विष्णुस्मृतिः/द्वात्रिंशत्तमोऽध्यायः
राजर्त्विक्श्रोत्रियाधर्मप्रतिषेध्युपाध्यायपितृव्यमातामहमातुलश्वशुरज्येष्ठभ्रातृसंबन्धिनश्चाचार्यवत् । । ३२.१ । ।
पत्न्य एतेषां सवर्णाः । । ३२.२ । ।
मातृष्वसा पितृष्वसा ज्येष्ठा स्वसा च । । ३२.३ । ।
श्वशुरपितृव्यमातुलर्त्विजां कनीयसां प्रत्युत्थानं एवाभिवादनं । । ३२.४ । ।
हीनवर्णानां गुरुपत्नीनां दूरादभिवादनं न पादोपस्पर्शनं । । ३२.५ । ।
गुरुपत्नीनां गोत्रोत्सादनाञ्जनकेशसंयमनपादप्रक्षालनादीनि न कुर्यात् । । ३२.६ । ।
असंस्तुतापि परपत्नी भगिनीति वाच्या पुत्रीति मातेति वा । । ३२.७ । ।
न च गुरूणां त्वं इति ब्रूयात् । । ३२.८ । ।
तदतिक्रमे निराहारो दिवसान्ते तं प्रसाद्याश्नीयात् । । ३२.९ । ।
न च गुरुणा सह विगृह्य कथाः कुर्यात् । । ३२.१० । ।
न चैवास्य परीवादं । । ३२.११ । ।
न चानभिप्रेतं । । ३२.१२ । ।
गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः ।
पूर्णविंशतिवर्षेण गुणदोषौ विजानता । । ३२.१३ । ।
कामं तु गुरुपत्नीनां युवतीनां युवा भुवि ।
विधिवद्वन्दनं कुर्यादसावहं इति ब्रुवन् । । ३२.१४ । ।
विप्रोष्य पादग्रहणं अन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वीत सतां धर्मं अनुस्मरन् । । ३२.१५ । ।
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मानस्थानानि गरीयो यद्यदुत्तरम् । । ३२.१६ । ।
ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् ।
पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता । । ३२.१७ । ।
विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।
वैश्यानां धान्यधनतः शूद्राणां एव जन्मतः । । ३२.१८ । ।