सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

APPENDIX ३२१ सलिलानि तक्षति ', ' यदक्रन्दः प्रथमं जायमानः ', ' सहस्रशीर्षा पुरुष: ', ' ब्रह्मणस्पते त्वमस्य यन्ता ', ' इन्द्रं वो विश्वतस्परि', यमाय सोमं सुनुत', 'मो षु णः परा परा', 'उषो वाजं हि वंस्व' इति प्रत्यधिदेवतामन्त्राः । स्नानार्घ्यपाद्यादि यथाविधि । द्वौ रक्तौ, श्वेतौ द्वौ, पीतौ द्वौ, कृष्णास्त्रयः । सर्वेषां नवानां गन्धमाल्य- धूपदीपाच्छादनं प्रतिस्वं दद्याद्यथावर्णम् । अर्क : पलाश: स्वदिरो- पामार्गोऽश्वत्थ उदुम्बर: शमी दूर्वाः कुशा इति समिध: । सर्वेषामलाभे पालाश्यो वा । एकैकस्य अष्टसहस्रमष्टशतमष्टा- विंशतिरष्टौ वा । समिध आज्यं चरुं च हुत्वोपहारान् दद्यात् । गुडौदनमादित्याय । घृतपायसं सोमाय । हविष्यमन्नमङ्गार- काय । क्षीरौदनं बुधाय । दध्योदनं बृहस्पतये । घृतौदनं शुक्राय । तिलपिष्टमिश्रमन्नं शनैश्चराय | राहवे मांसौदनम् । केतवे चित्तौदनम् । इत्युपहारा: । सोमं राजानं सौविष्टकृतं हुत्वोपस्थाय यथाविधि । रक्ता गौः शङ्खो रक्तोऽनड्वान् कनकं पीतं वासः श्वेतोऽश्वः कृष्णा गौ: कृष्णायसं छाग इति दक्षिणा । सर्वेषां काञ्चनं वा । येन वा तुष्येदाचार्य: । ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयीत ॥ यथा शस्त्रप्रहाराणां कवचं भवति वारणम् । एवं दैवोपघातानां शान्तिर्भवति वारणम् ॥ यथा समुत्थितं यन्त्रं यन्त्रेण प्रतिहन्यते । एवं समुत्थितं घोरं शान्त्या च प्रतिहन्यते ॥ अहिंसकस्य दान्तस्य धर्मार्जितधनस्य च । नित्यं च नियमस्थस्य सदा सानुग्रहा ग्रहाः ॥