सामग्री पर जाएँ

सूत्रार्थरत्नावली/द्वितीयोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः
← तृतीयः पादः सूत्रार्थरत्नावली
चतुर्थः पादः
[[लेखकः :|]]

॥ श्रीः ॥
॥ हरिः ॥
॥ अथ द्वितीयाध्यायस्य चतुर्थः पादः ॥

युक्तिसहितश्रुतिविरोधः श्रुतिनामपाक्रियतेऽस्मिन्पादे ॥

1.अधिकरणं ॥

अतेंद्रियोत्पत्तिविषयश्रुतिविरोधः परिह्रियते।

<2-4-1>
(1) ॥ तथा प्राणाः ॥ ॥

ननु न प्राणाउत्पत्तिमंतः। प्राणा एवेति (काषायण.) श्रुतेः। न चोत्पत्तावपि एतस्मादिति (मुं. 2-1-3.) श्रुतिरस्तीति वाच्यं। अनुत्पत्तिश्रुतेः स्पष्टार्थतया निरवकाशत्वेन प्राबल्यात्। एतस्माज्जायत इति श्रुतेः प्रादुर्भावपरतयाऽपि योजयितुं शक्यत्वादविस्पष्टार्थत्वेन दौर्बल्यात्। प्राणा नोत्पत्तिमंतः निरुपादानत्वादिति युक्तियुक्तत्वात्। न चासिद्धिः। नोपादानमिति (भविष्यत्पर्वणि.) स्मृतिसिद्धत्वात्। अतः प्रबलश्रुतिविरोधादुत्पत्तिश्रुतिरप्रमाणमेवेति नेश्वरस्य श्रुतिसमन्वयेन जगत्कारणत्वसिद्धिरिति प्राप्ते सूत्रितं ॥

॥ ॥ तथा प्राणा इति ॥ अस्यार्थः ॥ यथा आकाशादयः विष्णोरुत्पद्यंते। तथा प्राणाः इंद्रियाण्यपि उत्पद्यंत एव न त्वनुत्पत्तिमंतीत्यर्थः ॥

एवंचोत्पत्तिमंत एव प्राणाः। आकाशस्योत्पत्तिसाधकानां हेतूनामिहापि सद्भावात्। ततश्च पराधीनविशेषावाप्तिमंत एवेति परमात्मन उत्पन्नत्वसिद्धेर्युक्तं श्रुतिसमन्वयेन ब्रह्मणो जगत्कारणत्वमिति सिद्धं ॥
</2-4-1>

<2-4-2>
(2) ॥ गौण्यसंभवात् ॥ ॥

नन्वाकाशोत्पत्तिसिध्यर्थं श्रुत्यभावोहेतुरुक्तः। न चासाविह संभवति। प्राणा एवे(काषायण.)त्यनुत्पत्तिश्रुतेर्विद्यमानत्वादिति प्राप्ते पराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ गौण्यसंभवादिति ॥ अस्यार्थः ॥ प्राणा एवानादय इत्यनादित्वश्रुतिः गौणी अमुख्या। सूक्ष्मरूपेणानुत्पत्तिविषया। कुतः। असंभवात् इंद्रियाणां मुख्यानादित्वायोगात्। एतस्मादिति (मुं. 2-1-3.) श्रुत्ययोगाच्चेत्यर्थः ॥

एवंच श्रुतिसद्भावेऽपि तस्या मुख्यार्थत्वाभावेन गौण्यर्थत्वात्। परमात्मना साम्यप्रसंगेन मुख्यार्थासंभवात्। प्राणा उत्पत्तिमंतः अल्पशक्तित्वादिति युक्तिविरुद्धत्वाच्च। अतः प्राणानां परमात्मन उत्पन्नत्वं सिद्धं ॥
</2-4-2>

<2-4-3>
(3) ॥ प्रतिज्ञानुपरोधाच्च ॥ ॥

वियदधिकरणोक्तप्रतिज्ञाहान्युक्त्येंद्रियाणामुत्पत्तिं समर्थयत्सूत्रमुपन्यस्यति ॥

॥ ॥ प्रतिज्ञानुपरोधाच्चेति ॥ अस्यार्थः ॥ इदं सर्वमसृजतेति (तै. 2-6.) प्रतिज्ञानुपरोधात् प्रतिज्ञाऽनुसाराच्च प्राणा उत्पद्यंत इत्यंगीकार्यमित्यर्थः ॥

एवंच प्राणानामुत्पत्यंगीकारे स इदमिति श्रुतेरनुसारादविरोधः। अतः श्रुत्यविरोधेन प्राणानां परमात्मन उत्पन्नत्वं सिद्धं ॥
</2-4-3>
॥ इति प्राणोत्पत्त्याधिकरणं ॥

2.अधिकरणं ॥

अत्र मनोजन्मविषयश्रुतिविरोधः परिह्रियते।

<2-4-4>
(4) ॥ तत्प्राक् श्रुतेश्च ॥ ॥

ननु नोत्पत्तिर्मनसः। नित्यं मनोऽनादित्वादिति (गौपवन.) श्रुतेः। न चोत्पत्तिश्रुत्यनुसारेणेंद्रियोत्पत्तिश्रुतिवदनादित्वश्रुतेर्गौणार्थवर्णनं युक्तं। इंद्रियाणामनित्यत्वमुक्त्वा विशिष्य मनसो नित्यत्वाभिधानात्। किं च मनसः सादित्वे तद्विना कदाचिदनादिना पुरुषेणावस्थातव्यं। न च तत्संभवति। तथा सति तदा संसाराभावप्रसंगात्। मनसः संसारकारणत्वात्। मन एव मनुष्याणामिति स्मरणात्। अतो नित्यमेव मनः। एवंच युक्तियुक्तिविशेषश्रुतेः प्राबल्यात्तद्विरोधेनोत्पत्तिश्रुतेरप्रामाण्यान्न श्रुतिसमन्वयेनेश्वरस्य जगत्कारणत्वसिद्धिरिति प्राप्ते सूत्रितं ॥

॥ ॥ तत्प्राक्‌श्रुतेश्चेति ॥ अस्यार्थः ॥ तदनुत्पत्तीति समुच्चये च शब्दः। तस्य मनसः। तेभ्योऽन्येंद्रियेभ्यः प्राक् पूर्वं उत्पन्नत्वेन। श्रुतेः मनः सर्वेंद्रियाणि चेति (मुं. 2-1-3) श्रवणात्। मन उत्पत्तिमदेव न त्वनुत्पत्तिमदित्यर्थः ॥

एवंच नानुत्पत्तिर्मनसो युज्यते। उत्पन्नत्वे श्रुतिसद्भावात्। न चास्या गत्यंतरं। पृथङ्मनसो जन्माभिधायकत्वेन विशेषश्रुतित्वात्। न चान्येंद्रियवन्मनसोऽप्युत्पत्तिमत्वे तस्येंद्रियार्थस्य पृथगभिधानं व्यर्थं। अन्येंद्रियेभ्योऽपि प्रागुक्तोत्पन्नत्वाभिप्रायेण तदुपपत्तेः। न चानुत्पत्तिश्रुतिविरोधः। तस्याः सूक्ष्मरूपमनोविषयत्त्वात्। न च विशिष्यनित्यत्वोक्तिविरोधः। अन्येंद्रियेभ्योऽल्पोपचयाभिप्रायकत्वात्तस्याः। अतः श्रुत्यविरोधेन मनसोभगवदुत्पन्नत्वसिद्धेर्युक्तो जगत्कारणे ब्रह्मणि श्रुतिसमन्वय इति सिद्धं ॥
</2-4-4>
॥ इति तत्प्रागधिकरणं ॥

3.अधिकरणं ॥

अत्र वागुत्पत्तिश्रुतेरनुत्पत्तिश्रुत्या विरोधः परिह्रियते।

<2-4-5>
(5) ॥ तत्पूर्वकत्वाद्वाचः ॥ ॥

ननु न वागुत्पत्तिमती। वाग्वावेति (पौष्यायण.) श्रुतेः। न चेयं श्रुतिर्वेदविषयेति वाच्यं। अस्यां हि श्रुतिरवतिष्ठत इति श्रुतश्रुत्याश्रयत्वायोगात्। किंच वागनुत्पत्तिमती नित्यश्रुत्याश्रयत्वादित्यनुमानविरोधो वाचः सादित्वे दुष्परिहरः। सादेर्नित्याश्रयत्वादर्शनात्। न चानादित्वश्रुतिः सूक्ष्मरूपविषया। नित्यश्रुतश्रुत्युच्चारणसामर्थ्यरूपश्रुत्याश्रयत्वायोगादिति प्राप्ते सूत्रितं ॥

॥ ॥ तत्पूर्वकत्वाद्वाच इति ॥ अस्यार्थः ॥ वाचः वागिंद्रियस्य। तत्पूर्वकत्वात् मनः पूर्वरूपमिति (ऐ.आ. 3-1-1.) मनः कारणकत्वश्रवणाद्वांगिंद्रियमुत्पत्तिमदेव न त्वनुत्पत्तिमदेवेत्यर्थः ॥

एवंच वागुत्पत्तिमती। वागुत्तररूपमिति कार्यत्वश्रवणात्। न च कारणाभावात्कार्यत्वमनुपपन्नं। मनः पूर्वरूपमिति शाखांतरश्रुत्याऽर्थान्मनः कारणकत्वस्यासिध्या कार्यत्वोपपत्तेः। न च श्रुतिविरोधः। श्रुतेरुपचारेण नित्यत्वाभिधानात्। न च नित्याश्रयत्वयुक्त्या नित्यत्वं। वाचो नित्यश्रुतिसंनिधियोग्यताया एवांगीकृतत्वेन नित्यफलोपहितश्रुत्याश्रयत्वानंगीकारात्। श्रुत्यर्थपर्यालोचनयौपचारिकनित्यत्वस्यैव लाभात्। एवं सत्येव हि वेदाश्रयत्वेन नित्यया पुराणाश्रयत्वेनानित्ययास्तौमीति वाक्यार्थो घटते नान्यथा। अतः श्रुत्यविरोधेनोत्पत्तिसिद्धेर्वाचो युक्तः श्रुतिसमन्वयो जगत्कारणे हराविति सिद्धं ॥
</2-4-5>
॥ इति तत्पूर्वकत्वाधिकरणं ॥

4.अधिकरणं ॥

अत्र प्राणसंख्याविषयश्रुतिविरोधः परिह्रियते।

<2-4-6>
ननु `सप्त प्राणाः प्रभवंति' इति [मुं. 2-1-8.] `द्वादश वा' इति [कौंडिण्य.] च श्रुत्यो परस्परविरुद्धत्वादनिर्णायकत्वं। न चान्यतरश्रुत्याऽन्यतरबाधो युक्तः। समबलत्वात्। न चाभिमानिनां सप्तत्वात्प्राणानामपि सप्तत्वमेव। अभिमान्यभिमन्यमानयोः समसंख्यात्वनियमात्। न च सप्तत्वश्रुतिः सयुक्तिकत्वेन प्रबला। द्वादशवेति श्रुतौ प्राणमासादीनामेकदैवत्याभिप्रायेण द्वादशमासा इत्यभिहितत्वेन प्राणाभिमानिनां द्वादशत्वेन प्राणानामपि द्वादशत्वं वाच्यं। उक्तयुक्तेरप्यत्रापि साम्यात्। न च द्वादशप्राणेषु सप्ता अपि संभवंतीति श्रुत्योरविरोधः। द्वादशत्वे कारणविशेषाभावेन सप्तत्वोक्तेरयोगात्। ततश्च श्रुत्योरप्रामाण्येन न श्रुतिसमन्वयेनेश्वरस्य जगत्कारणत्वं युक्तमिति प्राप्ते सूत्रितं ॥

॥ ॥ सप्त गतेर्विशेषितत्वाच्चेति ॥ अस्यार्थः ॥ च शब्दः सप्तप्राणास्त्ववगतेरिति प्रमाणसमुच्चये। गतेः ज्ञानस्य। जनकानींद्रियाणि सप्त सप्त संख्याकानीति निर्णय एव। नं त्वनिर्णयः। कुतः। विशेषितत्वात् सप्त प्राणा इति श्रुतौ गुहाशयां बुध्यर्थं निहिताः विशेषणयुक्ततया निर्दिष्टत्वादित्यर्थः ॥

एवंच द्वादशैव प्राणाः। द्वादशवेति श्रुतेः। न च सप्तत्वश्रुतिविरोधः। द्वादशप्राणेषु सप्तत्वस्यापि भावात्। न च प्राणानां द्वादशत्वे कारणाभावे सप्तत्वोक्तेरयोगः। श्रोत्रचक्षुःस्पर्शनरसनघ्राणमनोबुद्धीनां ज्ञानसाधनेंद्रियत्वेन तद्विवक्षया सप्तत्वोक्तिसंभवात्। न च तेषां ज्ञानार्थत्वमप्रसिद्धं। गुहाशयां निहिता इति (मुं. 2-1-8.) वाक्यशेषसिद्धत्वात्। ततश्च श्रुत्योरविरोधेन प्रामाण्याच्छ्रुतिसमन्वयेन विष्णोर्जगत्कारणत्वं युक्तमिति सिद्धं ॥
</2-4-6>

<2-4-7>
(7) ॥ हस्तादयस्तु स्थितेऽतोनैवं ॥ ॥

ननु सप्तभ्योऽन्येषां प्राणानां सद्भावेऽत्राथर्वणश्रुतौ तेषां परमात्मजन्यत्वेनोच्यमानैः सप्तभिः `सह सप्त पंच प्राणाः' इति पाठः स्यात्। अत्र सहपाठाभावो द्वेधा भवेत्। अनादित्वेन वा परमात्मनस्तदकारणत्वेन वेति। तदुभयमपि `तथा प्राणाः' इत्युक्ति(सू. 2-4-1.) विरुद्धत्वात्। न च सहपाठे वा परमात्मनस्तदकारणत्वे वा कारणंतरमस्ति। अकारणकार्योत्पत्तिश्चायुक्ता। ततश्च सहपाठाभावान्न सप्तभ्योऽन्ये प्राणाः संतीति प्राप्ते परिहरत्सूत्रं पठति।

॥ ॥ हस्तादयस्तु स्थितेऽतोनैवमिति ॥ अस्यार्थः ॥ तु शब्दो वैलक्षण्यद्योतकः यतो हस्तादयस्तु हस्तादींद्रियाणि तु। स्थिते स्थितं कर्म। तादर्थ्ये सप्तमी। कर्मार्थीनि। अतः अस्माद्वैलक्षण्यात्तानि। एवं ज्ञानेंद्रियसह भावेन न पठितानि। अतस्तेषां सप्तता सिद्धैवेत्यर्थः।

एवंच हस्तादीनां पंचानां स्थितिहेतुत्वलक्षणवैलक्षण्यमाश्रित्य सहपाठोपपत्तेः। अतः श्रुत्योरविरोधेन प्रामाण्याच्छ्रुतिसमन्वयेन विष्णोर्जगत्कारणत्वनिश्चयो युक्त इति सिद्धं ॥
</2-4-7>
॥ इति सप्तगत्यधिकरणं ॥

5.अधिकरणं ॥

अत्र प्राणपरिमाणविषयश्रुतिविरोधः परिह्रियते।

<2-4-8>
(8) ॥ अणवश्च ॥ ॥

ननु व्याप्ताः प्राणाः। दिवीव चक्षुरिति (ऋ. 1-22-20.) व्याप्तिश्रुतेः। दूरस्थवस्तुदर्शनश्रवणानुसंधानादियुक्तेश्च। न चाणुत्व[कौंडिन्य.]श्रुतिविरोधः। विष्णोर्व्याप्तत्वे दृष्टांतेन चक्षुर्व्याप्तेरुक्तत्वेनैतच्छ्रुतेः प्राबल्यात्। अतः प्रबलव्याप्तिश्रुतिविरोधादणुश्रुतिरप्रमाणमेवेति प्राप्ते सूत्रमाह ॥

॥ ॥ अणवश्चेति ॥ अस्यार्थः ॥ प्राणाः इंद्रियाणि अणवः स्वतोऽणुनीत्यर्थः। न केवलं अणूनि किंतु तेजसा व्याप्तानि चेति च शब्दार्थः ॥

एवंचाणव एव हि प्राणाः तथाश्रुतेः। न च दिवीव चक्षुरिति प्रबलश्रुतिविरोधेनाणुत्वाभावः। अणुत्वस्यापि तद्यथा ह्यणु न इति [शांडिल्य.] प्रबलश्रुतिसिद्धत्वात्। न चैवं सत्यनिर्णयः। तद्यथा ह्यणु नं इति श्रुतेर्विस्पष्टवादित्वेन व्याप्तिश्रुतितोऽपि बलवत्वात्। न च तदप्रमाणं। तद्यथा ह्यणु न इति श्रुत्यनुसारेण व्याप्तिश्रुतेस्तेजसां व्याप्त्यर्थकत्वनिर्णयेन युक्तिविरोधस्य पराकृतत्वात्। अतः श्रुत्यविरोधेन प्राणानामणुत्वमिति सिद्धं ॥
</2-4-8>
॥ इति अण्वधिकरणं ॥

6.अधिकरणं ॥

अत्र मुख्यप्राणजन्मविषयश्रुतिविरोधः परिह्रियते।

<2-4-9>
(9) ॥ श्रेष्ठश्च ॥ ॥

ननु नोत्पत्तिमान्मुख्यप्राणः। नैष प्राण इति श्रुतेः। न च मुख्यवाय्वनुत्पत्तिश्रुतिवदियमपि श्रुतिरन्यथा योजनीया। तस्या उत्पत्तिमरणकारणत्वेनोत्पत्त्याद्ययोग इति युक्तियुक्तानादित्वश्रुतेः प्राबल्यात्। अतः प्रबलानादित्वश्रुतिविरोधादुत्पत्तिश्रुतेरप्रामाण्यान्न जगत्कारणे परमेश्वरे श्रुतिसमन्वयोपपत्तिरिति प्राप्ते सूत्रमाह ॥

॥ ॥ श्रेष्ठश्चेति ॥ अस्यार्थः ॥ यथेतरे प्राणा उत्पद्यंते एवं श्रेष्ठः मुख्यप्राणोऽपि विष्णोरुत्पद्यत एव न त्वनुत्पत्तिमानित्यर्थः ॥

एवंच यथेतरे प्राणा उत्पद्यंते तथा श्रेष्ठोऽपि मुख्यप्राण उत्पत्तिमानेव। सौक्ष्म्येण ह वेति [गौपवन.] श्रुतेः। न चानादित्वश्रुतिविरोधः। तस्य सूक्ष्मरूपेण सदास्थितेः स्थूलरूपेण कदाचिदुदितत्वस्य चोक्तत्वात्। स्थूलादिभावस्य स्वरूपत्वाभावात्। यद्यप्यस्येतरजीवसाधारणत्वान्न विशेषः। तथाऽपि शरीरादिष्वेवायं स्थूलो न त्वितरजीवानामिव चैतन्ये। तदभिमानिकृतविक्रियाविशेषवानिति विशेषसद्भावात्। अतः श्रुत्यविरोधेन मुख्यवायोर्जननसिद्धेर्युक्तं जगत्कारणत्वं श्रुतिसमन्वयेन वासुदेवस्येति सिद्धं ॥
</2-4-9>

<2-4-10>
(10) ॥ न वायुक्रिये पृथगुपदेशात् ॥ ॥

नन्वनादित्वश्रुतेः सयुक्तिकत्वेन प्रबलत्वात्तदुनुसारेणोत्पत्तिश्रुतेरेव चेष्टा बाह्यवायुविषयतया व्याख्यातव्या। तयोरपि चेष्टायामिति वाक्ये प्राणशब्दवाच्यत्वोक्तेरेतयोरनुत्पत्तिवचनाभावेनोत्पत्त्यंगीकारे विरोधाभावादिति प्राप्ते सूत्रमुपन्यस्यति ॥

॥ ॥ न वायुक्रिये पृथगुपदेशादिति ॥ अस्यार्थः ॥ वायुक्रिये बाह्यवायुचेष्टाख्यकर्मणी न। एतस्मादिति (मुं. 2-1-3.) प्राणोत्पत्तिश्रुतिप्रतिपाद्ये न भवतः। किंतु मुख्यवायुरेव तत्प्रतिपाद्यः। कुतः। पृथगुपदेशात्। स प्राणमसृजते(प्र. 6-4.)त्यादौ मुख्यवायुत्पत्तेः वायुक्रियोत्पत्तिभ्यां सकाशात् पृथक् श्रवणादित्यर्थः ॥

एवंच सप्राणमृसृजतेति श्रुतौ प्राणस्योत्पत्तिमत्त्वमभिधायं प्राणाच्च चेष्टावाय्वोः पृथगुत्पत्त्याभिधानात्। तथैव भूतानि मंत्राश्चेष्टाश्चेति [वायुप्रोक्ते.] स्मृतावप्यभिधानात्। न च सर्वभूतोत्पत्तिकारणत्वेनोत्तमत्वेन तस्योत्पत्त्यभावः। महतोऽपि तस्य ततोऽप्यतिमहता विष्णुना जन्मसंभवात्। अतः श्रुत्यविरोधेन मुख्यप्राणस्योत्पत्तिरिति सिद्धं ॥
</2-4-10>
॥ इति श्रेष्ठाधिकरणं ॥

7.अधिकरणं ॥

अत्र मुख्यप्राणस्वातंत्र्यास्वातंत्र्यश्रुतिविरोधः परिह्रियते।

<2-4-11>
(11) ॥ चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ ॥

ननु स्वतंत्र एव मुख्यप्राणः। किंचिदाश्रित इति [अग्निवेश्य.] श्रुतेः। न च प्राणस्येति [पैंग्य.] पारतंत्र्यश्रुतिविरोधः। स्वातंत्र्यसाधकाखिलजगच्चेष्टकत्वयुक्तियुक्तत्वेन स्वातंत्र्यश्रुतेर्बलवत्त्वात्। नचोत्पत्तिमत्वयुक्तियुक्तत्वेन परतंत्र्यश्रुतिरपि बलवती। स्वातंत्र्यवादिनो जन्मासंप्रतिपत्तेः। जन्मश्रुतीनामप्येतच्छ्रुतिविरोधेनाप्रामाण्यात्। प्रामाण्येऽपि लीलया विग्रहग्रहणसंभवेन तस्य पारतंत्र्यसाधकत्वाभावे पारतंत्र्यश्रुतेः सयुक्तिकत्वाभावः। अतः प्रबलश्रुतिविरोधापरिहारादप्रमाणं पारतंत्र्यश्रुतिः। अतो नारायणस्य श्रुतिसमन्वयेन जगत्कारणत्वासिद्धिरिति प्राप्ते सूत्रितं ॥

॥ ॥ चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्य इति ॥ अस्यार्थः ॥ तु शब्द एवार्थे। मुख्यप्राणोऽपि चक्षुरादिवत्परमात्माधीन एव न तु स्वतंत्रः। कुतः। तत्सहशिष्टयादिभ्यः तैश्चक्षुरादिभिः सह मुख्यवायोरपि सर्वं ह्येवैतादिति (गौपवन.) श्रुतौ पराधीनत्वोक्तेः। सर्वकर्तेत्यादिवचनोक्तयुक्तिभ्यश्चेत्यर्थः ॥

एवंच मुख्यप्राणश्चक्षुरादिवत्परमात्माधीन एव। सर्वं ह्येवैतदिति चक्षुरादिभिः सहैव तद्वशत्वाभिधानात्। मुख्यवायुर्न स्वतंत्रः भगवत्प्रेरणामंतरेण दर्शनादिशक्तिविधुरत्वादिति युक्तेः। न चासिद्धिः। नान्योऽतोऽस्तीति [बृ. 5-7-23.] श्रुतिसिद्धत्वात्। यद्यपि प्राणः सर्वकर्ता तथाऽपि स ईश्वराधीनोऽभ्युपगंतव्यः। अन्यथा प्राण एव न स्यात्। परमात्मनः स्वातंत्र्यस्यापलापे जगदुदयाद्यभावेन स्वातंत्र्यवस्तुद्वयासंभवेन च श्रुत्यविरोधेन प्राणस्येशवशत्वसिद्धेरुक्तं युक्तमिति सिद्धं ॥
</2-4-11>

<2-4-12>
(12) ॥ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥ ॥

ननु यदि चक्षुरादिवदेवेश्वराधीनत्वं मुख्यप्राणस्य तर्हि तस्यावांतरेश्वरत्वाद्यसंभवेन न प्राणः किंचिदिति [अग्निवेश्य.] स्वातंत्र्यश्रुतेर्वैयर्थ्य स्यादित्याशंकां पराकुर्वत्सूत्रमाह ॥

॥ ॥ अकरणत्वाच्च न दोषस्तथा हि दर्शयतीति ॥ अस्यार्थः ॥ मुख्यप्राणस्य करणत्वात् कर्तृप्रयोज्यत्वरूपकरणाभन्नत्वात् चक्षुरादीनां तद्रूपत्वाच्च अस्मादेव वैलक्षण्यान्मुख्यस्येतरेभ्य उत्तमत्वसिद्धेः। न दोषः मुख्यप्राणस्वातंत्र्यवाचिश्रुतेरवांतरेश्वरपरत्वाभावदोषो नास्ति। कस्मादेवं कल्प्यत इति चेत्। हि यस्मात्। तानि ह वा इति (मांडव्य.) श्रुतिस्तथा उक्तप्रकारेण। दर्शयति ज्ञापयति। तस्मादित्यर्थः ॥

एवंच सर्वेषामीश्वराधीनत्वसाम्येऽपीतरेषां कर्तृप्रयोज्यत्वान्मुख्यप्राणस्य तदभावेन विशेषात्। सुप्त्यादौ व्यापारभावाभावरूपयुक्त्या तानि ह वेति श्रुत्याच विशेषसिद्धेश्चोपपन्नं तस्यावांतरेश्वरत्वं। अतः श्रुत्यविरोधेन प्राणस्येशवशत्वं सिद्धं ॥
</2-4-12>
॥ इति चक्षुराद्याधिकरणं ॥

8.अधिकरणं ॥

अत्र प्राणापानादेर्मुख्यप्राणस्वरूपत्वतद्दासत्वविषये श्रुतिविरोधः परिह्रियते।

<2-4-13>
(13) ॥ पंचवृत्तिर्मनोवद्व्यपदिश्यते ॥ ॥

ननु सर्वे वा एते मुख्यदासा इति [कौंडिन्य.] मुख्यस्यैव स्वरूपाणीति [गौपवन.] श्रुतिद्वयमप्रमाणं। अर्थानिर्णायकत्वात्। यद्येको मुख्यस्यैव स्वरूपाणीति श्रुतिं व्यक्तसद्गुणत्वयुक्तिं चावलंब्य प्राणादयो मुख्यप्राणस्वरूपाण्येवेति ब्रूयात्तर्ह्यपरोपि सर्वे वा एत इति तदाज्ञया कर्मकारित्वयुक्तिं चावलंब्य प्राणादयो दासा एवेति ब्रूयात्। अत एतद्युक्तिश्रुत्यवष्ठंभेनाद्या दासा एवेति व्रूयात्तर्हि परोऽपि प्राचीनश्रुतियुक्त्यवष्ठंभेन स्वरूपाण्येवेति ब्रूयात्। समबलत्वेनान्यतरश्रुतिबाधायोगात्। एवंचार्थानिर्णयेन श्रुतिद्वयाप्रामाण्यान्न श्रुतिबलेन विष्णोर्जगत्कारणत्वसिद्धिरिति प्राप्ते सूत्रितं ॥

॥ ॥ पंचवृत्तिर्मनोबद्‌व्यपदिश्यत इति ॥ अस्यार्थः ॥ मनोवत् मनस इव। यथा मनसः मनोबुध्यहंकारचित्तचेतनाख्यपंचप्रकारोपेतत्वं तथा मुख्यप्राणोऽपि पंचवृत्तिः प्राणापानापंचरूपवान्। कुतः। यस्मात् अथ पंचवृत्त्येति (कौंडिन्य.) श्रुतौ तथा व्यपदिश्यते प्रतिपाद्यते। तस्मादित्यर्थः ॥

एवंच प्राणादयो दासा एव स्वरूपाण्येवेति न ब्रूमः। येन परस्परविरोधेनानिर्णयः। किं नामार्थ पंचवृत्त्यैतदिति श्रुत्यवष्ठंभेन मनोवत्। प्राणादयः स्वरूपाणि दासाश्चेति द्विविधाः। ततश्च श्रुत्योर्भिन्नविषयत्वेनाबाधः। न च प्राणानां दासत्वे व्यक्तसद्गुणत्वविरोधः। दासानामपि तदंगीकारात्। न च स्वामिभृत्यभावानुपपत्तिः। स्वामिनां ततोऽपि व्यक्तसद्गुणत्वेन तद्भावोपपत्तेः। अतः श्रुत्यविरोधेन प्राणादिस्वरूपसिद्धेर्यक्तो जगत्कारणि ब्रह्मणि श्रुतिसमन्वय इति सिद्धं ॥
</2-4-13>
॥ इति पंचवृत्त्यधिकरणं ॥

9.अधिकरणं ॥

अत्र मुख्यप्राणपरिमाणविषयश्रुतिरोधः परिह्रियते।

<2-4-14>
(14) ॥ अणुश्च ॥ ॥

ननु व्याप्त एवायं प्राणः। प्राण एवाधस्तादिति व्याप्तिश्रुतेः। न च `अणुने[सौत्रायण.]त्यणुत्वश्रुतिविरोधः'। सकलजगद्धारकत्वयुक्तियुक्तत्वेन व्याप्तिश्रुतेः प्राबल्यात्। अतः प्रबलश्रुतिविरोधादप्रमाणमणुत्वश्रुतिरिति प्राप्ते सूत्रमाह ॥

॥ ॥ अणुश्चेति ॥ अस्यार्थः ॥ मुख्यप्राणः प्राणरूपेणाणुः। वायुरूपेण व्याप्तश्चेत्यर्थः ॥

एवंचाणुरेव मुख्य प्राणः। स वा एष प्राण इति [कौडिन्य.] श्रुतेः। न च व्याप्तिश्रुतिविरोधः। तस्या बहिर्देहाद्वर्तमानवायुरूपविषयत्वात्। अंतर्वाऽणुर्बहिर्महानिति विशेषश्रुतेः। नाडीसंचारित्वयुक्तेश्च। अतः श्रुत्यविरोधेन मुख्यप्राणस्याणुत्वसिद्धेर्युक्तो जगत्कारणे ब्रह्मणि श्रुतिसमन्वय इति सिद्धं ॥
</2-4-14>
॥ इति अण्वधिकरणं ॥

10.अधिकरणं ॥

अत्रेंद्रियविषयश्रुतिविरोधः परिह्रियते।

<2-4-15>
(15) ॥ ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ ॥

नन्विंद्रियाणि जीवकरणानि। जीवस्य करणान्याहुरिति [सौत्रायण.] जीवसंबंधित्वश्रुतेः। न च ब्रह्मण्योवेति [काषायण.] श्रुत्यंतरविरोधः। जीववशत्वेन प्राणानां दृश्यमानत्वयुक्तियुक्तत्वेन जीवकरणत्वश्रुतेः प्राबल्यात्। ततश्चैतच्छ्रुतिविरोधेन ब्रह्मकरणश्रुतेरप्रामाण्यात्। न श्रुतिसमन्वयेन विष्णोर्जगत्कारणत्वसिद्धिरिति प्राप्ते सूत्रं पठति ॥

॥ ॥ ज्योतिराद्यधिष्ठानं तु तदामननादिति ॥ अस्यार्थः ॥ ज्योतिराद्यधिष्ठानमित्यावर्तते। तत्त्वित्यन्वयः। तथा च ज्योतिराद्यधिष्ठानं अग्न्यादिभूतप्रेरकं तत्‌ब्रह्मैव। ज्योतिराद्यधिष्ठानं चक्षुरादिप्रेरकं न जीवः। कुतः। तदामननात् यश्चक्षुषि तिष्ठन्नि(बृ. 5-7-16.)त्यादिना तथा प्रतिपादनादित्यर्थः ॥

एवंच ब्रह्मसंबंधीन्येव करणानि जीवस्य ज्ञानादिसाधनानि। न पुनर्जीवकरणानि। जीवापेक्षया तेषामुत्तमत्वेन जीवप्रयोज्यत्वासंभवात्। तदेव हि स्वं नाम भवति। यद्यथेष्ठविनियोगार्हं न च तत एव न ब्रह्मसंबंधीन्यपीति वाच्यं। एतन्मूलतेजः प्रभृति भूतस्यैव ब्रह्मनियम्यत्वेन सुतरामेषां तन्नियम्यत्वात्। यश्चक्षुषि तिष्ठन्नित्यादिश्रुतेश्च। अतो श्रुत्यविरोधेन प्राणानां ब्रह्मकारणत्वसिद्धेर्युक्तो जगत्कारणे हरौ श्रुतिसमन्वय इति सिद्धं ॥
</2-4-15>

<2-4-16>
(16) ॥ प्राणवता शब्दात् ॥ ॥

ननु न करणानि जीवसंबंधीनि चेत्तर्हि तत्करणत्वाबिधायकश्रुतेरप्रामाण्यप्रसंग इत्याशंकामपाकुर्वत्सूत्रमुपन्यस्यति ॥

॥ ॥ प्राणवता शब्दादिति ॥ अस्यार्थः ॥ परमात्मा स्वप्रयोज्यैरेव चक्षुरादिभिः करणैः प्राणवता जीवेन कर्त्रा दर्शनादि कारयति न जीवप्रयोज्यैः। कुतः। शब्दात् एष ह्यनेनेति (भाल्लवेय.) श्रुतेरित्यर्थः ॥

एवंच करणत्वाभिधायकश्रुतेर्ब्रह्म स्वकरणैरेव दर्शनादि कारयतीति याचितकुठारवदीषत्संबंधित्वमस्तीति तत्परत्वेन प्रामाण्यपपत्तेः। जीवकरणसंबंधस्यानादिनित्यत्वेन तदभिप्रायेणापि प्रवृत्तायास्तस्याः प्रामाण्योपपत्तेः। दृश्यते खलु लोके परकीये बहुकालसंबंधिनि तदीयत्वोपचारः। न च यदींद्रियाणि ब्रह्मकरणानि तर्हि मुख्यप्राणस्यापि तत्समान एवेति प्रागुक्तं। तस्मात्प्राम एवाकरण इति मुख्यप्राणकरणत्वमयुक्तमिति चेन्न। ईश्वरश्चक्षुरादीन् किंचिज्जीवेच्छया प्रेरयति। मुख्यप्राणस्तु स्वैच्छयैवेति विशेषसद्भावेन तदुपपत्तेः। करणेः कारणमिति [वाराहे.] न जीवापेक्षयेति[वाराहे.]त्यादिवचनसद्भावात्। अतः श्रुत्यविरोधेन ब्रह्मणिजगत्कारणे श्रुतिसमन्वयो युक्त इति सिद्धं ॥
</2-4-16>

<2-4-17>
(17) ॥ तस्य च नित्यत्वात् ॥ ॥

एवं भगवदधीनान्यपींद्रियाण्यस्वतंत्रजीवकर्तृके कर्मणि साधनत्वात्तत्करणानीत्युच्यंते। यथा परकीय कुठारेणापि व्रश्चतोऽसौ तत्करणमुच्यत इत्येवं मुक्यमर्थं जीवकरणत्वश्रुतेरुक्त्वाऽधुना मुख्यार्थातरप्रतिपादकं सूत्रमवतारयति ॥

॥ ॥ तस्य च नित्यत्वादिति ॥ अस्यार्थः॥ चक्षुरादीनां ब्रह्मकरणत्वेऽपि तस्य जीवस्य करणस्य च तयोः संबंधस्य च नित्यत्वात्। तद्विवक्षया जीवकरणत्वश्रुतिरप्युपपद्यत इत्यर्थः ॥

एवंच परकीयेऽपि बहुकालसंबंधिनि वस्तुन्युपचारतस्तदीयत्वव्यवहारदर्शनादत्रापि भगवदीयेष्वपींद्रियेषु बहुकालनिजीवसंबंधितायाः सद्भावेन तत्करणत्वश्रुतिः प्रवृत्तेति श्रुतेरुपचारितार्थत्वात्। अथावियोगीनीति [गौपघन.] श्रुतेः। अतः श्रुत्यविरोधेन परे ब्रह्मणि जगत्कारणे श्रुतिसमन्वयो युक्त इति सिद्धं ॥
</2-4-17>
॥ इति ज्योतिरधिकरणं ॥

11.अधिकरणं ॥

अत्र मुख्य प्राणस्येंद्रियत्वानिंद्रियत्वश्रुतिविरोधः परिह्रियते।

<2-4-18>
(18) ॥ त इंद्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ ॥

ननु सर्वेऽपि प्राणा इंद्रियाणि। प्राणा वा इंद्रियाणीति [पौत्रायण.] श्रुतेः। सामान्यश्रुतेः सर्वगामित्वात्। न च द्वादशैवेंद्रियाणीति [काषायण.] विशेषश्रुत्या बाधः। इदं द्रवणयुक्तियुक्तत्वेन सामान्यश्रुतेर्बलवत्त्वात्। दुष्करं च द्वादशानामेवेंद्रियत्वग्रहणं। अन्यतमनिवेशनस्याशक्यत्वात्। नियामकं विना कस्यचित्परित्यागेऽपरस्यापि तत्स्यादिति द्वादशत्वहानिः। अतो युक्तियुक्ताद्यश्रुतिविरोधेन द्वितीया अप्रामाण्येन न ब्रह्मणि श्रुति युक्त इति प्राप्ते सूत्रितं ॥

॥ ॥ त इंद्रियाणि तदव्यपदेशादन्यत्र श्रेष्ठादिति ॥ अस्यार्थः ॥ श्रेष्ठात् मुख्यप्राणात्। अन्यत्र ये प्राणाः। ते एवेंद्रियाणि न तु मुख्यप्राणोऽपि। कुतः। तद्व्यपदेशात् द्वादशैवेंद्रियाणीति (पौत्रायण) श्रुतौ ततोक्तत्वादित्यर्थः ॥

एवंच न सर्वे प्राणा इंद्रियाणि किंतु मुख्यप्राणमृते द्वादशैव। द्वादशैवेंद्रियाणीति विशेषश्रुतेः। न चेदं द्रवणवतः कथमनिंद्रियत्वमिति वाच्यं। तस्य द्रवतां स्वामित्वेन इदं द्रवणाभावात्। विषयद्रवणात्तेषामिति [बृहत्संहितायां.] वचनसद्भावात्। अतः श्रुत्यविरोधेन मुख्यप्रामस्यानिंद्रियत्वसिद्धेर्युक्तो जगत्कारणे ब्रह्मणि श्रुतिसमन्वय इति सिद्धं ॥
</2-4-18>

<2-4-19>
(19) ॥ भेदश्रुतेः ॥ ॥

ननु यदि मुख्यप्राणो नेंद्रियं तर्हि चक्षुरपि न स्यात्। चक्षुर्मुख्यप्राणयोः सर्वथा विशेषाभावात्। इदं द्रवणभावाभावरूपस्य स्थितत्वेन स्थितत्वरूपस्य सूत्रकृताऽनुक्तत्वादप्रयोजकत्वाच्चेति प्राप्ते सूत्रमाह ॥

॥ ॥ भेदश्रुतेरिति ॥ अस्यार्थः ॥ मुख्यप्राणस्य सर्वकर्तृत्वकारयितृत्वरूपभेदकधर्मस्यान्येषां तदभावस्य स्थित एव हीति (पौत्रायण.) श्रुतौ श्रुतत्वान्न तस्य चक्षुराद्यविशेष इत्यर्थः ॥

एवंच स्थित एव हीदमिति श्रुतौ मुख्य प्राणस्य सर्वकर्तृत्वकारयितृत्वबलत्वबलयितृत्वधतृत्वधारयितृत्वादि विशेषोक्त्येश्वरसाम्याभिधानेन तस्य कर्तृप्रयोज्यत्वाभावात्। ततश्च श्रुत्यविरोधेन मुख्यप्राणस्यानिंद्रियत्वं सिद्धं ॥
</2-4-19>

<2-4-20>
(20) ॥ वैलक्षण्याच्च ॥ ॥

नन्वयं मुख्यप्राणो भगवद्वशो न वा। आद्ये तस्यानिंद्रित्वासिद्धिः। ईशवशत्वसाम्यात्। इदं द्रवणाभावस्थितत्वाद्यवांतरवैलक्षण्यस्य चेंद्रियेष्वपि संभवात्। द्वितीये चक्षुरादीत्युक्तविरोधः। इति प्राप्ते समादधत्सूत्रमाह ॥

॥ ॥ वैलक्षण्याच्चेति ॥ अस्यार्थः ॥ मुख्य प्राणस्य तदितरप्राणानां च केवलेश्वराधीनत्वेश्वरजीवोभयाधीनत्वरूपवैलक्षण्यसत्वाच्च न तस्येंद्रियत्वं किंतु चक्षुरादीनामेवेत्यर्थः ॥

एवंच मुख्येश्वराधीनत्वेऽपींद्रियाणामीश्वरजीवोभयवशप्रवृत्तिकत्वान्मुख्यस्य च केवलेश्वराधीनप्रवृत्तिरूपवैलक्षण्यात्। इंद्रियेषूक्तवैलक्षण्यस्य प्रत्यक्षसिद्धत्वात्। मुख्ये च प्राणाग्नय इति [प्र 4-3.] श्रुतिसिद्धत्वात्। अतः श्रुत्यविरोधेन युक्तो जगत्कारणे हरौ श्रुतिसमन्वय इति सिद्धं ॥
</2-4-20>
॥ इति त इंद्रियाधिकरणं ॥

12.अधिकरणं ॥

अत्र नामरूपविषये श्रुतिविरोधः परिह्रियते।

<2-4-21>
(21) ॥ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ ॥

ननु विरिंच एव नामरूपकर्ता। विरिंचो वेति [गौपवन.] तथा श्रुतेः। न चाथ कस्मादितीतर [अग्निवेश्य.] श्रुतिविरोधः। विरिंचस्य युक्तियुक्तत्वेनास्याः श्रुतेः प्राबल्यात्। न चेयं श्रुतिर्द्वारकरणत्वपरा। मुख्यासंभवेऽमुख्यस्यैव ग्राह्यत्वात्। अतः सयुक्तिकैतच्छ्रुतिविरोधेनेतराश्रुतिरप्रमाणमिति प्राप्ते सूत्रं पठति।

॥ ॥ संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशादिति ॥ अस्यार्थः ॥ तु शब्दोऽवधारणे। संज्ञामूर्तिक्लृप्तिर्नामरूपात्मकदेहेंद्रियप्रपंचोत्पत्तिः। त्रिवृत्कुर्वतः पृथिव्यप्तेजसां मिश्रीभावं कुर्वतः परमात्मनः सकाशादेव भवति। न विरिंचात्। कुतः। उपदेशात् सर्वाणि रूपाणि विचिंत्यधीर इति (तै.आ. 3-12.) श्रुतेरित्यर्थः ॥

एवंच परमात्मैव नामरूपकर्ता। सर्वाणि रूपाणीति श्रुतेः। न च विरिंचस्यापिकर्तृत्वे श्रुतिरस्ति। नामरूपकरणस्य त्रिवृत्करणसापेक्षत्वेन तत्कर्तृरेव मुख्यतो नामरूपकर्तृत्वस्य वक्तव्यत्वे विरिंचश्रुतेर्द्वारकारणमात्रार्थत्वात्। अत एव विरिंचत्वयुक्तिविरोधोऽपि परास्तः। अतः श्रुत्यविरोधेन शरीरस्य हरिकर्तृत्वासिद्धेर्युक्त तस्य श्रुतिसमन्वयेन जगत्कारणत्वमिति सिद्धं ॥
</2-4-21>
॥ इति संज्ञाधिकरणं ॥

13.अधिकरणं ॥

अत्र शरीरकारणश्रुतिविरोधः परिह्रियते।

<2-4-22>
(22) ॥ मांसादिभौमं यथाशब्दमितरयोश्च ॥ ॥

नन्वाप्यमेव शरीरं। अद्‌भ्योहीदमिति [कौंडिन्य.] श्रुतेः। शरीरावयवेषु मांसादिष्वधर्मतर्पकत्वदर्शनात्। न तु भूतत्रयात्मकं। तथात्वे आपः शरीरमिति हिरण्यगर्भशरीर इति च विशेषोक्त्ययोगप्रसंगात्। अथवा। पार्थिवं। पृथिवीं शरीरमप्येतीति [बृ. 5-2-13.] पृथिव्यां लयाभिधानात्। काठिण्यादि[गर्भोपनिषत् 3.] युक्तेश्च। अथवा। तैजसं। सोऽग्नेर्देवेति[ऐ.ब्रा. 7-3.]श्रुतेः। औष्ण्यदर्शनाच्च। अतो विरोधेनेमास्तिस्रो देवता इति [छां. 6-4-7.] श्रुतेरप्रामाण्यान्न श्रुतिसमन्वयेन विष्णौ जगत्कारणत्वमिति प्राप्ते सूत्रमाह ॥

॥ ॥ मांसादिभौमं यथा शब्दमितरयोश्चेति ॥ अस्यार्थः ॥ भौममित्युपलक्षणं। यच्छरीरे कठिणं मांसादि तदेवं भौमं पार्थिवं न सर्वशरीरं। किं तर्हि यथा शब्दं यत्कठिनं सा पृथिवीति (गर्भोपनिषत्. 3.) श्रुतिमनुसत्य। शरीरेतरयोः अप्तेजसोश्च कार्यं शोणितमज्जादिरूपमंगीकार्यं। यथा मांसादिकं भौमं पृथिवीकार्यं। न केवलं पृथिवीकार्यं किं नामेतरयोरप्तेजसोश्च कार्यं यथा श्रुत्यंगीकार्यमित्यर्थः ॥

एवंच यच्छरीरे कठिनं मांसादि तदेव पार्थिवं। यच्छोणितादि तदेवाप्यं। यच्च मज्जादि तदेव तैजसं शरीरं तु त्र्यात्मकं। यत्कठिनं सा पृथिवीति श्रुतेः। न चापो वाव मांसामिति [कौंडिन्य.] श्रुतिविरोधः। मांसस्यापि केवलपार्थिवत्वानंगीकारेण श्रुत्यनुसारेणाबादिकार्यत्वस्याप्यभिमतत्वात्। अतः श्रुत्यविरोधेन शरीरस्य पांचभौतिकत्वसिद्धेर्युक्तो जगत्कारणे ब्रह्मणि श्रुतिसमन्वय इति सिद्धं ॥

</2-4-22>

<2-4-23>
(23) ॥ वैशेष्यात्तु तद्वादस्तद्वादः ॥ ॥

ननु शरीरस्य नैकभूतप्रकृतिकत्वे विशेषोक्तेरयोगात्। शरीरे मांसादिषु वा भूतानां विशेषसंयोगे सर्वशरीरेषु सर्वभूतानां विशेषसंयोगभावे च पुनरेकैकभूतप्राचुर्यविवक्षया पार्थिवादिविशेषेक्त्ययोगात्। अध्यायसमाप्तिज्ञापनार्थमर्थभेदेन ज्ञातुं शक्यत्वेन सूत्रपदे द्विरुक्तेरयोगात्। अन्यथा पादांतेऽपि तत्प्रसंगादिति प्राप्ते सूत्रमाह ॥

॥ ॥ वैशेष्यात्तु तद्वादस्तद्वाद इति ॥ अस्यार्थः ॥ पार्थिवमाप्यं तैजसमिति विशेषोक्तिस्तु वैशेष्यात् पृथिव्यादि भूतानां तत्तच्छरीरविशेषसंयोगमपेक्ष्य युज्यते। अतः न तद्विरोध इत्यर्थः। एतदध्यायोक्तसर्वस्यार्थस्यावधारणार्थमध्यायांते द्विरुक्तिः ॥

एवंच भूतकार्यशरीराणां तद्भूतसंयोगविशेषसद्भावेन वैशेष्यात्तत्तद्‌व्यपदेशोपपत्तेः। न चोक्तविशेषसंयोगाभावविरोधः। पार्थिवानां शरीराणामिति [बृहत्संहितायां] वचनात्। नापि द्विरुक्तिविरोधः। अध्यायार्थनिश्चयरूपप्रयोजनसद्भावेन सर्वाध्यायांतिमसूत्रे पदस्य द्विरुक्तेः क्रियमाणत्वात्। अतः श्रुत्यविरोधेन शरीरस्य पांचभौतिकत्वसिद्धेर्जगत्कर्तरि विष्णौ श्रुतिसमन्वयो युक्त इति सिद्धं ॥
</2-4-23>
॥ इति मांसाधिकरणं ॥
॥ इति द्वितीयाध्यायस्य चतुर्थः पादः ॥
॥ इति द्वितीयाध्यायः समाप्तः ॥