सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

APPENDIX आश्वलायनगृह्यपरिशिष्टम् गृह्ये तु यानि नोक्तानि क्वचिद् वैतानिकेऽपि वा । विधेरलोपनार्थाय तानि वक्ष्याम्यतः परम् ॥ क्वचिद् गद्यैः क्वचिच्छ्लोकैस्तद् वक्ष्याम्यनुपूर्वशः । गायत्यादिषु छन्दःसु सविता येषु देवता || तत्र पुण्यतमा ह्येषा सानुगीता यशस्विनी । गायत्तीनामधेया तु ' तत् सवितुर्वरेण्यम् ' इति ॥ छन्दसा सा तु गायत्री सावित्री दैवतेन तु । सावित्रीजातिसंपन्नः श्राद्धं वेत्ति यथाविधि ॥ आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवःस्वरोम् ' इत्युच्यते शिरश्वास्याः । बहूवृचं वैश्वदेवे तु नियुञ्ज्याद् वेदपारगम् । नियुक्तो वैश्वदेवे तु स श्राद्धं परिपालयेत् ॥ This is a reprint of the text published earlier in the ALB on the basis of four MSS. with introduction, critical apparatus, appendixes and indexes. It is thought useful to include it here as in some MSS. of the Parisista it is regarded as chapter V of the Grhya-sutra. On the details of its importance and references to it by numerous authors from the 11th century onwards one may refer to The Adyar Library Bulletin, vol. 27, 1964, pp. 217ff. (= The Adyar Library Phamphlet Series No. 36).