सामग्री पर जाएँ

पृष्ठम्:HanumannatakamOfDamodaraMisraWithDipikaKhemraj1909.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ हनुमन्नाटक- सीता- [ अङ्कः- 'कमठ पृष्ठम् ' इत्यादि पुनः पठति । रावणपुरोहितः सक्रोधमू- सार्धं हरेण हरवल्लभया च देव्या हेरम्बषण्मुखवृषप्रमथावकीर्णम् । कैलासमुद्धृतवतो दशकन्धरस्य केयं च ते धनुषि दुर्मद दो: परीक्षा ॥ १७ ॥ हे दुर्मद दुर्वीराग्रह, धनुपि दशकन्धरस्य दो: परीक्षा भुजबलज्ञानरूपा का, न कापि । ते तव इयं धनुरधिज्यकरणरूपा परीक्षा का न कापीत्यर्थः । किंविशिष्टस्य । कैलासं गिरिं धृतवतः । अन्यत्तु सुगमम् । यद्वा किंविशिष्टस्य ते । हरेण नैपुण्येन सार्धं कैलासं नेतृगुणमुद्धृतवत उच्चैर्हृदि धारयतः । ईदृड्नेता नेहागिति ज्ञानवतः । 'हरो नैपुण्यरुद्रयोः ' इति चरकः । ' गुरौ नेतृगुणे भावे कैलासे स्त्री- हरेऽपि च ' इति शाश्वतः । च पुनः वल्लभया देव्या सार्धं देवी द्योतमाना वल्लभा कार्याकार्यपरीक्षा तया सहेत्यर्थः । 'कार्याकार्यविचारेक्षा वल्लभा च जयध्वनिः ' इति विश्वः । किंविशिष्टं नेत्रगुणम् हेरम्वपण्मुखवृपा याः प्रमथाः विद्यास्ताभिरा- कीर्ण युक्तम् । हेरम्वो गणेशस्तस्यैवाग्रपूज्यत्वं विघ्ननाशाय । विद्या पण्मुखस्यैव शत्रुसंहारविद्या । वृपो धर्मस्यैव लोकपालनमित्र एताभिर्युक्तः । एतद्विशेपणन्त्रयेण -सद्गुणशालित्वातिकल्पत्वरञ्जितलोकत्वादयो गुणा दर्शिताः । हरेण हरवल्लभया चेति पदद्वयेन विद्याबलत्वमुक्तम् । किं तत् । हरो रुद्रस्तद्वत् । यथा रुद्रः सर्व जानाति तथाखिलनेतृगुणाज्जानतस्तव धनुरुद्धरणमात्रे का परीक्षेति भावः ॥ १७॥ जनकः- शृणुत जनककल्पाः क्षत्रियाः शुल्कमेते दशवदनभुजानां कुण्ठिता यत्र शक्तिः । नमयति धनुरैशं यस्तदारोपणेन त्रिभुवनजयलक्ष्मीर्जानकी तस्य दाराः ॥ १८ ॥ 'जनकोऽपि पुरोहितमाक्षिप्य स्वप्रतिज्ञातं राज्ञ: श्रावयति - जानकी 'जन एव जनकः, जनानां समूहो जानकं जानकमस्यास्तीति जानकी