सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

APPENDIX ' सप्त ते अग्ने समिधः सप्त जिह्वाः सप्त ऋषयः सप्त धाम प्रियाणि । सप्त होता : सप्तधा त्वा यजन्ति सप्त योनीरा पृणस्व घृतेन ॥ ३११ स्वाहा- - त्वं नो अग्ने तव देव पायुभिः ', ' स त्वं नो अग्ने- saमो भवोती', 'मनो ज्योतिर्जुषताम् ' Ha ( पुनस्त्वादित्या रुद्रा वसवः समिन्धतां पुनर्ब्रह्माणो वसुनीथ यज्ञैः । घृतेन त्वं तन्वं वर्धयस्व सत्याः सन्तु यजमानस्य कामाः || स्वाहा इति । अथ स्रुवेणाज्याहुतीर्जुहुयात् -- अग्नये पवमानाय, अग्नये पावकाय, अग्नये शुचये, अग्नये पथिकृते, अग्नये तन्तुमते, अग्नये वैश्वानराय, अग्नये स्विष्टकृते स्वाहा -- इति । स्विष्ट - कृत् समानं प्राक् पौर्णमासात् । यदि पौर्णमास्यां पार्वणस्त्वकृतो वैश्वानरीयं हुत्वा पार्वणेन यजेत । यद्यमावास्यायां वा पार्थिकृतम् । उभयव्यतिक्रम उभयेन यजेत । यावन्तो होमास्त्वकृताः स्यु- स्तावत्कृत्वो मनस्वतीं जुहुयात् । सकृद्वा सर्वप्रायश्चित्तानि च । सर्वार्थानि सर्वप्रायश्चित्तानि । विच्छिन्ने यज्ञे मनस्वतीं च ।। १४ ।। अथातो लौकिक उपासनग्रहणधारणोपावरोहणसमारो- पणविधिमनुव्याख्यास्यामः । प्रवसतस्त्रिषु समारोपणं भवति । आत्मन्यरण्योः समित्स्विति । स यदि समित्सु समारोपयेत् पाला- शीमाश्वत्थी मौदुम्बरी वा तासामेकतमस्यां समारोपयेत् । अयं ते योनिर्ऋत्वियः' इति । 'स्वेन यजुषा स्वे योनौ समारोपये' इति