सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० आश्वलायनगृह्यसूत्रभाष्यम् शिवा दिशः प्रदिश उद्दिशो न आपो विद्युतः परिपान्तु सर्वतः || इति । सर्वतो व्रजस्व इति । 'ऋषभं मा समानानाम् ' इति च सूक्तेन । रुद्रसूक्तैदिशामुपस्थानम् । अथ लाङ्गूलं चोद्धरेत् उदपूर्णं यत् पिबति खादति तेन देवान् ऋषीन् पितॄंश्च प्रीणाति यश्चोत्सृजत इत्याह् शौनकः । ब्राह्मणान् भोजयित्वा तिलानुदकुम्भं गां वासी हिरण्यं दक्षिणा । स्वस्त्ययनं वाचयीत ॥ २६ ॥ अथातो ग्रहाणामातिथ्यकल्पं व्याख्यास्यामः । मासि मास्यृतावृतावयने विषुवे चन्द्रग्रहे सूर्यग्रहे शुभाशुभे वा प्रयुञ्जानः सर्वान् कामानवाप्नोति । उक्तमेवाग्निविधानं कृत्वा ग्रह- देवतानां यः सर्वत्र कर्म कुरुते तस्य ग्रहास्तुष्यन्ति । व्याहृति- भिरावाहनमृग्भिश्चानुपूर्व्येण । अग्निरापो भूमिर्विष्णुरिन्द्र इन्द्राणी प्रजापतिः सर्पा ब्रह्मेत्यधिदेवता: । ' अग्नि दूतं वृणीमहे', 'अप्सु मे सोमो अब्रवीत् ', ' स्योना पृथिवि भव', ' इदं विष्णु- विचक्रमे ', 'इन्द्रः श्रेष्ठानि द्रविणानि धेहि', 'इन्द्राणीमासु नारिषु', ' प्रजापते न त्वदेतान्यन्यः ', ' आयं गौः पृश्निरक्रमीत्', 'ब्रह्म जज्ञानं प्रथमं पुरस्तात् ' इत्यधिदेवतामन्त्राः । ' आ कृष्णेन रजसा वर्तमानः ', ' आ प्यायस्व समेतु ते ', ' अग्निर्मुर्धा दिवः ककुत्', $ ( I उद्बुध्यध्वं समनसः सखायः', 'बृहस्पते अति यदर्यो अर्थात् ', शुक्रः शुशुक्वाँ उषो न जार: ', ' शमग्निरग्निभिः करत् कया नश्चित आ भुवत् ', ' केतुं कृण्वन्न केतवे ' इति ग्रहाणां मन्त्राः । रुद्रो गौरी स्कन्दः पुरुषो ब्रह्मेन्द्रो यमः कालश्चित्र- गुप्तश्चेति प्रत्यधिदेवताः । ' व्यम्बकं यजामहे ', ' गौरीमिमाय }