याज्ञवल्क्यस्मृतिः/व्यवहाराध्यायः/क्रीतानुशयप्रकरणम्

विकिस्रोतः तः

दशैकपञ्चसप्ताह मासत्र्यहार्धमासिकम् ।
बीजायोवाह्यरत्नस्त्री दोह्यपुंसां परीक्षणम् । । २.१७७ । ।

अग्नौ सुवर्णं अक्षीणं रजते द्विपलं शते ।
अष्टौ त्रपुणि सीसे च ताम्रे पञ्च दशायसि । । २.१७८ । ।

शते दशपला वृद्धिरौर्णे कार्पाससौत्रिके ।
मध्ये पञ्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता । । २.१७९ । ।

कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः ।
न क्षयो न च वृद्धिश्च कौशेये वाल्कलेषु च । । २.१८० । ।

देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् ।
द्रव्याणां कुशला ब्रूयुर्यत्तद्दाप्यं असंशयम् । । २.१८१ । ।