३२२ आश्वलायन गृह्यसूत्रभाष्यम् ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः । पूजिताः प्रतिपूज्यन्ते निर्दहन्त्यपमानिताः ॥ इति ॥ २७ ॥ अथातो ग्रहाणां प्रमाणम्--- द्वादशाङ्गुलोऽर्को भवेत् सोमश्च द्विगुणः स्मृतः । कुजः स्याच्चतुरङ्गुलस्तदर्धं तु बुधः स्मृतः ।। षडङ्गुलो भवेज्जीवो भार्गवस्तु नवाङ्गुलः । सौरिः स्याच्चतुरङ्गुलो राहुः पञ्च च विंशतिः । केतुः पञ्च च विंशतिस्ततश्चार्धाङगुलः परः ॥ तिलतण्डुलमिश्रं वा अजाक्षीरं तु शोणितम् । कर्णनासागृहीतं स्यादेतच्चित्रोदनं स्मृतम् ।। मध्ये तु भास्करं विद्याच्छशिनं पूर्वदक्षिणे । लोहितं दक्षिणे विद्याद् बुधं पूर्वोत्तरेण तु ।। उत्तरेण गुरुं विद्यात् पूर्वेणैव तु भार्गवम् । पश्चिमेन शनि विद्याद्राहुं दक्षिणपश्चिमे । पश्चिमोत्तरतः केतुं ग्रहाणां विधिरुत्तमः || इति ॥ २८ ॥ अथातो वारुणविधिः । वापीकूपतडागयज्ञं व्याख्यास्यामः । पुण्ये तिथिकरणे शुभे नक्षते प्राचीं दिशमास्थाय प्राक्प्रवण उदवप्रवणे वोदकसमीपेऽग्निमुपसमाधाय वारुणं चरुं श्रपयित्वा तस्य पुरस्ताच्चतस्र आज्याहुतीर्जुहुयात् । ' समुद्रज्येष्ठा: ' इति प्रत्यृचम् । ततो हविषाष्टाभिर्जुहुयात् ' तत् त्वा यामि ब्रह्मणा वन्दमान:' इति पञ्च, ' त्वं नो अग्ने वरुणस्य विद्वान्' इति द्वे,
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३५९
दिखावट