याज्ञवल्क्यस्मृतिः/आचाराध्यायः/ब्रह्मचारिप्रकरणम्

विकिस्रोतः तः
Jump to navigation Jump to search
← उपोद्घातप्रकरणम् याज्ञवल्क्यस्मृतिः
ब्रह्मचारिप्रकरणम्
याज्ञवल्क्यः
विवाहप्रकरणम् →

ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः ।
निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः । । १.१० । ।

गर्भाधानं ऋतौ पुंसः सवनं स्पन्दनात्पुरा ।
षष्ठेऽष्टमे वा सीमन्तो मास्येते जातकर्म च । । १.११ । ।

अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः ।
षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् । । १.१२ । ।

एवं एनः शमं याति बीजगर्भसमुद्भवम् ।
तूष्णीं एताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः । । १.१३ । ।

गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।
राज्ञां एकादशे सैके विशां एके यथाकुलम् । । १.१४ । ।

उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदं अध्यापयेदेनं शौचाचारांश्च शिक्षयेत् । । १.१५ । ।

दिवासंध्यासु कर्णस्थ ब्रह्मसूत्रोदङ्मुखः ।
कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः । । १.१६ । ।

गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः ।
गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः । । १.१७ । ।

अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः ।
प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यं उपस्पृशेत् । । १.१८ । ।

कनिष्ठादेशिन्यङ्गुष्ठ मूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्म देवतीर्थान्यनुक्रमात् । । १.१९ । ।

त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् ।
अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः । । १.२० । ।

हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः ।
शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः । । १.२१ । ।

स्नानं अब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः ।
सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः । । १.२२ । ।

गायत्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः । । १.२३ । ।

प्राणानायम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु ।
जपन्नासीत सावित्रीं प्रत्यगातारकोदयात् । । १.२४ । ।

संध्यां प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात् ।
अग्निकार्यं ततः कुर्यात्संध्ययोरुभयोरपि । । १.२५ । ।

ततोऽभिवादयेद्वृद्धानसावहं इति ब्रुवन् ।
गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः । । १.२६ । ।

आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत् ।
हितं तस्याचरेन्नित्यं मनोवाक्कायकर्मभिः । । १.२७ । ।

कृतज्ञाद्रोहिमेधावि शुचिकल्यानसूयकाः ।
अध्याप्या धर्मतः साधु शक्ताप्तज्ञानवित्तदाः । । १.२८ । ।

दण्डाजिनोपवीतानि मेखलां चैव धारयेत् ।
ब्राह्मणेषु चरेद्भैक्षं अनिन्द्येष्वात्मवृत्तये । । १.२९ । ।

आदिमध्यावसानेषु भवच्छब्दोपलक्षिता ।
ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् । । १.३० । ।

कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया ।
आपोशानक्रियापूर्वं सत्कृत्यान्नं अकुत्सयन् । । १.३१ । ।

ब्रह्मचर्ये स्थितो नैकं अन्नं अद्यादनापदि ।
ब्राह्मणः कामं अश्नीयाच्छ्राद्धे व्रतं अपीडयन् । । १.३२ । ।

मधुमांसाञ्जनोच्छिष्ट शुक्तस्त्रीप्राणिहिंसनम् ।
भास्करालोकनाश्लील परिवादादि वर्जयेत् । । १.३३ । ।

स गुरुर्यः क्रियाः कृत्वा वेदं अस्मै प्रयच्छति ।
उपनीय ददद्वेदं आचार्यः स उदाहृतः । । १.३४ । ।

एकदेशं उपाध्याय ऋत्विग्यज्ञकृदुच्यते ।
एते मान्या यथापूर्वं एभ्यो माता गरीयसी । । १.३५ । ।

प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा ।
ग्रहणान्तिकं इत्येके केशान्तश्चैव षोडशे । । १.३६ । ।

आषोडशादाद्वाविंशाच्चतुर्विंशाच्च वत्सरात् ।
ब्रह्मक्षत्रविशां कालौपनायनिकः परः । । १.३७ । ।

अत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः ।
सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः । । १.३८ । ।

मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् ।
ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः । । १.३९ । ।

यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।
वेद एव द्विजातीनां निःश्रेयसकरः परः । । १.४० । ।

मधुना पयसा चैव स देवांस्तर्पयेद्द्विजः ।
पितॄन्मधुघृताभ्यां च ऋचोऽधीते च योऽन्वहम् । । १.४१ । ।

यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृतैः ।
प्रीणाति देवानाज्येन मधुना च पितॄंस्तथा । । १.४२ । ।

स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् ।
सामानि तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा । । १.४३ । ।

मेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् ।
पितॄंश्च मधुसर्पिर्भ्यां अन्वहं शक्तितो द्विजः । । १.४४ । ।

वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः ।
इतिहासांस्तथा विद्याः शक्त्याधीते हि योऽन्वहम् । । १.४५ । ।

मांसक्षीरौदनमधु तर्पणं स दिवौकसाम् ।
करोति तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा । । १.४६ । ।

ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः ।
यं यं क्रतुं अधीते च तस्य तस्याप्नुयात्फलम् । । १.४७ । ।

त्रिर्वित्तपूर्णपृथिवी दानस्य फलं अश्नुते ।
तपसश्च परस्येह नित्यं स्वाध्यायवान्द्विजः । । १.४८ । ।

नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ ।
तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा । । १.४९ । ।

अनेन विधिना देहं सादयन्विजितेन्द्रियः ।
ब्रह्मलोकं अवाप्नोति न चेहाजायते पुनः । । १.५० । ।