्यस्मृतिः विवाहप्रकरणम् याज्ञवल्क्यः |
वर्णजातिविवेकप्रकरणम् → |
गुरवे तु वरं दत्त्वा स्नायाद्वा तदनुज्ञया । |
अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियं उद्वहेत् । |
अरोगिणीं भ्रातृमतीं असमानार्षगोत्रजान् । |
दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात् । |
एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः । |
यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः । |
तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् । |
ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता । |
यज्ञस्थ ऋत्विजे दैव आदायार्षस्तु गोद्वयम् । |
इत्युक्त्वा चरतां धर्मं सह या दीयतेऽर्थिने । |
आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः । |
पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् । |
पिता पितामहो भ्राता सकुल्यो जननी तथा । |
अप्रयच्छन्समाप्नोति भ्रूणहत्यां ऋतावृतौ । |
सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक् । |
अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम् । |
अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः । |
अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया । |
आगर्भसंभवाद्गच्छेत्पतितस्त्वन्यथा भवेत् । |
हृताधिकारां मलिनां पिण्डमात्रोपजीविनाम् । |
सोमः शौचं ददावासां गन्धर्वश्च शुभां गिरम् । |
व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते । |
सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्यप्रियंवदा । |
अधिविन्ना तु भर्तव्या महदेनोऽन्यथा भवेत् । |
मृते जीवति वा पत्यौ या नान्यं उपगच्छति । |
आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् । |
स्त्रीभिर्भर्तृवचः कार्यं एष धर्मः परः स्त्रियाः । |
लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः । |
षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् । |
एवं गच्छन्स्त्रियं क्षामां मघां मूलं च वर्जयेत् । |
यथाकामी भवेद्वापि स्त्रीणां वरं अनुस्मरन् । |
भर्तृभ्रातृपितृज्ञाति श्वश्रूश्वशुरदेवरैः । |
संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी । |
क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् । |
रक्षेत्कन्यां पिता विन्नां पतिः पुत्रास्तु वार्धके । |
पितृमातृसुतभ्रातृ श्वश्रूश्वशुरमातुलैः । |
पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया । |
सत्यां अन्यां सवर्णायां धर्मकार्यं न कारयेत् । |
दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः । |